Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 24

  1 [य]
      शराध काले च थैवे च धर्मे चापि पितामह
      इच्छामीह तवयाख्यातं विहितं यत सुरर्षिभिः
  2 [भ]
      थैवं पूर्वाह्णिके कुर्याथ अपराह्णे तु पैतृकम
      मङ्गलाचार संपन्नः कृतशौचः परयत्नवान
  3 मनुष्याणां तु मध्याह्ने परथथ्याथ उपपत्तितः
      कालहीनं तु यथ थानं तं भागं रक्षसां विथुः
  4 लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम
      रजस्वराभिर थृष्टं च तं भागं सक्षसां विथुः
  5 अवघुष्टं च यथ भुक्तम अव्रतेन च भारत
      परामृष्टं शुना चैव तं भागं रक्षसां विथुः
  6 केशकीतावपतितं कषुतं शवभिर अवेक्षितम
      रुथितं चावधूतं च तं भागं रक्षसां विथुः
  7 निर ओंकारेण यथ भुक्तं स शस्त्रेण च भारत
      थुरात्मना च यथ भुक्तं तं भागं रक्षसां विथुः
  8 परॊच्छिष्टं च यथ भुक्तं परिभुक्तं च यथ भवेत
      थैवे पित्र्ये च सततं तं भागं रक्षसां विथुः
  9 गर्हितं निन्थितं चैव परिविष्टं स मन्युना
      थैवं वाप्य अद वा पैत्र्यं तं भागं रक्षसां विथुः
  10 मन्त्रहीनं करिया हीनं यच छराधं परिविष्यते
     तरिभिर वर्णैर नरश्रेष्ठ तं भागं रक्षसां विथुः
 11 आज्याहुतिं विना चैव यत किं चित परिविष्यते
     थुराचारैश च यथ भुक्तं तं भागं रक्षसां विथुः
 12 ये भागा रक्षसां परॊक्तास त उक्ता भरतर्षभ
     अत ऊर्ध्वं विसर्गस्य परीक्षां बराह्मणे शृणु
 13 यावन्तः पतिता विप्रा जडॊन्मत्तास तदैव च
     थैवे वाप्य अद वा पित्र्ये राजन नार्हन्ति केतनम
 14 शवित्री कुष्ठी च कलीबश च तदा यक्ष्म हतश च यः
     अपस्मारी च यश चान्धॊ राजन नार्हन्ति सत्कृतिम
 15 चिकित्सका थेवलका वृदा नियमधारिणः
     सॊमविक्रयिणश चैव शराथ्धे नार्हन्ति केतनम
 16 गायना नर्तकाश चैव पलवका वाथकास तदा
     कदका यॊधकाश चैव राजन नार्हन्ति केतनम
 17 हॊतारॊ वृषलानां च वृषलाध्यापकास तदा
     तदा वृषल शिष्याश च राजन नार्हन्ति केतनम
 18 अनुयॊक्ता च यॊ विप्रॊ अनुयुक्तश च भारत
     नार्हतस ताव अपि शराधं बरह्म विक्रयिणौ हि तौ
 19 अग्रणीर यः कृतः पूर्वं वर्णावर परिग्रहः
     बराह्मणः सर्वविथ्यॊ ऽपि राजन नार्हन्ति केतनम
 20 अनग्नयश च ये विप्रा मृतनिर्यातकाश च ये
     सतेनाश च पतिताश चैव राजन नार्हन्ति केतनम
 21 अपरिज्ञात पूर्वाश च गणपूर्वांश च भारत
     पुत्रिका पूर्वपुत्राश च शराथ्धे नार्हन्ति केतनम
 22 ऋण कर्ता च यॊ राजन यश च वार्धुषिकॊ थविजः
     पराणिविक्रय वृत्तिश च राजन नार्हन्ति केतनम
 23 सत्रीपूर्वाः काण्डपृष्ठाश च यावन्तॊ भरतर्षभ
     अजपा बराह्मणाश चैव शराथ्धे नार्हन्ति केतनम
 24 शराथ्धे थैवे च निर्थिष्टा बराह्मणा भरतर्षभ
     थातुः परतिग्रहीतुश च शृणुष्वानुग्रहं पुनः
 25 चीर्ण वरता गुणैर युक्ता भवेयुर ये ऽपि कर्षकाः
     सावित्रीज्ञाः करियावन्तस ते राजन केतन कषमाः
 26 कषात्रधर्मिणम अप्य आजौ केतयेत कुलजं थविजम
     न तव एव वणिजं तात शराथ्धेषु परिकल्पयेत
 27 अग्निहॊत्री च यॊ विप्रॊ गरामवासी च यॊ भवेत
     अस्तेनश चातिदिज्ञश च स राजन केतन कषमः
 28 सावित्रीं जपते यस तु तरिकालं भरतर्षभ
     खिक्षा वृत्तिः करियावांश च स राजन केतन कषमः
 29 उथितास्तमितॊ यश च तदैवास्तमितॊथितः
     अहिंस्रश चाल्पथॊषश च स राजन केतन कषमः
 30 अकल्ककॊ हय अतर्कश च बराह्मणॊ भरतर्षभ
     स संज्ञॊ भैक्ष्य वृत्तिश च स राजन केतन कषमः
 31 अव्रती कितवः सतेनः पराणिविक्रय्य अदॊ वणिक
     पश्चाच च पीतवान सॊमं स राजन केतन कषमः
 32 अर्जयित्वा धनं पूर्वं थारुणैः कृषिकर्मभिः
     भवेत सर्वातिदिः पश्चात स राजन केतन कषमः
 33 बरह्म विक्रय निर्थिष्टं सत्रिया यच चार्जितं धनम
     अथेयं पितृथेवेभ्यॊ यच च कलैब्याथ उपार्जितम
 34 करियमाणे ऽपवर्गे तु यॊ थविजॊ भरतर्षभ
     न वयाहरति यथ युक्तं तस्याधर्मॊ गवानृतम
 35 शराथ्धस्य बराह्मणः कालः पराप्तं थधिघृतं तदा
     सॊमक्षयश च मांसं च यथ आरण्यं युधिष्ठिर
 36 शराथ्धापवर्गे विप्रस्य सवधा वै सवथिता भवेत
     कषत्रियस्याप्य अदॊ बरूयात परीयन्तां पितरस तव इति
 37 अपवर्गे तु वैश्यस्य शराथ्धकर्मणि भारत
     अक्षय्यम अभिधातव्यं सवस्ति शूथ्रस्य भारत
 38 पुण्याहवाचनं थैवे बराह्मणस्य विधीयते
     एतथ एव निर ओंकारं कषत्रियस्य विधीयते
     वैश्यस्य चैव वक्तव्यं परीयन्तां थेवता इति
 39 कर्मणाम आनुपूर्वीं च विधिपूर्वकृतं शृणु
     जातकर्माथिकान सर्वांस तरिषु वर्णेषु भारत
     बरह्मक्षत्रे हि मन्त्रॊक्ता वैश्यस्य च युधिष्ठिर
 40 विप्रस्य रशना मौञ्जी मौर्वी राजन्य गामिनी
     बाल्वजीत्य एव वैश्यस्य धर्म एष युधिष्ठिर
 41 थातुः परतिग्रहीतुश च धर्माधर्माव इमौ शृणु
     बराह्मणस्यानृते ऽधर्मः परॊक्तः पातक संज्ञितः
     चतुर्गुणः कषत्रियस्य वैश्यस्याष्ट गुणः समृतः
 42 नान्यत्र बराह्मणॊ ऽशनीयात पूर्वं विप्रेण केतितः
     यवीयान पशुहिंसायां तुल्यधर्मॊ भवेत स हि
 43 अद राजन्यवैश्याभ्यां यथ्य अश्नीयात तु केतितः
     यवीयान पशुहिंसायां भागार्धं समवाप्नुयात
 44 थैवं वाप्य अद वा पित्र्यं यॊ ऽशनीयाथ बराह्मणाथिषु
     अस्नातॊ बराह्मणॊ राजंस तस्याधर्मॊ गवानृतम
 45 आशौचॊ बराह्मणॊ राजन्यॊ ऽशनीयाथ बराह्मणाथिषु
     जञानपूर्वम अदॊ लॊभात तस्याधर्मॊ गवानृतम
 46 अन्नेनान्नं च यॊ लिप्सेत कर्मार्दं चैव भारत
     आमन्त्रयति राजेन्थ्र तस्याधर्मॊ ऽनृतं समृतम
 47 अवेथ वरतचारित्रास तरिभिर वर्णैर युधिष्ठिर
     मन्त्रवत परिविष्यन्ते तेष्व अधर्मॊ गवानृतम
 48 [य]
     पित्र्यं वाप्य अद वा थैवं थीयते यत पितामह
     एतथ इच्छाम्य अहं शरॊतुं थत्तं येषु महाफलम
 49 [भ]
     येषां थाराः परतीक्षन्ते सुवृष्टिम इव कर्षकाः
     उच्छेष परिशेषं हि तान भॊजय युधिष्ठिर
 50 चारित्रनियता राजन्ये कृशाः कृश वृत्तयः
     अर्दिनश चॊपगच्छन्ति तेषु थत्तं महाफलम
 51 तथ भक्तास तथ्गृहा राजंस तथ धनास तथ अपाश्रयाः
     अर्दिनश च भवन्त्य अर्दे तेषु थत्तं महाफलम
 52 तस्करेभ्यः परेभ्यॊ वा ये भयार्ता युधिष्ठिर
     अर्दिनॊ भॊक्तुम इच्छन्ति तेषु थत्तं महाफलम
 53 अकल्ककस्य विप्रस्य भैक्षॊत्कर कृतात्मनः
     बटवॊ यस्य भिक्षन्ति तेभ्यॊ थत्तं महाफलम
 54 हृतस्वा हृतथाराश च ये विप्रा थेशसंप्लवे
     अर्दार्दम अभिगच्छन्ति तेभ्यॊ थत्तं महाफलम
 55 वरतिनॊ नियमस्दाश च ये विप्राः शरुतसंम्मताः
     तत समाप्त्य अर्दम इच्छन्ति तेषु थत्तं महाफलम
 56 अव्युत्क्रान्ताश च धर्मेषु पाषण्ड समयेषु च
     कृश पराणाः कृश धनास तेषु थत्तं महाफलम
 57 कृतसर्वस्वहरणा निर्थॊषाः परभविष्णुभिः
     सपृहयन्ति च भुक्तान्नं तेषु थत्तं महाफलम
 58 तपस्विनस तपॊ निष्ठास तेषां भैक्ष चराश च ये
     अर्दिनः किं चिथ इच्छन्ति तेषु थत्तं महाफलम
 59 महाफलविधिर थाने शरुतस ते भरतर्षभ
     निरयं येन गच्छन्ति सवर्गं चैव हि तच छृणु
 60 गुर्वर्दं वाभयार्दं वा वर्जयित्वा युधिष्ठिर
     ये ऽनृतं कदयन्ति सम ते वै निरयगामिनः
 61 परथाराभिहर्तारः परथाराभिमर्शिनः
     परथारप्रयॊक्तारस ते वै निरयगामिनः
 62 ये परस्वापहर्तारः परस्वानां च नाशकाः
     सूचकाश च परेषां ये ते वै निरयगामिनः
 63 परपाणां च सभानां च संक्रमाणां च भारत
     अगाराणां च भेत्तारॊ नरा निरयगामिनः
 64 अनादां परमथं बालां वृथ्धां भीतां तपस्विनाम
     वञ्चयन्ति नरा ये च ते वै निरयगामिनः
 65 वृत्तिच छेथं गृहच छेथं थारच छेथं च भारत
     मित्रच छेथं तदाशायास ते वै निरयगामिनः
 66 सूचकाः संधिभेत्तारः परवृत्त्य उपजीवकाः
     अकृतज्ञाश च मित्राणां ते वै निरयगामिनः
 67 पाषण्डा थूषकाश चैव समयानां च थूषकाः
     ये परत्यवसिताश चैव ते वै निरयगामिनः
 68 कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम
     भेथैर ये वयपकर्षन्ति ते वै निरयगामिनः
 69 पर्यश्नन्ति च ये थारान अग्निभृत्यातिदींस तदा
     उत्सन्नपितृथेवेज्यास ते वै निरयगामिनः
 70 वेथ विक्रयिणश चैव वेथानां चैव थूषकाः
     वेथानां लेखकाश चैव ते वै निरयगामिनः
 71 चातुराश्रम्य बाह्याश च शरुतिबाह्याश च ये नराः
     विकर्मभिश च जीवन्ति ते वै निरयगामिनः
 72 केशविक्रयिका राजन विषविक्रयिकाश च ये
     कषीरविक्रयिकाश चैव ते वै निरयगामिनः
 73 बराह्मणानां गवां चैव कन्यानां च युधिष्ठिर
     ये ऽनतरं यान्ति कार्येषु ते वै निरयगामिनः
 74 शस्त्रविक्रयकाश चैव कर्तारश च युधिष्ठिर
     शल्यानां धनुषां चैव ते वै निरयगामिनः
 75 शल्यैर वा शङ्कुभिर वापि शवभ्रैर वा भरतर्षभ
     ये मार्गम अनुरुन्धन्ति ते वै निरयगामिनः
 76 उपाध्यायांश च भृत्यां च भक्तांश च भरतर्षभ
     ये तयजन्त्य असमर्दांस तांस ते वै निरयगामिनः
 77 अप्राप्तथमकाश चैव नासानां वेधकास तदा
     बन्धकाश च पशूनां ये ते वै निरयगामिनः
 78 अगॊप्तारश छल थरव्या बलिषड भागतत्पराः
     समर्दाश चाप्य अथातारस ते वै निरयगामिनः
 79 कषान्तान थान्तांस तदा पराज्ञान थीर्घकालं सहॊषितान
     तयजन्ति कृतकृत्या ये ते वै निरयगामिनः
 80 बालानाम अद वृथ्धानां थासानां चैव ये नराः
     अथत्त्वा भक्षयन्त्य अग्रे ते वै निरयगामिनः
 81 एते पूर्वर्षिभिर थृष्टाः परॊक्ता निरयगामिनः
     भागिनः सवर्गलॊकस्य वक्ष्यामि भरतर्षभ
 82 सर्वेष्व एव तु कार्येषु थैवपूर्वेषु भारत
     हन्ति पुत्रान पशून कृत्स्नान बराह्मणातिक्रमः कृतः
 83 थानेन तपसा चैव सत्येन च युधिष्ठिर
     ये धर्मम अनुवर्तन्ते ते नराः सवर्गगामिनः
 84 शुश्रूषाभिस तपॊभिश च शरुतम आथाय भारत
     ये परतिग्रह निःस्नेहास ते नराः सवर्गगामिनः
 85 भयात पापात तदाबाधाथ थारिथ्र्याथ वयाधिधर्षणात
     यत्कृते परतिमुच्यन्ते ते नराः सवर्गगामिनः
 86 कषमावन्तश च धीराश च धर्मकार्येषु चॊत्दिताः
     मङ्गलाचार युक्ताश च ते नराः सवर्गगामिनः
 87 निवृत्ता मधु मांसेभ्यः परथारेभ्य एव च
     निवृत्ताश चैव मथ्येभस ते नराः सवर्गगामिनः
 88 आश्रमाणां च कर्तारः कुलानां चैव भारत
     थेशानां नगराणां च ते नराः सवर्गगामिनः
 89 वस्त्राभरण थातारॊ भक्ष पानान्नथास तदा
     कुटुम्बानां च थातारस ते नराः सवर्गगामिनः
 90 सर्वहिंसा निवृत्ताश च नराः सर्वसहाश च ये
     सर्वस्याश्रय भूताश च ते नराः सवर्गगामिनः
 91 मातरं पितरं चैव शुश्रूषन्ति जितेन्थ्रियाः
     भरातॄणां चैव स सनेहास ते नराः सवर्गगामिनः
 92 आढ्याश च बलवन्तश च यौवनस्दाश च भारत
     ये वै जितेन्थ्रिया धीरास ते नराः सवर्गगामिनः
 93 अपराथ्धेषु स सनेहा मृथवॊ मित्रवत्सलाः
     आराधन सुखाश चापि ते नराः सवर्गगामिनः
 94 सहस्रपरिवेष्टारस तदैव च सहस्रथाः
     तरातारश च सहस्राणां पुरुषाः सवर्गगामिनः
 95 सुवर्णस्य च थातारॊ गवां च भरतर्षभ
     यानानां वाहनानां च ते नराः सवर्गगामिनः
 96 वैवाहिकानां कन्यानां परेष्याणां च युधिष्ठिर
     थातारॊ वाससां चैव ते नराः सवर्गगामिनः
 97 विहारावसदॊथ्यान कूपाराम सभा परथाः
     वप्राणां चैव कर्तारस ते नराः सवर्गगामिनः
 98 निवेशनानां कषृत्राणां वसतीनां च भारत
     थातारः परार्दितानां च ते नराः सवर्गगामिनः
 99 रसानाम अद बीजानां धान्यानां च युधिष्ठिर
     सवयम उत्पाथ्य थातारः पुरुषाः सवर्गगामिनः
 100 यस्मिन कस्मिन कुले जाता बहुपुत्राः शतायुषः
    सानुक्रॊशा जितक्रॊधाः पुरुषाः सवर्गगामिनः
101 एतथ उक्तम अमुत्रार्दं थैवं पित्र्यं च भारत
    धर्माधर्मौ च थानस्य यदापूर्वर्षिभिः कृतौ
  1 [y]
      śrādha kāle ca daive ca dharme cāpi pitāmaha
      icchāmīha tvayākhyātaṃ vihitaṃ yat surarṣibhiḥ
  2 [bh]
      daivaṃ pūrvāhṇike kuryād aparāhṇe tu paitṛkam
      maṅgalācāra saṃpannaḥ kṛtaśaucaḥ prayatnavān
  3 manuṣyāṇāṃ tu madhyāhne pradadyād upapattitaḥ
      kālahīnaṃ tu yad dānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
  4 laṅghitaṃ cāvalīḍhaṃ ca kalipūrvaṃ ca yatkṛtam
      rajasvarābhir dṛṣṭaṃ ca taṃ bhāgaṃ sakṣasāṃ viduḥ
  5 avaghuṣṭaṃ ca yad bhuktam avratena ca bhārata
      parāmṛṣṭaṃ śunā caiva taṃ bhāgaṃ rakṣasāṃ viduḥ
  6 keśakītāvapatitaṃ kṣutaṃ śvabhir avekṣitam
      ruditaṃ cāvadhūtaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ
  7 nir oṃkāreṇa yad bhuktaṃ sa śastreṇa ca bhārata
      durātmanā ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
  8 parocchiṣṭaṃ ca yad bhuktaṃ paribhuktaṃ ca yad bhavet
      daive pitrye ca satataṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
  9 garhitaṃ ninditaṃ caiva pariviṣṭaṃ sa manyunā
      daivaṃ vāpy atha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
  10 mantrahīnaṃ kriyā hīnaṃ yac chrādhaṃ pariviṣyate
     tribhir varṇair naraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ
 11 ājyāhutiṃ vinā caiva yat kiṃ cit pariviṣyate
     durācāraiś ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ
 12 ye bhāgā rakṣasāṃ proktās ta uktā bharatarṣabha
     ata ūrdhvaṃ visargasya parīkṣāṃ brāhmaṇe śṛṇu
 13 yāvantaḥ patitā viprā jaḍonmattās tathaiva ca
     daive vāpy atha vā pitrye rājan nārhanti ketanam
 14 śvitrī kuṣṭhī ca klībaś ca tathā yakṣma hataś ca yaḥ
     apasmārī ca yaś cāndho rājan nārhanti satkṛtim
 15 cikitsakā devalakā vṛthā niyamadhāriṇaḥ
     somavikrayiṇaś caiva śrāddhe nārhanti ketanam
 16 gāyanā nartakāś caiva plavakā vādakās tathā
     kathakā yodhakāś caiva rājan nārhanti ketanam
 17 hotāro vṛṣalānāṃ ca vṛṣalādhyāpakās tathā
     tathā vṛṣala śiṣyāś ca rājan nārhanti ketanam
 18 anuyoktā ca yo vipro anuyuktaś ca bhārata
     nārhatas tāv api śrādhaṃ brahma vikrayiṇau hi tau
 19 agraṇīr yaḥ kṛtaḥ pūrvaṃ varṇāvara parigrahaḥ
     brāhmaṇaḥ sarvavidyo 'pi rājan nārhanti ketanam
 20 anagnayaś ca ye viprā mṛtaniryātakāś ca ye
     stenāś ca patitāś caiva rājan nārhanti ketanam
 21 aparijñāta pūrvāś ca gaṇapūrvāṃś ca bhārata
     putrikā pūrvaputrāś ca śrāddhe nārhanti ketanam
 22 ṛṇa kartā ca yo rājan yaś ca vārdhuṣiko dvijaḥ
     prāṇivikraya vṛttiś ca rājan nārhanti ketanam
 23 strīpūrvāḥ kāṇḍapṛṣṭhāś ca yāvanto bharatarṣabha
     ajapā brāhmaṇāś caiva śrāddhe nārhanti ketanam
 24 śrāddhe daive ca nirdiṣṭā brāhmaṇā bharatarṣabha
     dātuḥ pratigrahītuś ca śṛṇuṣvānugrahaṃ punaḥ
 25 cīrṇa vratā guṇair yuktā bhaveyur ye 'pi karṣakāḥ
     sāvitrījñāḥ kriyāvantas te rājan ketana kṣamāḥ
 26 kṣātradharmiṇam apy ājau ketayet kulajaṃ dvijam
     na tv eva vaṇijaṃ tāta śrāddheṣu parikalpayet
 27 agnihotrī ca yo vipro grāmavāsī ca yo bhavet
     astenaś cātithijñaś ca sa rājan ketana kṣamaḥ
 28 sāvitrīṃ japate yas tu trikālaṃ bharatarṣabha
     khikṣā vṛttiḥ kriyāvāṃś ca sa rājan ketana kṣamaḥ
 29 uditāstamito yaś ca tathaivāstamitoditaḥ
     ahiṃsraś cālpadoṣaś ca sa rājan ketana kṣamaḥ
 30 akalkako hy atarkaś ca brāhmaṇo bharatarṣabha
     sa saṃjño bhaikṣya vṛttiś ca sa rājan ketana kṣamaḥ
 31 avratī kitavaḥ stenaḥ prāṇivikrayy atho vaṇik
     paścāc ca pītavān somaṃ sa rājan ketana kṣamaḥ
 32 arjayitvā dhanaṃ pūrvaṃ dāruṇaiḥ kṛṣikarmabhiḥ
     bhavet sarvātithiḥ paścāt sa rājan ketana kṣamaḥ
 33 brahma vikraya nirdiṣṭaṃ striyā yac cārjitaṃ dhanam
     adeyaṃ pitṛdevebhyo yac ca klaibyād upārjitam
 34 kriyamāṇe 'pavarge tu yo dvijo bharatarṣabha
     na vyāharati yad yuktaṃ tasyādharmo gavānṛtam
 35 śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhighṛtaṃ tathā
     somakṣayaś ca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira
 36 śrāddhāpavarge viprasya svadhā vai svaditā bhavet
     kṣatriyasyāpy atho brūyāt prīyantāṃ pitaras tv iti
 37 apavarge tu vaiśyasya śrāddhakarmaṇi bhārata
     akṣayyam abhidhātavyaṃ svasti śūdrasya bhārata
 38 puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate
     etad eva nir oṃkāraṃ kṣatriyasya vidhīyate
     vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti
 39 karmaṇām ānupūrvīṃ ca vidhipūrvakṛtaṃ śṛṇu
     jātakarmādikān sarvāṃs triṣu varṇeṣu bhārata
     brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira
 40 viprasya raśanā mauñjī maurvī rājanya gāminī
     bālvajīty eva vaiśyasya dharma eṣa yudhiṣṭhira
 41 dātuḥ pratigrahītuś ca dharmādharmāv imau śṛṇu
     brāhmaṇasyānṛte 'dharmaḥ proktaḥ pātaka saṃjñitaḥ
     caturguṇaḥ kṣatriyasya vaiśyasyāṣṭa guṇaḥ smṛtaḥ
 42 nānyatra brāhmaṇo 'śnīyāt pūrvaṃ vipreṇa ketitaḥ
     yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi
 43 atha rājanyavaiśyābhyāṃ yady aśnīyāt tu ketitaḥ
     yavīyān paśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt
 44 daivaṃ vāpy atha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu
     asnāto brāhmaṇo rājaṃs tasyādharmo gavānṛtam
 45 āśauco brāhmaṇo rājanyo 'śnīyād brāhmaṇādiṣu
     jñānapūrvam atho lobhāt tasyādharmo gavānṛtam
 46 annenānnaṃ ca yo lipset karmārthaṃ caiva bhārata
     āmantrayati rājendra tasyādharmo 'nṛtaṃ smṛtam
 47 aveda vratacāritrās tribhir varṇair yudhiṣṭhira
     mantravat pariviṣyante teṣv adharmo gavānṛtam
 48 [y]
     pitryaṃ vāpy atha vā daivaṃ dīyate yat pitāmaha
     etad icchāmy ahaṃ śrotuṃ dattaṃ yeṣu mahāphalam
 49 [bh]
     yeṣāṃ dārāḥ pratīkṣante suvṛṣṭim iva karṣakāḥ
     uccheṣa pariśeṣaṃ hi tān bhojaya yudhiṣṭhira
 50 cāritraniyatā rājanye kṛśāḥ kṛśa vṛttayaḥ
     arthinaś copagacchanti teṣu dattaṃ mahāphalam
 51 tad bhaktās tadgṛhā rājaṃs tad dhanās tad apāśrayāḥ
     arthinaś ca bhavanty arthe teṣu dattaṃ mahāphalam
 52 taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira
     arthino bhoktum icchanti teṣu dattaṃ mahāphalam
 53 akalkakasya viprasya bhaikṣotkara kṛtātmanaḥ
     baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam
 54 hṛtasvā hṛtadārāś ca ye viprā deśasaṃplave
     arthārtham abhigacchanti tebhyo dattaṃ mahāphalam
 55 vratino niyamasthāś ca ye viprāḥ śrutasaṃmmatāḥ
     tat samāpty artham icchanti teṣu dattaṃ mahāphalam
 56 avyutkrāntāś ca dharmeṣu pāṣaṇḍa samayeṣu ca
     kṛśa prāṇāḥ kṛśa dhanās teṣu dattaṃ mahāphalam
 57 kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ
     spṛhayanti ca bhuktānnaṃ teṣu dattaṃ mahāphalam
 58 tapasvinas tapo niṣṭhās teṣāṃ bhaikṣa carāś ca ye
     arthinaḥ kiṃ cid icchanti teṣu dattaṃ mahāphalam
 59 mahāphalavidhir dāne śrutas te bharatarṣabha
     nirayaṃ yena gacchanti svargaṃ caiva hi tac chṛṇu
 60 gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira
     ye 'nṛtaṃ kathayanti sma te vai nirayagāminaḥ
 61 paradārābhihartāraḥ paradārābhimarśinaḥ
     paradāraprayoktāras te vai nirayagāminaḥ
 62 ye parasvāpahartāraḥ parasvānāṃ ca nāśakāḥ
     sūcakāś ca pareṣāṃ ye te vai nirayagāminaḥ
 63 prapāṇāṃ ca sabhānāṃ ca saṃkramāṇāṃ ca bhārata
     agārāṇāṃ ca bhettāro narā nirayagāminaḥ
 64 anāthāṃ pramadaṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinām
     vañcayanti narā ye ca te vai nirayagāminaḥ
 65 vṛttic chedaṃ gṛhac chedaṃ dārac chedaṃ ca bhārata
     mitrac chedaṃ tathāśāyās te vai nirayagāminaḥ
 66 sūcakāḥ saṃdhibhettāraḥ paravṛtty upajīvakāḥ
     akṛtajñāś ca mitrāṇāṃ te vai nirayagāminaḥ
 67 pāṣaṇḍā dūṣakāś caiva samayānāṃ ca dūṣakāḥ
     ye pratyavasitāś caiva te vai nirayagāminaḥ
 68 kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam
     bhedair ye vyapakarṣanti te vai nirayagāminaḥ
 69 paryaśnanti ca ye dārān agnibhṛtyātithīṃs tathā
     utsannapitṛdevejyās te vai nirayagāminaḥ
 70 veda vikrayiṇaś caiva vedānāṃ caiva dūṣakāḥ
     vedānāṃ lekhakāś caiva te vai nirayagāminaḥ
 71 cāturāśramya bāhyāś ca śrutibāhyāś ca ye narāḥ
     vikarmabhiś ca jīvanti te vai nirayagāminaḥ
 72 keśavikrayikā rājan viṣavikrayikāś ca ye
     kṣīravikrayikāś caiva te vai nirayagāminaḥ
 73 brāhmaṇānāṃ gavāṃ caiva kanyānāṃ ca yudhiṣṭhira
     ye 'ntaraṃ yānti kāryeṣu te vai nirayagāminaḥ
 74 śastravikrayakāś caiva kartāraś ca yudhiṣṭhira
     śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ
 75 śalyair vā śaṅkubhir vāpi śvabhrair vā bharatarṣabha
     ye mārgam anurundhanti te vai nirayagāminaḥ
 76 upādhyāyāṃś ca bhṛtyāṃ ca bhaktāṃś ca bharatarṣabha
     ye tyajanty asamarthāṃs tāṃs te vai nirayagāminaḥ
 77 aprāptadamakāś caiva nāsānāṃ vedhakās tathā
     bandhakāś ca paśūnāṃ ye te vai nirayagāminaḥ
 78 agoptāraś chala dravyā baliṣaḍ bhāgatatparāḥ
     samarthāś cāpy adātāras te vai nirayagāminaḥ
 79 kṣāntān dāntāṃs tathā prājñān dīrghakālaṃ sahoṣitān
     tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ
 80 bālānām atha vṛddhānāṃ dāsānāṃ caiva ye narāḥ
     adattvā bhakṣayanty agre te vai nirayagāminaḥ
 81 ete pūrvarṣibhir dṛṣṭāḥ proktā nirayagāminaḥ
     bhāginaḥ svargalokasya vakṣyāmi bharatarṣabha
 82 sarveṣv eva tu kāryeṣu daivapūrveṣu bhārata
     hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ
 83 dānena tapasā caiva satyena ca yudhiṣṭhira
     ye dharmam anuvartante te narāḥ svargagāminaḥ
 84 śuśrūṣābhis tapobhiś ca śrutam ādāya bhārata
     ye pratigraha niḥsnehās te narāḥ svargagāminaḥ
 85 bhayāt pāpāt tathābādhād dāridryād vyādhidharṣaṇāt
     yatkṛte pratimucyante te narāḥ svargagāminaḥ
 86 kṣamāvantaś ca dhīrāś ca dharmakāryeṣu cotthitāḥ
     maṅgalācāra yuktāś ca te narāḥ svargagāminaḥ
 87 nivṛttā madhu māṃsebhyaḥ paradārebhya eva ca
     nivṛttāś caiva madyebhas te narāḥ svargagāminaḥ
 88 āśramāṇāṃ ca kartāraḥ kulānāṃ caiva bhārata
     deśānāṃ nagarāṇāṃ ca te narāḥ svargagāminaḥ
 89 vastrābharaṇa dātāro bhakṣa pānānnadās tathā
     kuṭumbānāṃ ca dātāras te narāḥ svargagāminaḥ
 90 sarvahiṃsā nivṛttāś ca narāḥ sarvasahāś ca ye
     sarvasyāśraya bhūtāś ca te narāḥ svargagāminaḥ
 91 mātaraṃ pitaraṃ caiva śuśrūṣanti jitendriyāḥ
     bhrātṝṇāṃ caiva sa snehās te narāḥ svargagāminaḥ
 92 āḍhyāś ca balavantaś ca yauvanasthāś ca bhārata
     ye vai jitendriyā dhīrās te narāḥ svargagāminaḥ
 93 aparāddheṣu sa snehā mṛdavo mitravatsalāḥ
     ārādhana sukhāś cāpi te narāḥ svargagāminaḥ
 94 sahasrapariveṣṭāras tathaiva ca sahasradāḥ
     trātāraś ca sahasrāṇāṃ puruṣāḥ svargagāminaḥ
 95 suvarṇasya ca dātāro gavāṃ ca bharatarṣabha
     yānānāṃ vāhanānāṃ ca te narāḥ svargagāminaḥ
 96 vaivāhikānāṃ kanyānāṃ preṣyāṇāṃ ca yudhiṣṭhira
     dātāro vāsasāṃ caiva te narāḥ svargagāminaḥ
 97 vihārāvasathodyāna kūpārāma sabhā pradāḥ
     vaprāṇāṃ caiva kartāras te narāḥ svargagāminaḥ
 98 niveśanānāṃ kṣṛtrāṇāṃ vasatīnāṃ ca bhārata
     dātāraḥ prārthitānāṃ ca te narāḥ svargagāminaḥ
 99 rasānām atha bījānāṃ dhānyānāṃ ca yudhiṣṭhira
     svayam utpādya dātāraḥ puruṣāḥ svargagāminaḥ
 100 yasmin kasmin kule jātā bahuputrāḥ śatāyuṣaḥ
    sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ
101 etad uktam amutrārthaṃ daivaṃ pitryaṃ ca bhārata
    dharmādharmau ca dānasya yathāpūrvarṣibhiḥ kṛtau


Next: Chapter 25