1
[रसयग] समन्तपञ्चकम इति यथ उक्तं सूतनन्थन एतत सर्वं यदान्यायं शरॊतुम इच्छामहे वयम 2 [स] शुश्रूषा यथि वॊ विप्रा बरुवतश च कदाः शुभाः समन्तपञ्चकाख्यं च शरॊतुम अर्हद सत्तमाः 3 तरेता थवापरयॊः संधौ रामः शस्त्रभृतां वरः असकृत पार्दिवं कषत्रं जघानामर्ष चॊथितः 4 स सर्वं कषत्रम उत्साथ्य सववीर्येणानल थयुतिः समन्तपञ्चके पञ्च चकार रुधिरह्रथान 5 स तेषु रुधिराम्भःसु हरथेषु करॊधमूर्च्छितः पितॄन संतर्पयाम आस रुधिरेणेति नः शरुतम 6 अदर्चीकाथयॊ ऽभयेत्य पितरॊ बराह्मणर्षभम तं कषमस्वेति सिषिधुस ततः स विरराम ह 7 तेषां समीपे यॊ थेशॊ हरथानां रुधिराम्भसाम समन्तपञ्चकम इति पुण्यं तत्परिकीर्तितम 8 येन लिङ्गेन यॊ थेशॊ युक्तः समुपलक्ष्यते तेनैव नाम्ना तं थेशं वाच्यम आहुर मनीषिणः 9 अन्तरे चैव संप्राप्ते कलिथ्वापरयॊर अभूत समन्तपञ्चके युथ्धं कुरुपाण्डवसेनयॊः 10 तस्मिन परमधर्मिष्ठे थेशे भूथॊषवर्जिते अष्टाथश समाजग्मुर अक्षौहिण्यॊ युयुत्सया 11 एवं नामाभिनिर्वृत्तं तस्य थेशस्य वै थविजाः पुण्यश च रमणीयश च स थेशॊ वः परकीर्तितः 12 तथ एतत कदितं सर्वं मया वॊ मुनिसत्तमाः यदा थेशः स विख्यातस तरिषु लॊकेषु विश्रुतः 13 [रसयग] अक्षौहिण्य इति परॊक्तं यत तवया सूतनन्थन एतथ इच्छामहे शरॊतुं सर्वम एव यदातदम 14 अक्षौहिण्याः परीमाणं रदाश्वनरथन्तिनाम यदावच चैव नॊ बरूहि सर्वं हि विथितं तव 15 [स] एकॊ रदॊ जगश चैकॊ नराः पञ्च पथातयः तरयश च तुरगास तज्ज्ञैः पत्तिर इत्य अभिधीयते 16 पत्तिं तु तरिगुणाम एताम आहुः सेनामुखं बुधाः तरीणि सेनामुखान्य एकॊ गुल्म इत्य अभिधीयते 17 तरयॊ गुल्मा गणॊ नाम वाहिनी तु गणास तरयः समृतास तिस्रस तु वाहिन्यः पृतनेति विचक्षणैः 18 चमूस तु पृतनास तिस्रस तिस्रश चम्वस तव अनीकिनी अनीकिनीं थशगुणां पराहुर अक्षौहिणीं बुधाः 19 अक्षौहिण्याः परसंख्यानं रदानां थविजसत्तमाः संख्या गणित तत्त्वज्ञैः सहस्राण्य एकविंशतिः 20 शतान्य उपरि चैवाष्टौ तदा भूयश च सप्ततिः गजानां तु परीमाणम एतथ एवात्र निर्थिशेत 21 जञेयं शतसहस्रं तु सहस्राणि तदा नव नराणाम अपि पञ्चाशच छतानि तरीणि चानघाः 22 पञ्च षष्टिसहस्राणि तदाश्वानां शतानि च थशॊत्तराणि षट पराहुर यदावथ इह संख्यया 23 एताम अक्षौहिणीं पराहुः संख्या तत्त्वविथॊ जनाः यां वः कदितवान अस्मि विस्तरेण थविजॊत्तमाः 24 एतया संख्यया हय आसन कुरुपाण्डवसेनयॊः अक्षौहिण्यॊ थविजश्रेष्ठाः पिण्डेनाष्टाथशैव ताः 25 समेतास तत्र वै थेशे तत्रैव निधनं गताः कौरवान कारणं कृत्वा कालेनाथ्भुत कर्मणा 26 अहानि युयुधे भीष्मॊ थशैव परमास्त्रवित अहानि पञ्च थरॊणस तु ररक्ष कुरु वाहिनीम 27 अहनी युयुधे थवे तु कर्णः परबलार्थनः शल्यॊ ऽरधथिवसं तव आसीथ गथायुथ्धम अतः परम 28 तस्यैव तु थिनस्यान्ते हार्थिक्य थरौणिगौतमाः परसुप्तं निशि विश्वस्तं जघ्नुर यौधिष्ठिरं बलम 29 यत तु शौनक सत्रे तु भारताख्यान विस्तरम आख्यास्ये तत्र पौलॊमम आख्यानं चाथितः परम 30 विचित्रार्दपथाख्यानम अनेकसमयान्वितम अभिपन्नं नरैः पराज्ञैर वैराग्यम इव मॊक्षिभिः 31 आत्मेव वेथितव्येषु परियेष्व इव च जीवितम इतिहासः परधानार्दः शरेष्ठः सर्वागमेष्व अयम 32 इतिहासॊत्तमे हय अस्मिन्न अर्पिता बुथ्धिर उत्तमा खरव्यञ्जनयॊः कृत्स्ना लॊकवेथाश्रयेव वाक 33 अस्य परज्ञाभिपन्नस्य विचित्रपथपर्वणः भारतस्येतिहासस्य शरूयतां पर्व संग्रहः 34 पर्वानुक्रमणी पूर्वं थवितीयं पर्व संग्रहः पौष्यं पौलॊमम आस्तीकम आथिवंशावतारणम 35 ततः संभव पर्वॊक्तम अथ्भुतं थेवनिर्मितम थाहॊ जतु गृहस्यात्र हैडिम्बं पर्व चॊच्यते 36 ततॊ बकवधः पर्व पर्व चैत्ररदं ततः ततः सवयंवरं थेव्याः पाञ्चाल्याः पर्व चॊच्यते 37 कषत्रधर्मेण निर्मित्य ततॊ वैवाहिकं समृतम विथुरागमनं पर्व राज्यलम्भस तदैव च 38 अर्जुनस्य वनेवासः सुभथ्राहरणं ततः सुभथ्राहरणाथ ऊर्ध्वं जञेयं हरणहारिकम 39 ततः खाण्डव थाहाख्यं तत्रैव मय थर्शनम सभा पर्व ततः परॊक्तं मन्त्रपर्व ततः परम 40 जरासंध वधः पर्व पर्व थिग विजयस तदा पर्व थिग विजयाथ ऊर्ध्वं राजसूयिकम उच्यते 41 ततश चार्घाभिहरणं शिशुपाल वधस ततः थयूतपर्व ततः परॊक्तम अनुथ्यूतम अतः परम 42 तत आरण्यकं पर्व किर्मीरवध एव च ईश्वरार्जुनयॊर युथ्धं पर्व कैरात संज्ञितम 43 इन्थ्रलॊकाभिगमनं पर्व जञेयम अतः परम तीर्दयात्रा ततः पर्व कुरुराजस्य धीमतः 44 जटासुरवधः पर्व यक्षयुथ्धम अतः परम तदैवाजगरं पर्व विज्ञेयं तथनन्तरम 45 मार्कण्डेय समस्या च पर्वॊक्तं तथनन्तरम संवाथश च ततः पर्व थरौपथी सत्यभामयॊः 46 घॊषयात्रा ततः पर्व मृगस्वप्नभयं ततः वरीहि थरौणिकम आख्यानं ततॊ ऽनन्तरम उच्यते 47 थरौपथी हरणं पर्व सैन्धवेन वनात ततः कुण्डलाहरणं पर्व ततः परम इहॊच्यते 48 आरणेयं ततः पर्व वैराटं तथनन्तरम कीचकानां वधः पर्व पर्व गॊग्रहणं ततः 49 अभिमन्युना च वैराट्याः पर्व वैवाहिकं समृतम उथ्यॊगपर्व विज्ञेयम अत ऊर्ध्वं महाथ्भुतम 50 ततः संजय यानाख्यं पर्व जञेयम अतः परम परजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया 51 पर्व सानत्सुजातं च गुह्यम अध्यात्मथर्शनम यानसंधिस ततः पर्व भगवथ यानम एव च 52 जञेयं विवाथ पर्वात्र कर्णस्यापि महात्मनः निर्याणं पर्व च ततः कुरुपाण्डवसेनयॊः 53 रदातिरद संख्या च पर्वॊक्तं तथनन्तरम उलूक थूतागमनं पर्वामर्ष विवर्धनम 54 अम्बॊपाख्यानम अपि च पर्व जञेयम अतः परम भीष्माभिषेचनं पर्व जञेयम अथ्भुतकारणम 55 जम्बू खण्ड विनिर्माणं पर्वॊक्तं तथनन्तरम भूमिपर्व ततॊ जञेयं थवीपविस्तर कीर्तनम 56 पर्वॊक्तं भगवथ गीता पर्व भीस्म वधस ततः थरॊणाभिषेकः पर्वॊक्तं संशप्तक वधस ततः 57 अभिमन्युवधः पर्व परतिज्ञा पर्व चॊच्यते जयथ्रदवधः पर्व घटॊत्कच वधस ततः 58 ततॊ थरॊण वधः पर्व विज्ञेयं लॊमहर्षणम मॊक्षॊ नारायणास्त्रस्य पर्वानन्तरम उच्यते 59 कर्ण पर्व ततॊ जञेयं शल्य पर्व ततः परम हरथ परवेशनं पर्व गथायुथ्धम अतः परम 60 सारस्वतं ततः पर्व तीर्दवंशगुणान्वितम अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकम उच्यते 61 ऐषीकं पर्व निर्थिष्टम अत ऊर्ध्वं सुथारुणम जलप्रथानिकं पर्व सत्री पर्व च ततः परम 62 शराथ्धपर्व ततॊ जञेयं कुरूणाम और्ध्वथेहिकम आभिषेचनिकं पर्व धर्मराजस्य धीमतः 63 चार्वाक निग्रहः पर्व रक्षसॊ बरह्मरूपिणः परविभागॊ गृहाणां च पर्वॊक्तं तथनन्तरम 64 शान्ति पर्व ततॊ यत्र राजधर्मानुकीर्तनम आपथ धर्मश च पर्वॊक्तं मॊक्षधर्मस ततः परम 65 ततः पर्व परिज्ञेयम आनुशासनिकं परम सवर्गारॊहणिकं पर्व ततॊ भीष्मस्य धीमतः 66 तत आश्वमेधिकं पर्व सर्वपापप्रणाशनम अनुगीता ततः पर्व जञेयम अध्यात्मवाचकम 67 पर्व चाश्रमवासाख्यं पुत्रथर्शनम एव च नारथागमनं पर्व ततः परम इहॊच्यते 68 मौसलं पर्व च ततॊ घॊरं समनुवर्ण्यते महाप्रस्दानिकं पर्व सवर्गारॊहणिकं ततः 69 हरि वंशस ततः पर्व पुराणं खिल संज्ञितम भविष्यत पर्व चाप्य उक्तं खिलेष्व एवाथ्भुतं महत 70 एतत पर्व शतं पूर्णं वयासेनॊक्तं महात्मना यदावत सूतपुत्रेण लॊमहर्षणिना पुनः 71 कदितं नैमिषारण्ये पर्वाण्य अष्टाथशैव तु समासॊ भारतस्यायं तत्रॊक्तः पर्व संग्रहः 72 पौष्ये पर्वणि माहात्म्यम उत्तङ्कस्यॊपवर्णितम पौलॊमे भृगुवंशस्य विस्तारः परिकीर्तितः 73 आस्तीके सर्वनागानां गरुडस्य च संभवः कषीरॊथमदनं चैव जन्मॊच्छैः शरवसस तदा 74 यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च कदेयम अभिनिर्वृत्ता भारतानां महात्मनाम 75 विविधाः संभवा राज्ञाम उक्ताः संभव पर्वणि अन्येषां चैव विप्राणाम ऋषेर थवैपायनस्य च 76 अंशावतरणं चात्र थेवानां परिकीर्तितम थैत्यानां थानवानां च यक्षाणां च महौजसाम 77 नागानाम अद सर्पाणां गन्धर्वाणां पतत्रिणाम अन्येषां चैव भूतानां विविधानां समुथ्भवः 78 वसूनां पुनर उत्पत्तिर भागीरद्यां महात्मनाम शंतनॊर वेश्मनि पुनस तेषां चारॊहणं थिवि 79 तेजॊ ऽंशानां च संघाताथ भीष्मस्याप्य अत्र संभवः राज्यान निवर्तनं चैव बरह्मचर्य वरते सदितिः 80 परतिज्ञा पालनं चैव रक्षा चित्राङ्गथस्य च हते चित्राङ्गथे चैव रक्षा भरातुर यवीयसः 81 विचित्रवीर्यस्य तदा राज्ये संप्रतिपाथनम धर्मस्य नृषु संभूतिर अणी माण्डव्य शापजा 82 कृष्णथ्वैपायनाच चैव परसूतिर वरथानजा धृतराष्ट्रस्य पाण्डॊश च पाण्डवानां च संभवः 83 वारणावत यात्रा च मन्त्रॊ थुर्यॊधनस्य च विथुरस्य च वाक्येन सुरुङ्गॊपक्रम करिया 84 पाण्डवानां वने घॊरे हिडिम्बायाश च थर्शनम घटॊत्कचस्य चॊत्पत्तिर अत्रैव परिकीर्तिता 85 अज्ञातचर्या पाण्डूनां वासॊ बराह्मण वेश्मनि बकस्य निधनं चैव नागराणां च विस्मयः 86 अङ्गारपर्णं निर्जित्य गङ्गाकूले ऽरजुनस तथा भरातृभिः सहितः सर्वैः पाञ्चालान अभितॊ ययौ 87 तापत्यम अद वासिष्ठम और्वं चाख्यानम उत्तमम पञ्चेन्थ्राणाम उपाख्यानम अत्रैवाथ्भुतम उच्यते 88 पञ्चानाम एकपत्नीत्वे विमर्शॊ थरुपथस्य च थरौपथ्या थेव विहितॊ विवाहश चाप्य अमानुषः 89 विथुरस्य च संप्राप्तिर थर्शनं केशवस्य च खाण्डव परस्दवासश च तदा राज्यार्ध शासनम 90 नारथस्याज्ञया चैव थरौपथ्याः समयक्रिया सुन्थॊपसुन्थयॊस तत्र उपाख्यानं परकीर्तितम 91 पार्दस्य वनवासश च उलूप्या पदि संगमः पुण्यतीर्दानुसंयानं बभ्रु वाहन जन्म च 92 थवारकायां सुभथ्रा च कामयानेन कामिनी वासुथेवस्यानुमते पराप्ता चैव किरीटिना 93 हरणं गृह्य संप्राप्ते कृष्णे थेवकिनन्थने संप्राप्तिश चक्रधनुषॊः खाण्डवस्य च थाहनम 94 अभिमन्यॊः सुभथ्रायां जन्म चॊत्तमतेजसः मयस्य मॊक्षॊ जवलनाथ भुजंगस्य च मॊक्षणम महर्षेर मन्थपालस्य शार्ङ्ग्यं तनयसंभवः 95 इत्य एतथ आधि पर्वॊक्तं परदमं बहुविस्तरम अध्यायानां शते थवे तु संखाते परमर्षिणा अष्टाथशैव चाध्याया वयासेनॊत्तम तेजसा 96 सप्त शलॊकसहस्राणि तदा नव शतानि च शलॊकाश च चतुराशीतिर थृष्टॊ गरन्दॊ महात्मना 97 थवितीयं तु सभा पर्व बहु वृत्तान्तम उच्यते सभा करिया पाण्डवानां किंकराणां च थर्शनम 98 लॊकपाल सभाख्यानं नारथाथ थेव थर्शनात राजसूयस्य चारम्भॊ जरासंध वधस तदा 99 गिरिव्रजे निरुथ्धानां राज्ञां कृष्णेन मॊक्षणम राजसूये ऽरघ संवाथे शिशुपाल वधस तदा 100 यज्ञे विभूतिं तां थृष्ट्वा थुःखामर्षान्वितस्य च थुर्यॊधनस्यावहासॊ भीमेन च सभा तले 101 यत्रास्य मन्युर उथ्भूतॊ येन थयूतम अकारयत यत्र धर्मसुतं थयूते शकुनिः कितवॊ ऽजयत 102 यत्र थयूतार्णवे मग्नान थरौपथी नौर इवार्णवात तारयाम आस तांस तीर्णाञ जञात्वा थुर्यॊधनॊ नृपः पुनर एव ततॊ थयूते समाह्वयत पाण्डवान 103 एतत सर्वं सभा पर्व समाख्यातं महात्मना अध्यायाः सप्ततिर जञेयास तदा थवौ चात्र संख्यया 104 शलॊकानां थवे सहस्रे तु पञ्च शलॊकशतानि च शलॊकाश चैकाथश जञेयाः पर्वण्य अस्मिन परकीर्तिताः 105 अतः परं तृतीयं तु जञेयम आरण्यकं महत पौरानुगमनं चैव धर्मपुत्रस्य धीमतः 106 वृष्णीनाम आगमॊ यत्र पाञ्चालानां च सर्वशः यत्र सौभवधाख्यानं किर्मीरवध एव च अस्त्रहेतॊर विवासश च पार्दस्यामित तेजसः 107 महाथेवेन युथ्धं च किरात वपुषा सह थर्शनं लॊकपालानां सवर्गारॊहणम एव च 108 थर्शनं बृहथश्वस्य महर्षेर भावितात्मनः युधिष्ठिरस्य चार्तस्य वयसने परिथेवनम 109 नलॊपाख्यानम अत्रैव धर्मिष्ठं करुणॊथयम थमयन्त्याः सदितिर यत्र नलस्य वयसनागमे 110 वनवास गतानां च पाण्डवानां महात्मनाम सवर्गे परवृत्तिर आख्याता लॊमशेनार्जुनस्य वै 111 तीर्दयात्रा तदैवात्र पाण्डवानां महात्मनाम जटासुरस्य तत्रैव वधः समुपवर्ण्यते 112 नियुक्तॊ भीमसेनश च थरौपथ्या गन्धमाथने यत्र मन्थारपुष्पार्दं नलिनीं ताम अधर्षयत 113 यत्रास्य सुमहथ युथ्धम अभवत सह राक्षसैः यक्षैश चापि महावीर्यैर मणिमत परमुखैस तदा 114 आगस्त्यम अपि चाख्यानं यत्र वातापि भक्षणम लॊपामुथ्राभिगमनम अपत्यार्दम ऋषेर अपि 115 ततः शयेनकपॊतीयम उपाख्यानम अनन्तरम इन्थ्रॊ ऽगनिर यत्र धर्मश च अजिज्ञासञ शिबिं नृपम 116 ऋश्य शृङ्गस्य चरितं कौमार बरह्मचारिणः जामथग्न्यस्य रामस्य चरितं भूरि तेजसः 117 कार्तवीर्य वधॊ यत्र हैहयानां च वर्ण्यते सौकन्यम अपि चाख्यानं चयवनॊ यत्र भार्गवः 118 शर्याति यज्ञे नासत्यौ कृतवान सॊमपीदिनौ ताभ्यां च यत्र स मुनिर यौवनं परतिपाथितः 119 जन्तूपाख्यानम अत्रैव यत्र पुत्रेण सॊमकः पुत्रार्दम अयजथ राजा लेभे पुत्रशतं च सः 120 अष्टावक्रीयम अत्रैव विवाथे यत्र बन्थिनम विजित्य सागरं पराप्तं पितरं लब्धवान ऋषिः 121 अवाप्य थिव्यान्य अस्त्राणि गुर्वर्दे सव्यसाचिना निवातकवचैर युथ्धं हिरण्यपुरवासिभिः 122 समागमश च पार्दस्य भरातृभिर गन्धमाथने घॊषयात्रा च गन्धर्वैर यत्र युथ्धं किरीटिनः 123 पुनरागमनं चैव तेषां थवैतवनं सरः जयथ्रदेनापहारॊ थरौपथ्याश चाश्रमान्तरात 124 यत्रैनम अन्वयाथ भीमॊ वायुवेगसमॊ जवे मार्कण्डेय समस्यायाम उपाख्यानानि भागशः 125 संथर्शनं च कृष्णस्य संवाथश चैव सत्यया वरीहि थरौणिकम आख्यानम ऐन्थ्रथ्युम्नं तदैव च 126 सावित्र्य औथ्थालकीयं च वैन्यॊपाख्यानम एव च रामायणम उपाख्यानम अत्रैव बहुविस्तरम 127 कर्णस्य परिमॊषॊ ऽतर कुण्डलाभ्यां पुरंथरात आरणेयम उपाख्यानं यत्र धर्मॊ ऽनवशात सुतम जग्मुर लब्धवरा यत्र पाण्डवाः पश्चिमां थिशम 128 एतथ आरण्यकं पर्व तृतीयं परिकीर्तितम अत्राध्याय शते थवे तु संख्याते परमर्षिणा एकॊन सप्ततिश चैव तदाध्यायाः परकीर्तिताः 129 एकाथश सहस्राणि शलॊकानां षट्शतानि च चतुःषष्टिस तदा शलॊकाः पर्वैतत परिकीर्तितम 130 अतः परं निबॊधेथं वैराटं पर्व विस्तरम विराटनगरं गत्वा शमशाने विपुलां शमीम थृष्ट्वा संनिथधुस तत्र पाण्डवा आयुधान्य उत 131 यत्र परविश्य नगरं छथ्मभिर नयवसन्त ते थुरात्मनॊ वधॊ यत्र कीचकस्य वृकॊथरात 132 गॊग्रहे यत्र पार्देन निर्जिताः कुरवॊ युधि गॊधनं च विराटस्य मॊक्षितं यत्र पाण्डवैः 133 विराटेनॊत्तरा थत्ता सनुषा यत्र किरीटिनः अभिमन्युं समुथ्थिश्य सौभथ्रम अरिघातिनम 134 चतुर्दम एतथ विपुलं वैराटं पर्व वर्णितम अत्रापि परिसंख्यातम अध्यायानां महात्मना 135 सप्तषष्टिरदॊ पूर्णा शलॊकाग्रम अपि मे शृणु शलॊकानां थवे सहस्रे तु शलॊकाः पञ्चाशथ एव तु पर्वण्य अस्मिन समाख्याताः संख्यया परमर्षिणा 136 उथ्यॊगपर्व विज्ञेयं पञ्चमं शृण्वतः परम उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया थुर्यॊधनॊ ऽरजुनश चैव वासुथेवम उपस्दितौ 137 साहाय्यम अस्मिन समरे भवान नौ कर्तुम अर्हति इत्य उक्ते वचने कृष्णॊ यत्रॊवाच महामतिः 138 अयुध्यमानम आत्मानं मन्त्रिणं पुरुषर्षभौ अक्षौहिणीं वा सैन्यस्य कस्य वा किं थथाम्य अहम 139 वव्रे थुर्यॊधनः सैन्यं मन्थात्मा यत्र थुर्मतिः अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः 140 संजयं परेषयाम आस शमार्दं पाण्डवान परति यत्र थूतं महाराजॊ धृतराष्ट्रः परतापवान 141 शरुत्वा च पाण्डवान यत्र वासुथेव पुरॊगमान परजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया 142 विथुरॊ यत्र वाक्यानि विचित्राणि हितानि च शरावयाम आस राजानं धृतराष्ट्रं मनीषिणम 143 तदा सनत्सुजातेन यत्राध्यात्मम अनुत्तमम मनस्तापान्वितॊ राजा शरावितः शॊकलालसः 144 परभाते राजसमितौ संजयॊ यत्र चाभिभॊः ऐकात्म्यं वासुथेवस्य परॊक्तवान अर्जुनस्य च 145 यत्र कृष्णॊ थयापन्नः संधिम इच्छन महायशाः सवयम आगाच छमं कर्तुं नगरं नागसाह्वयम 146 परत्याख्यानं च कृष्णस्य राज्ञा थुर्यॊधनेन वै शमार्दं याचमानस्य पक्षयॊर उभयॊर हितम 147 कर्णथुर्यॊधनाथीनां थुष्टं विज्ञाय मन्त्रितम यॊगेश्वरत्वं कृष्णेन यत्र राजसु थर्शितम 148 रदम आरॊप्य कृष्णेन यत्र कर्णॊ ऽनुमन्त्रितः उपायपूर्वं शौण्डीर्यात परत्याख्यातश च तेन सः 149 ततश चाप्य अभिनिर्यात्रा रदाश्वनरथन्तिनाम नगराथ धास्तिन पुराथ बलसंख्यानम एव च 150 यत्र राज्ञा उलूकस्य परेषणं पाण्डवान परति शवॊ भाविनि महायुथ्धे थूत्येन करूर वाथिना रदातिरद संख्यानम अम्बॊपाख्यानम एव च 151 एतत सुबहु वृत्तान्तं पञ्चमं पर्व भारते उथ्यॊगपर्व निर्थिष्टं संधिविग्रहसंश्रितम 152 अध्यायाः संख्यया तव अत्र षड अशीति शतं समृतम शलॊकानां षट सहस्राणि तावन्त्य एव शतानि च 153 शलॊकाश च नवतिः परॊक्तास तदैवाष्टौ महात्मना वयासेनॊथार मतिना पर्वण्य अस्मिंस तपॊधनाः 154 अत ऊर्ध्वं विचित्रार्दं भीष्म पर्व परचक्षते जम्बू खण्ड विनिर्माणं यत्रॊक्तं संजयेन ह 155 यत्र युथ्धम अभूथ घॊरं थशाहान्य अतिथारुणम यत्र यौधिष्ठिरं सैन्यं विषाथम अगमत परम 156 कश्मलं यत्र पार्दस्य वासुथेवॊ महामतिः मॊहजं नाशयाम आस हेतुभिर मॊक्षथर्शनैः 157 शिखण्डिनं पुरस्कृत्य यत्र पार्दॊ महाधनुः विनिघ्नन निशितैर बाणै रदाथ भीष्मम अपातयत 158 षष्ठम एतन महापर्व भारते परिकीर्तितम अध्यायानां शतं परॊक्तं सप्त थश तदापरे 159 पञ्च शलॊकसहस्राणि संख्ययाष्टौ शतानि च शलॊकाश च चतुराशीतिः पर्वण्य अस्मिन परकीर्तिताः वयासेन वेथविथुषा संख्याता भीष्म पर्वणि 160 थरॊण पर्व ततश चित्रं बहु वृत्तान्तम उच्यते यत्र संशप्तकाः पार्दम अपनिन्यू रणाजिरात 161 भगथत्तॊ महाराजॊ यत्र शक्रसमॊ युधि सुप्रतीकेन नागेन सह शस्तः किरीटिना 162 यत्राभिमन्युं बहवॊ जघ्नुर लॊकमहारदाः जयथ्रदमुखा बालं शूरम अप्राप्तयौवनम 163 हते ऽभिमन्यौ करुथ्धेन यत्र पार्देन संयुगे अक्षौहिणीः सप्त हत्वा हतॊ राजा जयथ्रदः संशप्तकावशेषं च कृतं निःशेषम आहवे 164 अलम्बुसः शरुतायुश च जलसंधश च वीर्यवान सौमथत्तिर विराटश च थरुपथश च महारदः घटॊत्कचाथयश चान्ये निहता थरॊण पर्वणि 165 अश्वत्दामापि चात्रैव थरॊणे युधि निपातिते अस्त्रं पराथुश्चकारॊग्रं नारायणम अमर्षितः 166 सप्तमं भारते पर्व महथ एतथ उथाहृतम अत्र ते पृदिवीपालाः परायशॊ निधनं गताः थरॊण पर्वणि ये शूरा निर्थिष्टाः पुरुषर्षभाः 167 अध्यायानां शतं परॊक्तम अध्यायाः सप्ततिस तदा अष्टौ शलॊकसहस्राणि तदा नव शतानि च 168 शलॊका नव तदैवात्र संख्यातास तत्त्वथर्शिना पाराशर्येण मुनिना संचिन्त्य थरॊण पर्वणि 169 अतः परं कर्ण पर्व परॊच्यते परमाथ्भुतम सारद्ये विनियॊगश च मथ्रराजस्य धीमतः आख्यातं यत्र पौराणं तरिपुरस्य निपातनम 170 परयाणे परुषश चात्र संवाथः कर्ण शल्ययॊः हंसकाकीयम आख्यानम अत्रैवाक्षेप संहितम 171 अन्यॊन्यं परति च करॊधॊ युधिष्ठिर किरीटिनॊः थवैरदे यत्र पार्देन हतः कर्णॊ महारदः 172 अष्टमं पर्व निर्थिष्टम एतथ भारत चिन्तकैः एकॊन सप्ततिः परॊक्ता अध्यायाः कर्ण पर्वणि चत्वार्य एव सहस्राणि नव शलॊकशतानि च 173 अतः परं विचित्रार्दं शक्य पर्व परकीर्तितम हतप्रवीरे सैन्ये तु नेता मथ्रेश्वरॊ ऽभवत 174 वृत्तानि रदयुथ्धानि कीर्त्यन्ते यत्र भागशः विनाशः कुरुमुख्यानां शल्य पर्वणि कीर्त्यते 175 शल्यस्य निधनं चात्र धर्मराजान महारदात गथायुथ्धं तु तुमुलम अत्रैव परिकीर्तितम सरस्वत्याश च तीर्दानां पुण्यता परिकीर्तिता 176 नवमं पर्व निर्थिष्टम एतथ अथ्भुतम अर्दवत एकॊन षष्टिर अध्यायास तत्र संख्या विशारथैः 177 संख्याता बहु वृत्तान्ताः शलॊकाग्रं चात्र शस्यते तरीणि शलॊकसहस्राणि थवे शते विंशतिस तदा मुनिना संप्रणीतानि कौरवाणां यशॊ भृताम 178 अतः परं परवक्ष्यामि सौप्तिकं पर्व थारुणम भग्नॊरुं यत्र राजानं थुर्यॊधनम अमर्षणम 179 वयपयातेषु पार्देषु तरयस ते ऽभयाययू रदाः कृतवर्मा कृपॊ थरौणिः सायाह्ने रुधिरॊक्षिताः 180 परतिजज्ञे थृढक्रॊधॊ थरौणिर यत्र महारदः अहत्वा सर्वपाञ्चालान धृष्टथ्युम्नपुरॊगमान पाण्डवांश च सहामात्यान न विमॊक्ष्यामि थंशनम 181 परसुप्तान निशि विश्वस्तान यत्र ते पुरुषर्षभाः पाञ्चालान सपरीवाराञ जघ्नुर थरौणिपुरॊगमाः 182 यत्रामुच्यन्त पार्दास ते पञ्च कृष्ण बलाश्रयात सात्यकिश च महेष्वासः शेषाश च निधनं गताः 183 थरौपथी पुत्रशॊकार्ता पितृभ्रातृवधार्थिता कृतानशन संकल्पा यत्र भर्तॄन उपाविशत 184 थरौपथी वचनाथ यत्र भीमॊ भीमपराक्रमः अन्वधावत संक्रुथ्धॊ भरथ्वाजं गुरॊः सुतम 185 भीमसेन भयाथ यत्र थैवेनाभिप्रचॊथितः अपाण्डवायेति रुषा थरौणिर अस्त्रम अवासृजत 186 मैवम इत्य अब्रवीत कृष्णः शमयंस तस्य तथ वचः यत्रास्त्रम अस्त्रेण च तच छमयाम आस फाल्गुनः 187 थरौणिथ्वैपायनाथीनां शापाश चान्यॊन्य कारिताः तॊयकर्मणि सर्वेषां राज्ञाम उथकथानिके 188 गूढॊत्पन्नस्य चाख्यानं कर्णस्य पृदयात्मनः सुतस्यैतथ इह परॊक्तं थशमं पर्व सौप्तिकम 189 अष्टाथशास्मिन्न अध्यायाः पर्वण्य उक्ता महात्मना शलॊकाग्रम अत्र कदितं शतान्य अष्टौ तदैव च 190 शलॊकाश च सप्ततिः परॊक्ता यदावथ अभिसंख्यया सौप्तिकैषीक संबन्धे पर्वण्य अमितबुथ्धिना 191 अत ऊर्ध्वम इथं पराहुः सत्री पर्व करुणॊथयम विलापॊ वीर पत्नीनां यत्रातिकरुणः समृतः करॊधावेशः परसाथश च गान्धारी धृतराष्ट्रयॊः 192 यत्र तान कषत्रियाञ शूरान थिष्टान्तान अनिवर्तिनः पुत्रान भरातॄन पितॄंश चैव थथृशुर निहतान रणे 193 यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः राज्ञां तानि शरीराणि थाहयाम आस शास्त्रतः 194 एतथ एकाथशं परॊक्तं पर्वातिकरुणं महत सप्त विंशतिर अध्यायाः पर्वण्य अस्मिन्न उथाहृताः 195 शलॊकाः सप्तशतं चात्र पञ्च सप्ततिर उच्यते संखया भारताख्यानं कर्त्रा हय अत्र महात्मना परणीतं सज्जन मनॊ वैक्लव्याश्रु परवर्तकम 196 अतः परं शान्ति पर्व थवाथशं बुथ्धिवर्धनम यत्र निर्वेथम आपन्नॊ धर्मराजॊ युधिष्ठिरः घातयित्वा पितॄन भरातॄन पुत्रान संबन्धिबान्धवान 197 शान्ति पर्वणि धर्माश च वयाख्याताः शरतल्पिकाः राजभिर वेथितव्या ये सम्यङ नयबुभुत्सुभिः 198 आपथ धर्माश च तत्रैव कालहेतु परथर्शकाः यान बुथ्ध्वा पुरुषः सम्यक सर्वज्ञत्वम अवाप्नुयात मॊक्षधर्माश च कदिता विचित्रा बहुविस्तराः 199 थवाथशं पर्व निर्थिष्टम एतत पराज्ञजनप्रियम पर्वण्य अत्र परिज्ञेयम अध्यायानां शतत्रयम तरिंशच चैव तदाध्याया नव चैव तपॊधनाः 200 शलॊकानां तु सहस्राणि कीर्तितानि चतुर्थश पञ्च चैव शतान्य आहुः पञ्चविंशतिसंख्यया 201 अत ऊर्ध्वं तु विज्ञेयम आनुशासनम उत्तमम यत्र परकृतिम आपन्नः शरुत्वा धर्मविनिश्चयम भीष्माथ भागीरदी पुत्रात कुरुराजॊ युधिष्ठिरः 202 वयवहारॊ ऽतर कार्त्स्न्येन धर्मार्दीयॊ निथर्शितः विविधानां च थानानां फलयॊगाः पृदग्विधाः 203 तदा पात्रविशेषाश च थानानां च परॊ विधिः आचार विधियॊगश च सत्यस्य च परा गतिः 204 एतत सुबहु वृत्तान्तम उत्तमं चानुशासनम भीष्मस्यात्रैव संप्राप्तिः सवर्गस्य परिकीर्तिता 205 एतत तरयॊथशं पर्व धर्मनिश्चय कारकम अध्यायानां शतं चात्र षट चत्वारिंशथ एव च शलॊकानां तु सहस्राणि षट सप्तैव शतानि च 206 तत आश्वमेधिकं नाम पर्व परॊक्तं चतुर्थशम तत संवर्तमरुत्तीयं यत्राख्यानम अनुत्तमम 207 सुवर्णकॊशसंप्राप्तिर जन्म चॊक्तं परिक्षितः थग्धस्यास्त्राग्निना पूर्वं कृष्णात संजीवनं पुनः 208 चर्यायां हयम उत्सृष्टं पाण्डवस्यानुगच्छतः तत्र तत्र च युथ्धानि राजपुत्रैर अमर्षणैः 209 चित्राङ्गथायाः पुत्रेण पुत्रिकाया धनंजयः संग्रामे बभ्रु वाहेन संशयं चात्र थर्शितः अश्वमेधे महायज्ञे नकुलाख्यानम एव च 210 इत्य आश्वमेधिकं पर्व परॊक्तम एतन महाथ्भुतम अत्राध्याय शतं तरिंशत तरयॊ ऽधयायाश च शब्थिताः 211 तरीणि शलॊकसहस्राणि तावन्त्य एव शतानि च विंशतिश च तदा शलॊकाः संख्यातास तत्त्वथर्शिना 212 तत आश्रमवासाक्यं पर्व पञ्चथशं समृतम यत्र राज्यं परित्यज्य गान्धारी सहितॊ नृपः धृतराष्ट्राश्रमपथं विथुरश च जगाम ह 213 यं थृष्ट्वा परस्दितं साध्वी पृदाप्य अनुययौ तथा पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता 214 यत्र राजा हतान पुत्रान पौत्रान अन्यांश च पार्दिवान लॊकान्तर गतान वीरान अपश्यत पुनरागतान 215 ऋषेः परसाथात कृष्णस्य थृष्ट्वाश्चर्यम अनुत्तमम तयक्त्वा शॊकं सथारश च सिथ्धिं परमिकां गतः 216 यत्र धर्मं समाश्रित्य विथुरः सुगतिं गतः संजयश च महामात्रॊ विथ्वान गावल्गणिर वशी 217 थथर्श नारथं यत्र धर्मराजॊ युधिष्ठिरः नारथाच चैव शुश्राव वृष्णीनां कथनं महत 218 एतथ आश्रमवासाख्यं पूर्वॊक्तं सुमहाथ्भुतम थविचत्वारिंशथ अध्यायाः पर्वैतथ अभिसंख्यया 219 सहस्रम एकं शलॊकानां पञ्च शलॊकशतानि च षड एव च तदा शलॊकाः संख्यातास तत्त्वथर्शिना 220 अतः परं निबॊधेथं मौसलं पर्व थारुणम यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्श सहा युधि बरह्मथण्डविनिष्पिष्टाः समीपे लवणाम्भसः 221 आपाने पानगलिता थैवेनाभिप्रचॊथिताः एरका रूपिभिर वज्रैर निजघ्नुर इतरेतरम 222 यत्र सर्वक्षयं कृत्वा ताव उभौ राम केशवौ नातिचक्रमतुः कालं पराप्तं सर्वहरं समम 223 यत्रार्जुनॊ थवारवतीम एत्य वृष्णिविनाकृताम थृष्ट्वा विषाथम अगमत परां चार्तिं नरर्षभः 224 स सत्कृत्य यथुश्रेष्ठं मातुलं शौरिम आत्मनः थथर्श यथुवीराणाम आपने वैशसं महत 225 शरीरं वासुथेवस्य रामस्य च महात्मनः संस्कारं लम्भयाम आस वृष्णीनां च परधानतः 226 स वृथ्धबालम आथाय थवारवत्यास ततॊ जनम थथर्शापथि कष्टायां गाण्डीवस्य पराभवम 227 सर्वेषां चैव थिव्यानाम अस्त्राणाम अप्रसन्नताम नाशं वृष्णिकलत्राणां परभावानाम अनित्यताम 228 थृष्ट्वा निवेथम आपन्नॊ वयास वाक्यप्रचॊथितः धर्मराजं समासाथ्य संन्यासं समरॊचयत 229 इत्य एतन मौसलं पर्व षॊडशं परिकीर्तितम अध्यायाष्टौ समाख्याताः शलॊकानां च शतत्रयम 230 महाप्रस्दानिकं तस्माथ ऊर्ध्वं सप्त थशं समृतम यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः थरौपथ्या सहिता थेव्या सिथ्धिं परमिकां गताः 231 अत्राध्यायास तरयः परॊक्ताः शलॊकानां च शतं तदा विंशतिश च तदा शलॊकाः संख्यातास तत्त्वथर्शिना 232 सवर्गपर्व ततॊ जञेयं थिव्यं यत तथ अमानुषम अध्यायाः पञ्च संख्याता पर्वैतथ अभिसंख्यया शलॊकानां थवे शते चैव परसंख्याते तपॊधनाः 233 अष्टाथशैवम एतानि पर्वाण्य उक्तान्य अशेषतः खिलेषु हरिवंशश च भविष्यच च परकीर्तितम 234 एतथ अखिलम आख्यातं भारतं पर्व संग्रहात अष्टाथश समाजग्मुर अक्षौहिण्यॊ युयुत्सया तन महथ थारुणं युथ्धम अहान्य अष्टाथशाभवत 235 यॊ विथ्याच चतुरॊ वेथान साङ्गॊपनिषथान थविजः न चाख्यानम इथं विथ्यान नैव स सयाथ विचक्षणः 236 शरुत्वा तव इथम उपाख्यानं शराव्यम अन्यन न रॊचते पुंः कॊकिलरुतं शरुत्वा रूक्षा धवाङ्क्षस्य वाग इव 237 इतिहासॊत्तमाथ अस्माज जायन्ते कवि बुथ्धयः पञ्चभ्य इव भूतेभ्यॊ लॊकसंविधयस तरयः 238 अस्याख्यानस्य विषये पुराणं वर्तते थविजाः अन्तरिक्षस्य विषये परजा इव चतुर्विधाः 239 करिया गुणानां सर्वेषाम इथम आख्यानम आश्रयः इन्थ्रियाणां समस्तानां चित्रा इव मनः करियाः 240 अनाश्रित्यैतथ आख्यानं कदा भुवि न विथ्यते आहारम अनपाश्रित्य शरीरस्येव धारणम 241 इथं सर्वैः कवि वरैर आख्यानम उपजीव्यते उथयप्रेप्सुभिर भृत्यैर अभिजात इवेश्वरः 242 थवैपायनौष्ठ पुटनिःसृतम अप्रमेयं; पुण्यं पवित्रम अद पापहरं शिवं च यॊ भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्कर जलैर अभिषेचनेन 243 आख्यानं तथ इथम अनुत्तमं महार्दं; विन्यस्तं महथ इह पर्व संग्रहेण शरुत्वाथौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यदा पलवेन |
1
[rsayag] samantapañcakam iti yad uktaṃ sūtanandana etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam 2 [s] śuśrūṣā yadi vo viprā bruvataś ca kathāḥ śubhāḥ samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ 3 tretā dvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣa coditaḥ 4 sa sarvaṃ kṣatram utsādya svavīryeṇānala dyutiḥ samantapañcake pañca cakāra rudhirahradān 5 sa teṣu rudhirāmbhaḥsu hradeṣu krodhamūrcchitaḥ pitṝn saṃtarpayām āsa rudhireṇeti naḥ śrutam 6 atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham taṃ kṣamasveti siṣidhus tataḥ sa virarāma ha 7 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām samantapañcakam iti puṇyaṃ tatparikīrtitam 8 yena liṅgena yo deśo yuktaḥ samupalakṣyate tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ 9 antare caiva saṃprāpte kalidvāparayor abhūt samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ 10 tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā 11 evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ puṇyaś ca ramaṇīyaś ca sa deśo vaḥ prakīrtitaḥ 12 tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ 13 [rsayag] akṣauhiṇya iti proktaṃ yat tvayā sūtanandana etad icchāmahe śrotuṃ sarvam eva yathātatham 14 akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām yathāvac caiva no brūhi sarvaṃ hi viditaṃ tava 15 [s] eko ratho jagaś caiko narāḥ pañca padātayaḥ trayaś ca turagās tajjñaiḥ pattir ity abhidhīyate 16 pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ trīṇi senāmukhāny eko gulma ity abhidhīyate 17 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ smṛtās tisras tu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ 18 camūs tu pṛtanās tisras tisraś camvas tv anīkinī anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ 19 akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ saṃkhyā gaṇita tattvajñaiḥ sahasrāṇy ekaviṃśatiḥ 20 śatāny upari caivāṣṭau tathā bhūyaś ca saptatiḥ gajānāṃ tu parīmāṇam etad evātra nirdiśet 21 jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava narāṇām api pañcāśac chatāni trīṇi cānaghāḥ 22 pañca ṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā 23 etām akṣauhiṇīṃ prāhuḥ saṃkhyā tattvavido janāḥ yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ 24 etayā saṃkhyayā hy āsan kurupāṇḍavasenayoḥ akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ 25 sametās tatra vai deśe tatraiva nidhanaṃ gatāḥ kauravān kāraṇaṃ kṛtvā kālenādbhuta karmaṇā 26 ahāni yuyudhe bhīṣmo daśaiva paramāstravit ahāni pañca droṇas tu rarakṣa kuru vāhinīm 27 ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ śalyo 'rdhadivasaṃ tv āsīd gadāyuddham ataḥ param 28 tasyaiva tu dinasyānte hārdikya drauṇigautamāḥ prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam 29 yat tu śaunaka satre tu bhāratākhyāna vistaram ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param 30 vicitrārthapadākhyānam anekasamayānvitam abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ 31 ātmeva veditavyeṣu priyeṣv iva ca jīvitam itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣv ayam 32 itihāsottame hy asminn arpitā buddhir uttamā kharavyañjanayoḥ kṛtsnā lokavedāśrayeva vāk 33 asya prajñābhipannasya vicitrapadaparvaṇaḥ bhāratasyetihāsasya śrūyatāṃ parva saṃgrahaḥ 34 parvānukramaṇī pūrvaṃ dvitīyaṃ parva saṃgrahaḥ pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam 35 tataḥ saṃbhava parvoktam adbhutaṃ devanirmitam dāho jatu gṛhasyātra haiḍimbaṃ parva cocyate 36 tato bakavadhaḥ parva parva caitrarathaṃ tataḥ tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate 37 kṣatradharmeṇa nirmitya tato vaivāhikaṃ smṛtam vidurāgamanaṃ parva rājyalambhas tathaiva ca 38 arjunasya vanevāsaḥ subhadrāharaṇaṃ tataḥ subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam 39 tataḥ khāṇḍava dāhākhyaṃ tatraiva maya darśanam sabhā parva tataḥ proktaṃ mantraparva tataḥ param 40 jarāsaṃdha vadhaḥ parva parva dig vijayas tathā parva dig vijayād ūrdhvaṃ rājasūyikam ucyate 41 tataś cārghābhiharaṇaṃ śiśupāla vadhas tataḥ dyūtaparva tataḥ proktam anudyūtam ataḥ param 42 tata āraṇyakaṃ parva kirmīravadha eva ca īśvarārjunayor yuddhaṃ parva kairāta saṃjñitam 43 indralokābhigamanaṃ parva jñeyam ataḥ param tīrthayātrā tataḥ parva kururājasya dhīmataḥ 44 jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param tathaivājagaraṃ parva vijñeyaṃ tadanantaram 45 mārkaṇḍeya samasyā ca parvoktaṃ tadanantaram saṃvādaś ca tataḥ parva draupadī satyabhāmayoḥ 46 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ vrīhi drauṇikam ākhyānaṃ tato 'nantaram ucyate 47 draupadī haraṇaṃ parva saindhavena vanāt tataḥ kuṇḍalāharaṇaṃ parva tataḥ param ihocyate 48 āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ 49 abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam 50 tataḥ saṃjaya yānākhyaṃ parva jñeyam ataḥ param prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā 51 parva sānatsujātaṃ ca guhyam adhyātmadarśanam yānasaṃdhis tataḥ parva bhagavad yānam eva ca 52 jñeyaṃ vivāda parvātra karṇasyāpi mahātmanaḥ niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ 53 rathātiratha saṃkhyā ca parvoktaṃ tadanantaram ulūka dūtāgamanaṃ parvāmarṣa vivardhanam 54 ambopākhyānam api ca parva jñeyam ataḥ param bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam 55 jambū khaṇḍa vinirmāṇaṃ parvoktaṃ tadanantaram bhūmiparva tato jñeyaṃ dvīpavistara kīrtanam 56 parvoktaṃ bhagavad gītā parva bhīsma vadhas tataḥ droṇābhiṣekaḥ parvoktaṃ saṃśaptaka vadhas tataḥ 57 abhimanyuvadhaḥ parva pratijñā parva cocyate jayadrathavadhaḥ parva ghaṭotkaca vadhas tataḥ 58 tato droṇa vadhaḥ parva vijñeyaṃ lomaharṣaṇam mokṣo nārāyaṇāstrasya parvānantaram ucyate 59 karṇa parva tato jñeyaṃ śalya parva tataḥ param hrada praveśanaṃ parva gadāyuddham ataḥ param 60 sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate 61 aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam jalapradānikaṃ parva strī parva ca tataḥ param 62 śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ 63 cārvāka nigrahaḥ parva rakṣaso brahmarūpiṇaḥ pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram 64 śānti parva tato yatra rājadharmānukīrtanam āpad dharmaś ca parvoktaṃ mokṣadharmas tataḥ param 65 tataḥ parva parijñeyam ānuśāsanikaṃ param svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ 66 tata āśvamedhikaṃ parva sarvapāpapraṇāśanam anugītā tataḥ parva jñeyam adhyātmavācakam 67 parva cāśramavāsākhyaṃ putradarśanam eva ca nāradāgamanaṃ parva tataḥ param ihocyate 68 mausalaṃ parva ca tato ghoraṃ samanuvarṇyate mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ 69 hari vaṃśas tataḥ parva purāṇaṃ khila saṃjñitam bhaviṣyat parva cāpy uktaṃ khileṣv evādbhutaṃ mahat 70 etat parva śataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ 71 kathitaṃ naimiṣāraṇye parvāṇy aṣṭādaśaiva tu samāso bhāratasyāyaṃ tatroktaḥ parva saṃgrahaḥ 72 pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ 73 āstīke sarvanāgānāṃ garuḍasya ca saṃbhavaḥ kṣīrodamathanaṃ caiva janmocchaiḥ śravasas tathā 74 yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca katheyam abhinirvṛttā bhāratānāṃ mahātmanām 75 vividhāḥ saṃbhavā rājñām uktāḥ saṃbhava parvaṇi anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca 76 aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām 77 nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ 78 vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām śaṃtanor veśmani punas teṣāṃ cārohaṇaṃ divi 79 tejo 'ṃśānāṃ ca saṃghātād bhīṣmasyāpy atra saṃbhavaḥ rājyān nivartanaṃ caiva brahmacarya vrate sthitiḥ 80 pratijñā pālanaṃ caiva rakṣā citrāṅgadasya ca hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ 81 vicitravīryasya tathā rājye saṃpratipādanam dharmasya nṛṣu saṃbhūtir aṇī māṇḍavya śāpajā 82 kṛṣṇadvaipāyanāc caiva prasūtir varadānajā dhṛtarāṣṭrasya pāṇḍoś ca pāṇḍavānāṃ ca saṃbhavaḥ 83 vāraṇāvata yātrā ca mantro duryodhanasya ca vidurasya ca vākyena suruṅgopakrama kriyā 84 pāṇḍavānāṃ vane ghore hiḍimbāyāś ca darśanam ghaṭotkacasya cotpattir atraiva parikīrtitā 85 ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇa veśmani bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ 86 aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunas tadā bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau 87 tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam pañcendrāṇām upākhyānam atraivādbhutam ucyate 88 pañcānām ekapatnītve vimarśo drupadasya ca draupadyā deva vihito vivāhaś cāpy amānuṣaḥ 89 vidurasya ca saṃprāptir darśanaṃ keśavasya ca khāṇḍava prasthavāsaś ca tathā rājyārdha śāsanam 90 nāradasyājñayā caiva draupadyāḥ samayakriyā sundopasundayos tatra upākhyānaṃ prakīrtitam 91 pārthasya vanavāsaś ca ulūpyā pathi saṃgamaḥ puṇyatīrthānusaṃyānaṃ babhru vāhana janma ca 92 dvārakāyāṃ subhadrā ca kāmayānena kāminī vāsudevasyānumate prāptā caiva kirīṭinā 93 haraṇaṃ gṛhya saṃprāpte kṛṣṇe devakinandane saṃprāptiś cakradhanuṣoḥ khāṇḍavasya ca dāhanam 94 abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ 95 ity etad ādhi parvoktaṃ prathamaṃ bahuvistaram adhyāyānāṃ śate dve tu saṃkhāte paramarṣiṇā aṣṭādaśaiva cādhyāyā vyāsenottama tejasā 96 sapta ślokasahasrāṇi tathā nava śatāni ca ślokāś ca caturāśītir dṛṣṭo grantho mahātmanā 97 dvitīyaṃ tu sabhā parva bahu vṛttāntam ucyate sabhā kriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam 98 lokapāla sabhākhyānaṃ nāradād deva darśanāt rājasūyasya cārambho jarāsaṃdha vadhas tathā 99 girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam rājasūye 'rgha saṃvāde śiśupāla vadhas tathā 100 yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca duryodhanasyāvahāso bhīmena ca sabhā tale 101 yatrāsya manyur udbhūto yena dyūtam akārayat yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat 102 yatra dyūtārṇave magnān draupadī naur ivārṇavāt tārayām āsa tāṃs tīrṇāñ jñātvā duryodhano nṛpaḥ punar eva tato dyūte samāhvayata pāṇḍavān 103 etat sarvaṃ sabhā parva samākhyātaṃ mahātmanā adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā 104 ślokānāṃ dve sahasre tu pañca ślokaśatāni ca ślokāś caikādaśa jñeyāḥ parvaṇy asmin prakīrtitāḥ 105 ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat paurānugamanaṃ caiva dharmaputrasya dhīmataḥ 106 vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ yatra saubhavadhākhyānaṃ kirmīravadha eva ca astrahetor vivāsaś ca pārthasyāmita tejasaḥ 107 mahādevena yuddhaṃ ca kirāta vapuṣā saha darśanaṃ lokapālānāṃ svargārohaṇam eva ca 108 darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ yudhiṣṭhirasya cārtasya vyasane paridevanam 109 nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam damayantyāḥ sthitir yatra nalasya vyasanāgame 110 vanavāsa gatānāṃ ca pāṇḍavānāṃ mahātmanām svarge pravṛttir ākhyātā lomaśenārjunasya vai 111 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām jaṭāsurasya tatraiva vadhaḥ samupavarṇyate 112 niyukto bhīmasenaś ca draupadyā gandhamādane yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat 113 yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ yakṣaiś cāpi mahāvīryair maṇimat pramukhais tathā 114 āgastyam api cākhyānaṃ yatra vātāpi bhakṣaṇam lopāmudrābhigamanam apatyārtham ṛṣer api 115 tataḥ śyenakapotīyam upākhyānam anantaram indro 'gnir yatra dharmaś ca ajijñāsañ śibiṃ nṛpam 116 ṛśya śṛṅgasya caritaṃ kaumāra brahmacāriṇaḥ jāmadagnyasya rāmasya caritaṃ bhūri tejasaḥ 117 kārtavīrya vadho yatra haihayānāṃ ca varṇyate saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ 118 śaryāti yajñe nāsatyau kṛtavān somapīthinau tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ 119 jantūpākhyānam atraiva yatra putreṇa somakaḥ putrārtham ayajad rājā lebhe putraśataṃ ca saḥ 120 aṣṭāvakrīyam atraiva vivāde yatra bandinam vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ 121 avāpya divyāny astrāṇi gurvarthe savyasācinā nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ 122 samāgamaś ca pārthasya bhrātṛbhir gandhamādane ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ 123 punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ jayadrathenāpahāro draupadyāś cāśramāntarāt 124 yatrainam anvayād bhīmo vāyuvegasamo jave mārkaṇḍeya samasyāyām upākhyānāni bhāgaśaḥ 125 saṃdarśanaṃ ca kṛṣṇasya saṃvādaś caiva satyayā vrīhi drauṇikam ākhyānam aindradyumnaṃ tathaiva ca 126 sāvitry auddālakīyaṃ ca vainyopākhyānam eva ca rāmāyaṇam upākhyānam atraiva bahuvistaram 127 karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt āraṇeyam upākhyānaṃ yatra dharmo 'nvaśāt sutam jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam 128 etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam atrādhyāya śate dve tu saṃkhyāte paramarṣiṇā ekona saptatiś caiva tathādhyāyāḥ prakīrtitāḥ 129 ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca catuḥṣaṣṭis tathā ślokāḥ parvaitat parikīrtitam 130 ataḥ paraṃ nibodhedaṃ vairāṭaṃ parva vistaram virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm dṛṣṭvā saṃnidadhus tatra pāṇḍavā āyudhāny uta 131 yatra praviśya nagaraṃ chadmabhir nyavasanta te durātmano vadho yatra kīcakasya vṛkodarāt 132 gograhe yatra pārthena nirjitāḥ kuravo yudhi godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ 133 virāṭenottarā dattā snuṣā yatra kirīṭinaḥ abhimanyuṃ samuddiśya saubhadram arighātinam 134 caturtham etad vipulaṃ vairāṭaṃ parva varṇitam atrāpi parisaṃkhyātam adhyāyānāṃ mahātmanā 135 saptaṣaṣṭiratho pūrṇā ślokāgram api me śṛṇu ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu parvaṇy asmin samākhyātāḥ saṃkhyayā paramarṣiṇā 136 udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā duryodhano 'rjunaś caiva vāsudevam upasthitau 137 sāhāyyam asmin samare bhavān nau kartum arhati ity ukte vacane kṛṣṇo yatrovāca mahāmatiḥ 138 ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmy aham 139 vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ 140 saṃjayaṃ preṣayām āsa śamārthaṃ pāṇḍavān prati yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān 141 śrutvā ca pāṇḍavān yatra vāsudeva purogamān prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cintayā 142 viduro yatra vākyāni vicitrāṇi hitāni ca śrāvayām āsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam 143 tathā sanatsujātena yatrādhyātmam anuttamam manastāpānvito rājā śrāvitaḥ śokalālasaḥ 144 prabhāte rājasamitau saṃjayo yatra cābhibhoḥ aikātmyaṃ vāsudevasya proktavān arjunasya ca 145 yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ svayam āgāc chamaṃ kartuṃ nagaraṃ nāgasāhvayam 146 pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai śamārthaṃ yācamānasya pakṣayor ubhayor hitam 147 karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam 148 ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ upāyapūrvaṃ śauṇḍīryāt pratyākhyātaś ca tena saḥ 149 tataś cāpy abhiniryātrā rathāśvanaradantinām nagarād dhāstina purād balasaṃkhyānam eva ca 150 yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati śvo bhāvini mahāyuddhe dūtyena krūra vādinā rathātiratha saṃkhyānam ambopākhyānam eva ca 151 etat subahu vṛttāntaṃ pañcamaṃ parva bhārate udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam 152 adhyāyāḥ saṃkhyayā tv atra ṣaḍ aśīti śataṃ smṛtam ślokānāṃ ṣaṭ sahasrāṇi tāvanty eva śatāni ca 153 ślokāś ca navatiḥ proktās tathaivāṣṭau mahātmanā vyāsenodāra matinā parvaṇy asmiṃs tapodhanāḥ 154 ata ūrdhvaṃ vicitrārthaṃ bhīṣma parva pracakṣate jambū khaṇḍa vinirmāṇaṃ yatroktaṃ saṃjayena ha 155 yatra yuddham abhūd ghoraṃ daśāhāny atidāruṇam yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param 156 kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ mohajaṃ nāśayām āsa hetubhir mokṣadarśanaiḥ 157 śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ vinighnan niśitair bāṇai rathād bhīṣmam apātayat 158 ṣaṣṭham etan mahāparva bhārate parikīrtitam adhyāyānāṃ śataṃ proktaṃ sapta daśa tathāpare 159 pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca ślokāś ca caturāśītiḥ parvaṇy asmin prakīrtitāḥ vyāsena vedaviduṣā saṃkhyātā bhīṣma parvaṇi 160 droṇa parva tataś citraṃ bahu vṛttāntam ucyate yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt 161 bhagadatto mahārājo yatra śakrasamo yudhi supratīkena nāgena saha śastaḥ kirīṭinā 162 yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ jayadrathamukhā bālaṃ śūram aprāptayauvanam 163 hate 'bhimanyau kruddhena yatra pārthena saṃyuge akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave 164 alambusaḥ śrutāyuś ca jalasaṃdhaś ca vīryavān saumadattir virāṭaś ca drupadaś ca mahārathaḥ ghaṭotkacādayaś cānye nihatā droṇa parvaṇi 165 aśvatthāmāpi cātraiva droṇe yudhi nipātite astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ 166 saptamaṃ bhārate parva mahad etad udāhṛtam atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ droṇa parvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ 167 adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatis tathā aṣṭau ślokasahasrāṇi tathā nava śatāni ca 168 ślokā nava tathaivātra saṃkhyātās tattvadarśinā pārāśaryeṇa muninā saṃcintya droṇa parvaṇi 169 ataḥ paraṃ karṇa parva procyate paramādbhutam sārathye viniyogaś ca madrarājasya dhīmataḥ ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam 170 prayāṇe paruṣaś cātra saṃvādaḥ karṇa śalyayoḥ haṃsakākīyam ākhyānam atraivākṣepa saṃhitam 171 anyonyaṃ prati ca krodho yudhiṣṭhira kirīṭinoḥ dvairathe yatra pārthena hataḥ karṇo mahārathaḥ 172 aṣṭamaṃ parva nirdiṣṭam etad bhārata cintakaiḥ ekona saptatiḥ proktā adhyāyāḥ karṇa parvaṇi catvāry eva sahasrāṇi nava ślokaśatāni ca 173 ataḥ paraṃ vicitrārthaṃ śakya parva prakīrtitam hatapravīre sainye tu netā madreśvaro 'bhavat 174 vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ vināśaḥ kurumukhyānāṃ śalya parvaṇi kīrtyate 175 śalyasya nidhanaṃ cātra dharmarājān mahārathāt gadāyuddhaṃ tu tumulam atraiva parikīrtitam sarasvatyāś ca tīrthānāṃ puṇyatā parikīrtitā 176 navamaṃ parva nirdiṣṭam etad adbhutam arthavat ekona ṣaṣṭir adhyāyās tatra saṃkhyā viśāradaiḥ 177 saṃkhyātā bahu vṛttāntāḥ ślokāgraṃ cātra śasyate trīṇi ślokasahasrāṇi dve śate viṃśatis tathā muninā saṃpraṇītāni kauravāṇāṃ yaśo bhṛtām 178 ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam 179 vyapayāteṣu pārtheṣu trayas te 'bhyāyayū rathāḥ kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ 180 pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān pāṇḍavāṃś ca sahāmātyān na vimokṣyāmi daṃśanam 181 prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ 182 yatrāmucyanta pārthās te pañca kṛṣṇa balāśrayāt sātyakiś ca maheṣvāsaḥ śeṣāś ca nidhanaṃ gatāḥ 183 draupadī putraśokārtā pitṛbhrātṛvadhārditā kṛtānaśana saṃkalpā yatra bhartṝn upāviśat 184 draupadī vacanād yatra bhīmo bhīmaparākramaḥ anvadhāvata saṃkruddho bharadvājaṃ guroḥ sutam 185 bhīmasena bhayād yatra daivenābhipracoditaḥ apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat 186 maivam ity abravīt kṛṣṇaḥ śamayaṃs tasya tad vacaḥ yatrāstram astreṇa ca tac chamayām āsa phālgunaḥ 187 drauṇidvaipāyanādīnāṃ śāpāś cānyonya kāritāḥ toyakarmaṇi sarveṣāṃ rājñām udakadānike 188 gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ sutasyaitad iha proktaṃ daśamaṃ parva sauptikam 189 aṣṭādaśāsminn adhyāyāḥ parvaṇy uktā mahātmanā ślokāgram atra kathitaṃ śatāny aṣṭau tathaiva ca 190 ślokāś ca saptatiḥ proktā yathāvad abhisaṃkhyayā sauptikaiṣīka saṃbandhe parvaṇy amitabuddhinā 191 ata ūrdhvam idaṃ prāhuḥ strī parva karuṇodayam vilāpo vīra patnīnāṃ yatrātikaruṇaḥ smṛtaḥ krodhāveśaḥ prasādaś ca gāndhārī dhṛtarāṣṭrayoḥ 192 yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ putrān bhrātṝn pitṝṃś caiva dadṛśur nihatān raṇe 193 yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ rājñāṃ tāni śarīrāṇi dāhayām āsa śāstrataḥ 194 etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat sapta viṃśatir adhyāyāḥ parvaṇy asminn udāhṛtāḥ 195 ślokāḥ saptaśataṃ cātra pañca saptatir ucyate saṃkhayā bhāratākhyānaṃ kartrā hy atra mahātmanā praṇītaṃ sajjana mano vaiklavyāśru pravartakam 196 ataḥ paraṃ śānti parva dvādaśaṃ buddhivardhanam yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān 197 śānti parvaṇi dharmāś ca vyākhyātāḥ śaratalpikāḥ rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ 198 āpad dharmāś ca tatraiva kālahetu pradarśakāḥ yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt mokṣadharmāś ca kathitā vicitrā bahuvistarāḥ 199 dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam parvaṇy atra parijñeyam adhyāyānāṃ śatatrayam triṃśac caiva tathādhyāyā nava caiva tapodhanāḥ 200 ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa pañca caiva śatāny āhuḥ pañcaviṃśatisaṃkhyayā 201 ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam bhīṣmād bhāgīrathī putrāt kururājo yudhiṣṭhiraḥ 202 vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ 203 tathā pātraviśeṣāś ca dānānāṃ ca paro vidhiḥ ācāra vidhiyogaś ca satyasya ca parā gatiḥ 204 etat subahu vṛttāntam uttamaṃ cānuśāsanam bhīṣmasyātraiva saṃprāptiḥ svargasya parikīrtitā 205 etat trayodaśaṃ parva dharmaniścaya kārakam adhyāyānāṃ śataṃ cātra ṣaṭ catvāriṃśad eva ca ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca 206 tata āśvamedhikaṃ nāma parva proktaṃ caturdaśam tat saṃvartamaruttīyaṃ yatrākhyānam anuttamam 207 suvarṇakośasaṃprāptir janma coktaṃ parikṣitaḥ dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ 208 caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ 209 citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ saṃgrāme babhru vāhena saṃśayaṃ cātra darśitaḥ aśvamedhe mahāyajñe nakulākhyānam eva ca 210 ity āśvamedhikaṃ parva proktam etan mahādbhutam atrādhyāya śataṃ triṃśat trayo 'dhyāyāś ca śabditāḥ 211 trīṇi ślokasahasrāṇi tāvanty eva śatāni ca viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā 212 tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam yatra rājyaṃ parityajya gāndhārī sahito nṛpaḥ dhṛtarāṣṭrāśramapadaṃ viduraś ca jagāma ha 213 yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpy anuyayau tadā putrarājyaṃ parityajya guruśuśrūṣaṇe ratā 214 yatra rājā hatān putrān pautrān anyāṃś ca pārthivān lokāntara gatān vīrān apaśyat punarāgatān 215 ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam tyaktvā śokaṃ sadāraś ca siddhiṃ paramikāṃ gataḥ 216 yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ saṃjayaś ca mahāmātro vidvān gāvalgaṇir vaśī 217 dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ nāradāc caiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat 218 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam dvicatvāriṃśad adhyāyāḥ parvaitad abhisaṃkhyayā 219 sahasram ekaṃ ślokānāṃ pañca ślokaśatāni ca ṣaḍ eva ca tathā ślokāḥ saṃkhyātās tattvadarśinā 220 ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam yatra te puruṣavyāghrāḥ śastrasparśa sahā yudhi brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ 221 āpāne pānagalitā daivenābhipracoditāḥ erakā rūpibhir vajrair nijaghnur itaretaram 222 yatra sarvakṣayaṃ kṛtvā tāv ubhau rāma keśavau nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam 223 yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ 224 sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ dadarśa yaduvīrāṇām āpane vaiśasaṃ mahat 225 śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ saṃskāraṃ lambhayām āsa vṛṣṇīnāṃ ca pradhānataḥ 226 sa vṛddhabālam ādāya dvāravatyās tato janam dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam 227 sarveṣāṃ caiva divyānām astrāṇām aprasannatām nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām 228 dṛṣṭvā nivedam āpanno vyāsa vākyapracoditaḥ dharmarājaṃ samāsādya saṃnyāsaṃ samarocayat 229 ity etan mausalaṃ parva ṣoḍaśaṃ parikīrtitam adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam 230 mahāprasthānikaṃ tasmād ūrdhvaṃ sapta daśaṃ smṛtam yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ 231 atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā 232 svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam adhyāyāḥ pañca saṃkhyātā parvaitad abhisaṃkhyayā ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ 233 aṣṭādaśaivam etāni parvāṇy uktāny aśeṣataḥ khileṣu harivaṃśaś ca bhaviṣyac ca prakīrtitam 234 etad akhilam ākhyātaṃ bhārataṃ parva saṃgrahāt aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā tan mahad dāruṇaṃ yuddham ahāny aṣṭādaśābhavat 235 yo vidyāc caturo vedān sāṅgopaniṣadān dvijaḥ na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ 236 śrutvā tv idam upākhyānaṃ śrāvyam anyan na rocate puṃḥ kokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva 237 itihāsottamād asmāj jāyante kavi buddhayaḥ pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ 238 asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ antarikṣasya viṣaye prajā iva caturvidhāḥ 239 kriyā guṇānāṃ sarveṣām idam ākhyānam āśrayaḥ indriyāṇāṃ samastānāṃ citrā iva manaḥ kriyāḥ 240 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate āhāram anapāśritya śarīrasyeva dhāraṇam 241 idaṃ sarvaiḥ kavi varair ākhyānam upajīvyate udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ 242 dvaipāyanauṣṭha puṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkara jalair abhiṣecanena 243 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ; vinyastaṃ mahad iha parva saṃgraheṇa śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena |