1
[धृ] यत्र वैकर्तनः कर्णॊ राक्षसश च घटॊत्कचः निशीदे समसज्जेतां तथ युथ्धम अभवत कदम 2 कीथृशं चाभवथ युथ्धं तस्य घॊरस्य रक्षसः रदश च कीथृशस तस्य मायाः सर्वायुधानि च 3 किंप्रमाणा हयास तस्य रदकेतुर धनुस तदा कीथृशं वर्म चैवास्य कण्ठत्राणं च कीथृशम पृष्ठस तवम एतथ आचक्ष्व कुशलॊ हय असिसंजय 4 [घ] लॊहिताक्षॊ महाकायस ताम्रास्यॊ निम्नितॊथरः ऊर्ध्वरॊमा हरि शमश्रुः शङ्कुकर्णॊ महाहनुः 5 आकर्णाथ थारितास्यश च तीक्ष्णथंष्ट्रः करालवान सुथीर्घ ताम्रजिह्वौष्ठॊ लम्बभ्रूः सदूलनासिकः 6 नीलाङ्गॊ लॊहितग्रीवॊ निरि वर्ष्मा भयंकरः महाकायॊ महाबाहुर महाशीर्षॊ महाबलः 7 विकचः परुषस्पर्शॊ विकटॊथ्बथ्ध पिण्डिकः सदूलस्फिग गूढनाभिश च शिदिलॊपचयॊ महान 8 तदैव हस्ताभरणी महामायॊ ऽङगथी तदा उरसा धारयन निष्कम अग्निमालां यदाचलः 9 तस्य हेममयं चित्रं बहुरूपाङ्गशॊभितम तॊरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्य अशॊभत 10 कुण्डले बालसूर्याभे मालां हेममयीं शुभाम धारयन विपुलं कांस्यं कवचं च महाप्रभम 11 किङ्किणीशतनिर्घॊषं रक्तध्वजपताकिनम ऋक्षचर्मावनथ्धाङ्गं नल्व मात्रं महारदम 12 सर्वायुधवरॊपेतम आस्दितॊ धवजमालिनम अष्टचक्रसमायुक्तं मेघगम्भीर निस्वनम 13 तत्र मातङ्गसंकाशा लॊहिताक्षा विभीषणाः कामवर्णजवा युक्ता बलवन्तॊ ऽवहन हयाः 14 राक्षसॊ ऽसय विरूपाक्षः सूतॊ थीप्तास्य कुण्डलः रश्मिभिः सूर्यरश्म्य आभैः संजग्राह हयान रणे स तेन सहितस तस्दाव अरुणेन यदा रविः 15 संसक्त इव चाभ्रेण यदाथ्रिर महता महान थिवस्पृक सुमहान केतुः सयन्थने ऽसय समुच्छ्रितः रदॊत्तमाग्नः करव्याथॊ गृध्रः परमभीषणः 16 वासवाशनि निर्घॊषं थृढज्यम अभिविक्षिपन वयक्तं किष्कु परीणाहं थवाथशारत्नि कार्मुकम 17 रदाक्षमात्रैर इषुभिः सर्वाः परच्छाथयन थिशः तस्यां वीरापहारिण्यां निशायां कर्णम अभ्ययात 18 तस्य विक्षिपतश चापं रदे विष्टभ्य तिष्ठतः अश्रूयत धनुर घॊषॊ विस्फूर्जितम इवाशनेः 19 तेन वित्रास्यमानानि तव सैन्यानि भारत समकम्पन्त सर्वाणि सिन्धॊर इव महॊर्मयः 20 तम आपतन्तं संप्रेक्ष्य विरूपाक्षं विभीषणम उत्स्मयन्न इव राधेयस तवरमाणॊ ऽभयवारयत 21 ततः कर्णॊ ऽभययाथ एनम अस्यन्न अस्यन्तम अन्तिकात मातङ्ग इव मातङ्गं यूदर्षभ इवर्षभम 22 स संनिपातस तुमुलस तयॊर आसीथ विशां पते कर्ण राक्षसयॊ राजन्न इन्थ्र शम्बरयॊर इव 23 तौ परगृह्य महावेगे धनुषी भीमनिस्वने पराच्छाथयेताम अन्यॊन्यं तक्षमाणौ महेषुभिः 24 ततः पूर्णायतॊत्सृष्टैः शरैः संनतपर्वभिः नयवारयेताम अन्यॊन्यं कांस्ये निर्भिथ्य वर्मणी 25 तौ नखैर इव शार्थूलौ थन्तैर इव महाथ्विपौ रदशक्तिभिर अन्यॊन्यं विशिखैश च ततक्षतुः 26 संछिन्थन्तौ हि गात्राणि संथधानौ च सायकान धक्ष्यमाणौ शरव्रातैर नॊथीक्षितुम अशक्नुताम 27 तौ तु विक्षत सर्वाग्नौ रुधिरौघपरिप्लुतौ वयभ्राजेतां यदा वारि परस्रुतौ गौरिकाचलौ 28 तौ शराग्र विभिन्नाङ्गौ निर्भिन्थन्तौ परस्परम नाकम्पयेताम अन्यॊन्यं यतमानौ महाथ्युती 29 तत परवृत्तं निशायुथ्धं चरं समम इवाभवत पराणयॊर थीव्यतॊ राजन कर्ण राक्षसयॊर मृधे 30 तस्य संथधतस तीक्ष्णाञ शरांश चासक्तम अस्यतः धनुर घॊषेण वित्रस्ताः सवे परे च तथाभवन घटॊत्कचं यथा कर्णॊ विशेषयति नॊ नृप 31 ततः पराथुष्करॊथ थिव्यम अस्त्रम अस्त्रविथां वरः कर्णेन विहितं थृष्ट्वा थिव्यम अस्त्रं घटॊत्कचः पराथुश्चक्रे महामायां राक्षसः पाण्डुनन्थनः 32 शूलम उथ्गर धारिण्या शैलपाथप हस्तया रक्षसां घॊररूपाणां महत्या सेनया वृतः 33 तम उथ्यतमहाचापं थृष्ट्वा ते वयदिता नृपाः भूतान्तकम इवायान्तं कालथण्डॊग्र धारिणम 34 घटॊत्कच परमुक्तेन सिंहनाथेन भीषिताः परसुस्रुवुर गजा मूत्रं विव्यदुश च नरा भृशम 35 ततॊ ऽशमवृष्टिर अत्युग्रा महत्य आसीत समन्ततः अर्धरात्रे ऽधिकबलैर विमुक्ता रक्षसां बलैः 36 आयसानि च चक्राणि भुशुण्ड्यः शक्तितॊमराः पतन्त्य अविरलाः शूलाः शतध्न्यः पट्टिशास तदा 37 तथ उग्रम अतिरौथ्रं च थृट्वा युथ्धं नराधिपाः पुत्राश च तव यॊधाश च वयदिता विप्रथुथ्रुवुः 38 तत्रैकॊ ऽसत्रबलश्लाघी कर्णॊ मानी न विव्यदे वयधमच च शरैर मायां घटॊत्कच विनिर्मिताम 39 मायायां तु परहीणायाम अमर्षात स घटॊत्कचः विससर्ज शरान घॊरान सूतपुत्रं त आविशन 40 ततस ते रुधिराभक्ता भित्त्वा कर्णं महाहवे विविशुर धरणीं बाणाः संक्रुथ्धा इव पन्नगाः 41 सूतपुत्रस तुसंक्रुथ्धॊ लघुहस्तः परतापवान घटॊत्कचम अतिक्रम्य बिभेथ थशभिः शरैः 42 घटॊत्कचॊ विनिर्भिन्नः सूतपुत्रेण मर्मसु चक्रं थिव्यं सहस्रारम अगृह्णाथ वयदितॊ भृशम 43 कषुरान्तम बालसूर्याभं मणिरत्नविभूषितम चिक्षेपाधिरदेः करुथ्धॊ भैम सेनिर जिघंसया 44 परविथ्धम अतिवेगेन विक्षिप्तं कर्ण सायकैः अभाग्यस्येव संकल्पस तन मॊघम अपतथ भुवि 45 घटॊत्कचस तु संक्रुथ्धॊ थृष्ट्वा चक्रं निपातितम कर्णं पराच्छाथयथ बाणैः सवर्भानुर इव भास्करम 46 सूतपुत्रस तव असंभ्रान्तॊ रुथ्रॊपेन्थ्रेन्थ्र विक्रमः घटॊत्कच रदं तूर्णं छाथयाम आस पत्रिभिः 47 घटॊत्कचेन करुथ्धेन गथा हेमाङ्गथा तथा कषिप्ता भराम्य शरैः सापि कर्णेनाभ्याहतापतत 48 ततॊ ऽनतरिक्षम उत्पत्य कालमेघ इवॊन्नथन परववर्ष महाकायॊ थरुमवर्षं नभस्तलात 49 ततॊ मायाविनं कर्णॊ भीमसेन सुतं थिवि मार्गणैर अभिविव्याध धनं सूर्य इवांशुभिः 50 तस्य सर्वान हयान हत्वा संछिथ्य शतधा रदम अभ्यवर्षच छरैः कर्णः पर्जन्य इव वृष्टिमान 51 न चास्यासीथ अनिर्भिन्नं गात्रे थव्यङ्गुलम अन्तरम सॊ ऽथृश्यत मुहूर्तेन शवाविच छललितॊ यदा 52 न हयान न रदं तस्य न धवजं न घटॊत्कचम थृष्टवन्तः सम समरे शरौघैर अभिसंवृतम 53 स तु कर्णस्य तथ थिव्यम अस्त्रम अस्त्रेण शातयन मायायुथ्धेन मायावी सूतपुत्रम अयॊधयत 54 सॊ ऽयॊधयत तथा कर्णं मायया लाघवेन च अलक्ष्यमाणॊ ऽद थिवि शरजालेषु संपतन 55 भैमसेनिर महामायॊ मायया कुरुसत्तम परचकार महामायां मॊहयन्न इव भारत 56 स सम कृत्वा विरूपाणि वथनान्य अशुभाननः अग्रसत सूतपुत्रस्य थिव्यान्य अस्त्राणि मायया 57 पुनश चापि महाकायः संछिन्नः शतधा रणे गतसत्त्वॊ निरुत्साहः पतितः खाथ वयथृश्यत हतं तं मन्यमानाः सम पराणथन कुरुपुंगवः 58 अद थेहैर नवैर अन्यैर थिक्षु सर्वास्व अथृश्यत पुनश चापि महाकायः शतशीर्षः शतॊथरः 59 वयथृश्यत महाबाहुर मैनाक इव पर्वतः अङ्गुष्ठ मात्रॊ भूत्वा च पुनर एव स राक्षसः सागरॊर्मिर इवॊथ्धूतस तिर्यग ऊर्ध्वम अवर्तत 60 वसुधां थारयित्वा च पुनर अप्सु नयमज्जत अथृश्यत तथा तत्र पुनर उन्मज्जितॊ ऽनयतः 61 सॊ ऽवतीर्य पुनस तस्दौ रदे हेमपरिष्कृते कषितिं थयां च थिशश चैव माययावृत्य थंशितः 62 गत्वा कर्ण रदाभ्याशं विचलत कुण्डलाननः पराह वाक्यम असंभ्रान्तः सूतपुत्रं विशां पते 63 तिष्ठेथानीं न मे जीवन सूतपुत्र गमिष्यसि युथ्धश्रथ्धाम अहं ते ऽथय विनेष्यामि रणाजिरे 64 इत्य उक्त्वा रॊषताम्राक्षं रक्षः करूरपराक्रमम उत्पपातान्तरिक्षं च जहास च सुविस्वरम कर्णम अभ्याहनच चैव गजेन्थ्रम इव केसरी 65 रदाक्षमात्रैर इषुभिर अभ्यवर्षथ घटॊत्कचः रदिनाम ऋषभं कर्णं धाराभिर इव तॊयथः शरवृष्टिं च तां कर्णॊ थूरप्राप्ताम अशातयत 66 थृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ घटॊत्कचस ततॊ मायां ससर्जान्तर्हितः पुनः 67 सॊ ऽभवथ गिरिर इत्य उच्चः शिखरैस तरुसंकटैः शूलप्रासासि मुसलजलप्रस्रवणॊ महान 68 तम अञ्जन चयप्रख्यं कर्णॊ थृष्ट्वा महीधरम परपातैर आयुधान्य उग्राण्य उथ्वहन्तं न चुक्षुभे 69 समयन्न इव ततः कर्णॊ थिव्यम अस्त्रम उथीरयत ततः सॊ ऽसत्रेण शैलेन्थ्रॊ विक्षिप्तॊ वै वयनश्यत 70 ततः स तॊयथॊ भूत्वा नीलः सेन्थ्रायुधॊ थिवि अश्मवृष्टिभिर अत्युग्रः सूतपुत्रम अवाकिरत 71 अद संधाय वायव्यम अस्त्रम अस्त्रविथां वरः वयधमत कालमेघं तं कर्णॊ वैकर्तनॊ वृषा 72 स मार्गणगणैः कर्णॊ थिशः परच्छाथ्य सर्वशः जघानास्त्रं महाराज घटॊत्कच समीरितम 73 ततः परहस्य समरे भैमसेनिर महाबलः पराथुश्चक्रे महामायां कर्णं परति महारदम 74 स थृष्ट्वा पुनर आयान्तं रदेन रदिनां वरम घटॊत्कचम असंभ्रान्तं राक्षसैर बहुभिर वृतम 75 सिंहशार्थूलसथृशैर मत्तथ्विरथविक्रमैः गजस्दैश च रदस्दैश च वाजिपृष्ठ गतैस तदा 76 नानाशस्त्रधरैर घॊरैर नाना कवचभूषणैः वृतं घटॊत्कचं करूरैर मरुथ्भिर इव वासवम थृष्ट्वा कर्णॊ महेष्वासॊ यॊधयाम आस राक्षसम 77 घटॊत्कचस ततः कर्णं विथ्ध्वा पञ्चभिर आशुगैः ननाथ भैरवं नाथं भीषयन सर्वपार्दिवान 78 भूयश चाञ्जलिकेनाद स मार्गणगणं महत कर्ण हस्तस्दितं चापं चिच्छेथाशु घटॊत्कचः 79 अदान्यथ धनुर आथाय थृढं भारसहं महत वयकर्षत बलात कर्ण इन्थ्रायुधम इवॊच्छ्रितम 80 ततः कर्णॊ महाराज परेषयाम आस सायकान सुवर्णपुङ्खाञ शत्रुघ्नान खचरान राक्षसान परति 81 तथ बाणैर अर्थितं यूदं रक्षसां पीनवक्षसाम सिंहेनेवार्थितं वन्यं गजानाम आकुलं कुलम 82 विधम्य राक्षसान बाणैः साश्वसूत गजान विभुः थथाह भगवान वह्निर भूतानीव युगक्षये 83 स हत्वा राक्षसीं सेनां शुशुभे सूतनन्थनः पुरेव तरिपुरं थग्ध्वा थिवि थेवॊ महेश्वरः 84 तेषु राजसहस्रेषु पाण्डवेयेषु मारिष नैनं निरीक्षितुम अपि कश चिच छक्नॊति पार्दिव 85 ऋते घटॊत्कचाथ राजन राक्षसेन्थ्रान महाबलात भीमवीर्यबलॊपेतात करुथ्धाथ वैवस्वताथ इव 86 तस्य करुथ्धस्य नेत्राभ्यां पावकः समजायत महॊल्काभ्यां यदा राजन सार्चिषः सनेहबिन्थवः 87 तलं तलेन संहत्य संथश्य थशनच छथम रदम आस्दाय च पुनर मायया निर्मितं पुनः 88 युक्तं गजनिभैर वाहैः पिशाचवचनैः खरैः ससूतम अब्रवीत करुथ्धः सूतपुत्राय मा वह 89 स ययौ घॊररूपेण रदेन रदिनां वरः थवैरदं सूतपुत्रेण पुनर एव विशां पते 90 स चिक्षेप पुनः करुथ्धः सूतपुत्राय राक्षसः अष्टचक्रां महाघॊराम अशनिं रुथ्र निर्मिताम 91 ताम अवप्लुत्य जग्राह कर्णॊ नयस्य रदे धनुः चिक्षेप चैनां तस्यैव सयन्थनात सॊ ऽवपुप्लुवे 92 साश्वसूत धवजं यानं भस्मकृत्वा महाप्रभा विवेश वसुधां भित्त्वा सुरास तत्र विसिस्मियुः 93 कर्णं तु सर्वभूतानि पूजयाम आसुर अञ्जसा यथ अवप्लुत्य जग्राह थेव सृष्टां महाशनिम 94 एवं कृत्वा रणे कर्ण आरुरॊह रदं पुनः ततॊ मुमॊच नाराचान सूतपुत्रः परंतपः 95 अशक्यं कर्तुम अन्येन सर्वभूतेषु मानथ यथ अकार्षीत तथा कर्णः संग्रामे भीमथर्शने 96 स हन्यमानॊ नाराचैर धाराभिर इव पर्वतः गन्धर्वनगराकारः पुनर अन्तरधीयत 97 एवं स वै महामायॊ मायया लाघवेन च अस्त्राणि तानि थिव्यानि जघान रिपुसूथनः 98 निहन्यमानेष्व अस्त्रेषु मायया तेन रक्षसा असंभ्रान्तस ततः कर्णस तथ रक्षः परत्ययुध्यत 99 ततः करुथ्धॊ महाराज भैमसेनिर महाबलः चकार बहुधात्मानं भीषयाणॊ नराधिपान 100 ततॊ थिग्भ्यः समापेतुः सिंहव्याघ्र तरक्षवः अग्निजिह्वाश च भुजगा विहगाश चाप्य अयॊमुखाः 101 स कीर्यमाणॊ निशितैः कर्ण चापच्युतैः शरैः नगराथ्रिवनप्रख्यस तत्रैवान्तरधीयत 102 राक्षसाश च पिशाचाश च यातुधानाः शलावृकाः ते कर्णं भक्षयिष्यन्तः सर्वतः समुपाथ्रवन अदैनं वाग्भिर उग्राभिस तरासयां चक्रिरे तथा 103 उथ्यतैर बहुभिर घॊरैर आयुधैः शॊणितॊक्षितैः तेषाम अनेकैर एकैकं कर्णॊ थिव्याध चाशुगैः 104 परतिहत्य तु तां मायां थिव्येनास्त्रेण राक्षसीम आजघान हयान अस्य शरैः संनतपर्वभिः 105 ते भग्ना विकृताङ्गाश च छिन्नपृष्ठाश च सायकैः वसुधाम अन्वपथ्यन्त पश्यतस तस्य रक्षसः 106 स भग्नमायॊ हैडिम्बः कर्णं वैकर्तनं ततः एष ते विथधे मृत्युम इत्य उक्त्वान्तरधीयत |
1
[dhṛ] yatra vaikartanaḥ karṇo rākṣasaś ca ghaṭotkacaḥ niśīthe samasajjetāṃ tad yuddham abhavat katham 2 kīdṛśaṃ cābhavad yuddhaṃ tasya ghorasya rakṣasaḥ rathaś ca kīdṛśas tasya māyāḥ sarvāyudhāni ca 3 kiṃpramāṇā hayās tasya rathaketur dhanus tathā kīdṛśaṃ varma caivāsya kaṇṭhatrāṇaṃ ca kīdṛśam pṛṣṭhas tvam etad ācakṣva kuśalo hy asisaṃjaya 4 [gh] lohitākṣo mahākāyas tāmrāsyo nimnitodaraḥ ūrdhvaromā hari śmaśruḥ śaṅkukarṇo mahāhanuḥ 5 ākarṇād dāritāsyaś ca tīkṣṇadaṃṣṭraḥ karālavān sudīrgha tāmrajihvauṣṭho lambabhrūḥ sthūlanāsikaḥ 6 nīlāṅgo lohitagrīvo niri varṣmā bhayaṃkaraḥ mahākāyo mahābāhur mahāśīrṣo mahābalaḥ 7 vikacaḥ paruṣasparśo vikaṭodbaddha piṇḍikaḥ sthūlasphig gūḍhanābhiś ca śithilopacayo mahān 8 tathaiva hastābharaṇī mahāmāyo 'ṅgadī tathā urasā dhārayan niṣkam agnimālāṃ yathācalaḥ 9 tasya hemamayaṃ citraṃ bahurūpāṅgaśobhitam toraṇapratimaṃ śubhraṃ kirīṭaṃ mūrdhny aśobhata 10 kuṇḍale bālasūryābhe mālāṃ hemamayīṃ śubhām dhārayan vipulaṃ kāṃsyaṃ kavacaṃ ca mahāprabham 11 kiṅkiṇīśatanirghoṣaṃ raktadhvajapatākinam ṛkṣacarmāvanaddhāṅgaṃ nalva mātraṃ mahāratham 12 sarvāyudhavaropetam āsthito dhvajamālinam aṣṭacakrasamāyuktaṃ meghagambhīra nisvanam 13 tatra mātaṅgasaṃkāśā lohitākṣā vibhīṣaṇāḥ kāmavarṇajavā yuktā balavanto 'vahan hayāḥ 14 rākṣaso 'sya virūpākṣaḥ sūto dīptāsya kuṇḍalaḥ raśmibhiḥ sūryaraśmy ābhaiḥ saṃjagrāha hayān raṇe sa tena sahitas tasthāv aruṇena yathā raviḥ 15 saṃsakta iva cābhreṇa yathādrir mahatā mahān divaspṛk sumahān ketuḥ syandane 'sya samucchritaḥ rathottamāgnaḥ kravyādo gṛdhraḥ paramabhīṣaṇaḥ 16 vāsavāśani nirghoṣaṃ dṛḍhajyam abhivikṣipan vyaktaṃ kiṣku parīṇāhaṃ dvādaśāratni kārmukam 17 rathākṣamātrair iṣubhiḥ sarvāḥ pracchādayan diśaḥ tasyāṃ vīrāpahāriṇyāṃ niśāyāṃ karṇam abhyayāt 18 tasya vikṣipataś cāpaṃ rathe viṣṭabhya tiṣṭhataḥ aśrūyata dhanur ghoṣo visphūrjitam ivāśaneḥ 19 tena vitrāsyamānāni tava sainyāni bhārata samakampanta sarvāṇi sindhor iva mahormayaḥ 20 tam āpatantaṃ saṃprekṣya virūpākṣaṃ vibhīṣaṇam utsmayann iva rādheyas tvaramāṇo 'bhyavārayat 21 tataḥ karṇo 'bhyayād enam asyann asyantam antikāt mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham 22 sa saṃnipātas tumulas tayor āsīd viśāṃ pate karṇa rākṣasayo rājann indra śambarayor iva 23 tau pragṛhya mahāvege dhanuṣī bhīmanisvane prācchādayetām anyonyaṃ takṣamāṇau maheṣubhiḥ 24 tataḥ pūrṇāyatotsṛṣṭaiḥ śaraiḥ saṃnataparvabhiḥ nyavārayetām anyonyaṃ kāṃsye nirbhidya varmaṇī 25 tau nakhair iva śārdūlau dantair iva mahādvipau rathaśaktibhir anyonyaṃ viśikhaiś ca tatakṣatuḥ 26 saṃchindantau hi gātrāṇi saṃdadhānau ca sāyakān dhakṣyamāṇau śaravrātair nodīkṣitum aśaknutām 27 tau tu vikṣata sarvāgnau rudhiraughapariplutau vyabhrājetāṃ yathā vāri prasrutau gaurikācalau 28 tau śarāgra vibhinnāṅgau nirbhindantau parasparam nākampayetām anyonyaṃ yatamānau mahādyutī 29 tat pravṛttaṃ niśāyuddhaṃ caraṃ samam ivābhavat prāṇayor dīvyato rājan karṇa rākṣasayor mṛdhe 30 tasya saṃdadhatas tīkṣṇāñ śarāṃś cāsaktam asyataḥ dhanur ghoṣeṇa vitrastāḥ sve pare ca tadābhavan ghaṭotkacaṃ yadā karṇo viśeṣayati no nṛpa 31 tataḥ prāduṣkarod divyam astram astravidāṃ varaḥ karṇena vihitaṃ dṛṣṭvā divyam astraṃ ghaṭotkacaḥ prāduścakre mahāmāyāṃ rākṣasaḥ pāṇḍunandanaḥ 32 śūlam udgara dhāriṇyā śailapādapa hastayā rakṣasāṃ ghorarūpāṇāṃ mahatyā senayā vṛtaḥ 33 tam udyatamahācāpaṃ dṛṣṭvā te vyathitā nṛpāḥ bhūtāntakam ivāyāntaṃ kāladaṇḍogra dhāriṇam 34 ghaṭotkaca pramuktena siṃhanādena bhīṣitāḥ prasusruvur gajā mūtraṃ vivyathuś ca narā bhṛśam 35 tato 'śmavṛṣṭir atyugrā mahaty āsīt samantataḥ ardharātre 'dhikabalair vimuktā rakṣasāṃ balaiḥ 36 āyasāni ca cakrāṇi bhuśuṇḍyaḥ śaktitomarāḥ patanty aviralāḥ śūlāḥ śatadhnyaḥ paṭṭiśās tathā 37 tad ugram atiraudraṃ ca dṛṭvā yuddhaṃ narādhipāḥ putrāś ca tava yodhāś ca vyathitā vipradudruvuḥ 38 tatraiko 'strabalaślāghī karṇo mānī na vivyathe vyadhamac ca śarair māyāṃ ghaṭotkaca vinirmitām 39 māyāyāṃ tu prahīṇāyām amarṣāt sa ghaṭotkacaḥ visasarja śarān ghorān sūtaputraṃ ta āviśan 40 tatas te rudhirābhaktā bhittvā karṇaṃ mahāhave viviśur dharaṇīṃ bāṇāḥ saṃkruddhā iva pannagāḥ 41 sūtaputras tusaṃkruddho laghuhastaḥ pratāpavān ghaṭotkacam atikramya bibheda daśabhiḥ śaraiḥ 42 ghaṭotkaco vinirbhinnaḥ sūtaputreṇa marmasu cakraṃ divyaṃ sahasrāram agṛhṇād vyathito bhṛśam 43 kṣurāntam bālasūryābhaṃ maṇiratnavibhūṣitam cikṣepādhiratheḥ kruddho bhaima senir jighaṃsayā 44 praviddham ativegena vikṣiptaṃ karṇa sāyakaiḥ abhāgyasyeva saṃkalpas tan mogham apatad bhuvi 45 ghaṭotkacas tu saṃkruddho dṛṣṭvā cakraṃ nipātitam karṇaṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram 46 sūtaputras tv asaṃbhrānto rudropendrendra vikramaḥ ghaṭotkaca rathaṃ tūrṇaṃ chādayām āsa patribhiḥ 47 ghaṭotkacena kruddhena gadā hemāṅgadā tadā kṣiptā bhrāmya śaraiḥ sāpi karṇenābhyāhatāpatat 48 tato 'ntarikṣam utpatya kālamegha ivonnadan pravavarṣa mahākāyo drumavarṣaṃ nabhastalāt 49 tato māyāvinaṃ karṇo bhīmasena sutaṃ divi mārgaṇair abhivivyādha dhanaṃ sūrya ivāṃśubhiḥ 50 tasya sarvān hayān hatvā saṃchidya śatadhā ratham abhyavarṣac charaiḥ karṇaḥ parjanya iva vṛṣṭimān 51 na cāsyāsīd anirbhinnaṃ gātre dvyaṅgulam antaram so 'dṛśyata muhūrtena śvāvic chalalito yathā 52 na hayān na rathaṃ tasya na dhvajaṃ na ghaṭotkacam dṛṣṭavantaḥ sma samare śaraughair abhisaṃvṛtam 53 sa tu karṇasya tad divyam astram astreṇa śātayan māyāyuddhena māyāvī sūtaputram ayodhayat 54 so 'yodhayat tadā karṇaṃ māyayā lāghavena ca alakṣyamāṇo 'tha divi śarajāleṣu saṃpatan 55 bhaimasenir mahāmāyo māyayā kurusattama pracakāra mahāmāyāṃ mohayann iva bhārata 56 sa sma kṛtvā virūpāṇi vadanāny aśubhānanaḥ agrasat sūtaputrasya divyāny astrāṇi māyayā 57 punaś cāpi mahākāyaḥ saṃchinnaḥ śatadhā raṇe gatasattvo nirutsāhaḥ patitaḥ khād vyadṛśyata hataṃ taṃ manyamānāḥ sma prāṇadan kurupuṃgavaḥ 58 atha dehair navair anyair dikṣu sarvāsv adṛśyata punaś cāpi mahākāyaḥ śataśīrṣaḥ śatodaraḥ 59 vyadṛśyata mahābāhur maināka iva parvataḥ aṅguṣṭha mātro bhūtvā ca punar eva sa rākṣasaḥ sāgarormir ivoddhūtas tiryag ūrdhvam avartata 60 vasudhāṃ dārayitvā ca punar apsu nyamajjata adṛśyata tadā tatra punar unmajjito 'nyataḥ 61 so 'vatīrya punas tasthau rathe hemapariṣkṛte kṣitiṃ dyāṃ ca diśaś caiva māyayāvṛtya daṃśitaḥ 62 gatvā karṇa rathābhyāśaṃ vicalat kuṇḍalānanaḥ prāha vākyam asaṃbhrāntaḥ sūtaputraṃ viśāṃ pate 63 tiṣṭhedānīṃ na me jīvan sūtaputra gamiṣyasi yuddhaśraddhām ahaṃ te 'dya vineṣyāmi raṇājire 64 ity uktvā roṣatāmrākṣaṃ rakṣaḥ krūraparākramam utpapātāntarikṣaṃ ca jahāsa ca suvisvaram karṇam abhyāhanac caiva gajendram iva kesarī 65 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ rathinām ṛṣabhaṃ karṇaṃ dhārābhir iva toyadaḥ śaravṛṣṭiṃ ca tāṃ karṇo dūraprāptām aśātayat 66 dṛṣṭvā ca vihatāṃ māyāṃ karṇena bharatarṣabha ghaṭotkacas tato māyāṃ sasarjāntarhitaḥ punaḥ 67 so 'bhavad girir ity uccaḥ śikharais tarusaṃkaṭaiḥ śūlaprāsāsi musalajalaprasravaṇo mahān 68 tam añjana cayaprakhyaṃ karṇo dṛṣṭvā mahīdharam prapātair āyudhāny ugrāṇy udvahantaṃ na cukṣubhe 69 smayann iva tataḥ karṇo divyam astram udīrayat tataḥ so 'streṇa śailendro vikṣipto vai vyanaśyata 70 tataḥ sa toyado bhūtvā nīlaḥ sendrāyudho divi aśmavṛṣṭibhir atyugraḥ sūtaputram avākirat 71 atha saṃdhāya vāyavyam astram astravidāṃ varaḥ vyadhamat kālameghaṃ taṃ karṇo vaikartano vṛṣā 72 sa mārgaṇagaṇaiḥ karṇo diśaḥ pracchādya sarvaśaḥ jaghānāstraṃ mahārāja ghaṭotkaca samīritam 73 tataḥ prahasya samare bhaimasenir mahābalaḥ prāduścakre mahāmāyāṃ karṇaṃ prati mahāratham 74 sa dṛṣṭvā punar āyāntaṃ rathena rathināṃ varam ghaṭotkacam asaṃbhrāntaṃ rākṣasair bahubhir vṛtam 75 siṃhaśārdūlasadṛśair mattadviradavikramaiḥ gajasthaiś ca rathasthaiś ca vājipṛṣṭha gatais tathā 76 nānāśastradharair ghorair nānā kavacabhūṣaṇaiḥ vṛtaṃ ghaṭotkacaṃ krūrair marudbhir iva vāsavam dṛṣṭvā karṇo maheṣvāso yodhayām āsa rākṣasam 77 ghaṭotkacas tataḥ karṇaṃ viddhvā pañcabhir āśugaiḥ nanāda bhairavaṃ nādaṃ bhīṣayan sarvapārthivān 78 bhūyaś cāñjalikenātha sa mārgaṇagaṇaṃ mahat karṇa hastasthitaṃ cāpaṃ cicchedāśu ghaṭotkacaḥ 79 athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat vyakarṣata balāt karṇa indrāyudham ivocchritam 80 tataḥ karṇo mahārāja preṣayām āsa sāyakān suvarṇapuṅkhāñ śatrughnān khacarān rākṣasān prati 81 tad bāṇair arditaṃ yūthaṃ rakṣasāṃ pīnavakṣasām siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam 82 vidhamya rākṣasān bāṇaiḥ sāśvasūta gajān vibhuḥ dadāha bhagavān vahnir bhūtānīva yugakṣaye 83 sa hatvā rākṣasīṃ senāṃ śuśubhe sūtanandanaḥ pureva tripuraṃ dagdhvā divi devo maheśvaraḥ 84 teṣu rājasahasreṣu pāṇḍaveyeṣu māriṣa nainaṃ nirīkṣitum api kaś cic chaknoti pārthiva 85 ṛte ghaṭotkacād rājan rākṣasendrān mahābalāt bhīmavīryabalopetāt kruddhād vaivasvatād iva 86 tasya kruddhasya netrābhyāṃ pāvakaḥ samajāyata maholkābhyāṃ yathā rājan sārciṣaḥ snehabindavaḥ 87 talaṃ talena saṃhatya saṃdaśya daśanac chadam ratham āsthāya ca punar māyayā nirmitaṃ punaḥ 88 yuktaṃ gajanibhair vāhaiḥ piśācavacanaiḥ kharaiḥ sasūtam abravīt kruddhaḥ sūtaputrāya mā vaha 89 sa yayau ghorarūpeṇa rathena rathināṃ varaḥ dvairathaṃ sūtaputreṇa punar eva viśāṃ pate 90 sa cikṣepa punaḥ kruddhaḥ sūtaputrāya rākṣasaḥ aṣṭacakrāṃ mahāghorām aśaniṃ rudra nirmitām 91 tām avaplutya jagrāha karṇo nyasya rathe dhanuḥ cikṣepa caināṃ tasyaiva syandanāt so 'vapupluve 92 sāśvasūta dhvajaṃ yānaṃ bhasmakṛtvā mahāprabhā viveśa vasudhāṃ bhittvā surās tatra visismiyuḥ 93 karṇaṃ tu sarvabhūtāni pūjayām āsur añjasā yad avaplutya jagrāha deva sṛṣṭāṃ mahāśanim 94 evaṃ kṛtvā raṇe karṇa āruroha rathaṃ punaḥ tato mumoca nārācān sūtaputraḥ paraṃtapaḥ 95 aśakyaṃ kartum anyena sarvabhūteṣu mānada yad akārṣīt tadā karṇaḥ saṃgrāme bhīmadarśane 96 sa hanyamāno nārācair dhārābhir iva parvataḥ gandharvanagarākāraḥ punar antaradhīyata 97 evaṃ sa vai mahāmāyo māyayā lāghavena ca astrāṇi tāni divyāni jaghāna ripusūdanaḥ 98 nihanyamāneṣv astreṣu māyayā tena rakṣasā asaṃbhrāntas tataḥ karṇas tad rakṣaḥ pratyayudhyata 99 tataḥ kruddho mahārāja bhaimasenir mahābalaḥ cakāra bahudhātmānaṃ bhīṣayāṇo narādhipān 100 tato digbhyaḥ samāpetuḥ siṃhavyāghra tarakṣavaḥ agnijihvāś ca bhujagā vihagāś cāpy ayomukhāḥ 101 sa kīryamāṇo niśitaiḥ karṇa cāpacyutaiḥ śaraiḥ nagarādrivanaprakhyas tatraivāntaradhīyata 102 rākṣasāś ca piśācāś ca yātudhānāḥ śalāvṛkāḥ te karṇaṃ bhakṣayiṣyantaḥ sarvataḥ samupādravan athainaṃ vāgbhir ugrābhis trāsayāṃ cakrire tadā 103 udyatair bahubhir ghorair āyudhaiḥ śoṇitokṣitaiḥ teṣām anekair ekaikaṃ karṇo divyādha cāśugaiḥ 104 pratihatya tu tāṃ māyāṃ divyenāstreṇa rākṣasīm ājaghāna hayān asya śaraiḥ saṃnataparvabhiḥ 105 te bhagnā vikṛtāṅgāś ca chinnapṛṣṭhāś ca sāyakaiḥ vasudhām anvapadyanta paśyatas tasya rakṣasaḥ 106 sa bhagnamāyo haiḍimbaḥ karṇaṃ vaikartanaṃ tataḥ eṣa te vidadhe mṛtyum ity uktvāntaradhīyata |