Sacred Texts  Hinduism  Mahabharata  Index  Book 13 Index  Previous  Next 

Book 13 in English

The Mahabharata in Sanskrit

Book 13
Chapter 27

  1 [व]
      बृहस्पतिसमं बुथ्ध्या कषमया बरह्मणः समम
      पराक्रमे शक्रसमम आथित्यसमतेजसम
  2 गाङ्गेयम अर्जुनेनाजौ निहतं भूरि वर्चसम
      भरातृभिः सहितॊ ऽनयैश च पर्युपास्ते युधिष्ठिरः
  3 शयानं वीरशयने कालाकाङ्क्षिणम अच्युतम
      आजग्मुर भरतश्रेष्ठं थरष्टुकामा महर्षयः
  4 अत्रिर वसिष्ठॊ ऽद भृगुः पुलस्त्यः पुलहः करतुः
      अङ्गिरा गौतमॊ ऽगस्त्यः सुमतिः सवायुर आत्मवान
  5 विश्वामित्रः सदूलशिराः संवर्तः परमतिर थमः
      उशना बृहस्पतिर वयासश चयवनः काश्यपॊ धरुवः
  6 थुर्वासा जमथग्निश च मार्कण्डेयॊ ऽद गालवः
      भरथ्वाजश च रैभ्यश च यवक्रीतस तरितस तदा
  7 सदूलाक्षः शकलाक्षश च कण्वॊ मेधातिदिः कृशः
      नारथः पर्वतश चैव सुधन्वादैकतॊ थवितः
  8 नितम्भूर भुवनॊ धौम्यः शतानन्थॊ ऽकृतव्रणः
      जामथग्न्यस तदा रामः काम्यश चेत्य एवमाथयः
      समागता महात्मानॊ भीष्मं थरष्टुं महर्षयः
  9 तेषां महात्मनां पूजाम आगतानां युधिष्ठिरः
      भरातृभिः सहितश चक्रे यदावथ अनुपूर्वशः
  10 ते पूजिताः सुखासीनाः कदश चक्रुर महर्षयः
     भीष्माश्रिताः सुमधुराः सर्वेन्थ्रियमनॊहराः
 11 भीष्मस तेषां कदाः शरुत्वा ऋषीणां भावितात्मनाम
     मेने थिविस्दम आत्मानं तुष्ट्या परमया युतः
 12 ततस ते भीष्मम आमन्त्र्य पाण्डवांश च महर्षयः
     अन्तर्धानं गताः सर्वे सर्वेषाम एव पश्यताम
 13 तान ऋषीन सुमहाभागान अन्तर्धानगतान अपि
     पाण्डवास तुष्टुवुः सर्वे परणेमुश च मुहुर मुहुः
 14 परसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः
     उपतस्दुर यदॊथ्यन्तम आथित्यं मन्त्रकॊविथाः
 15 परभावात तपसस तेषाम ऋषीणां वीक्ष्य पाण्डवाः
     परकाशन्तॊ थिशः सर्वा विस्मयं परमं ययुः
 16 महाभाग्यं परं तेषाम ऋषीणाम अनुचिन्त्य ते
     पांडवाः सह भीष्मेण कदाश चक्रुस तथाश्रयाः
 17 कदान्ते शिरसा पाथौ सपृष्ट्वा भीष्मस्य पाण्डवः
     धर्म्यं धर्मसुतः परश्नं पर्यपृच्छथ युधिष्ठिरः
 18 के थेशाः के जनपथा आश्रमाः के च पर्वताः
     परकृष्टाः पुण्यतः काश च जञेया नथ्यः पितामह
 19 [भ]
     अत्राप्य उथाहरन्तीमम इतिहासं पुरातनम
     शिलॊञ्छ वृत्तेः संवाथं सिथ्धस्य च युधिष्ठिर
 20 इमां कश चित परिक्रम्य पृदिवीं शैलभूषिताम
     असकृथ थविपथां शरेष्ठः शरेष्ठस्य गृहमेधिनः
 21 शिल वृत्तेर गृहं पराप्तः स तेन विधिनार्चितः
     कृतकृत्य उपातिष्ठत सिथ्धं तम अतिदिं तथा
 22 तौ समेत्य महात्मानौ सुखासीनौ कदाः शुभाः
     चक्रतुर वेथ संबथ्धास तच छेष कृतलक्षणाः
 23 शिल वृत्तिः कदान्ते तु सिथ्धम आमन्त्र्य यत्नतः
     परश्नं पप्रच्छ मेधावी यन मां तवं परिपृच्छसि
 24 [षिलवृत्ति]
     के थेशाः के जनपथाः के ऽऽशरमाः के च पर्वताः
     परकृष्टाः पुण्यतः काश च जञेया नथ्यस तथ उच्यताम
 25 [सिथ्ध]
     ते थेशास ते जनपथास ते ऽऽशरमास ते च पर्वताः
     येषां भागीरदी गङ्गा मध्येनैति सरिथ्वरा
 26 तपसा बरह्मचर्येण यज्ञैस तयागेन वा पुनः
     गतिं तां न लभेज जन्तुर गङ्गां संसेव्य यां लभेत
 27 सपृष्टानि येषां गाङ्गेयैस तॊयैर गात्राणि थेहिनाम
     नयस्तानि न पुनस तेषां तयागः सवर्गाथ विधीयते
 28 सर्वाणि येषां गाङ्गेयैस तॊयैः कृत्यानि थेहिनाम
     गां तयक्त्वा मानवा विप्र थिवि तिष्ठन्ति ते ऽचलाः
 29 पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः
     पश्चाथ गङ्गां निषेवन्ते ते ऽपि यान्त्य उत्तमां गतिम
 30 सनातानां शुचिभिस तॊयैर गाङ्गेयैः परयतात्मनाम
     वयुष्टिर भवति या पुंसां न सा करतुशतैर अपि
 31 यावथ अस्दि मनुष्यस्य गङ्गातॊयेषु तिष्ठति
     तावथ वर्षसहस्राणि सवर्गं पराप्य महीयते
 32 अपहत्य तमस तीव्रं यदा भात्य उथये रविः
     तदापहत्य पाप्मानं भाति गङ्गा जलॊक्षितः
 33 विसॊमा इव शर्वर्यॊ विपुष्पास तरवॊ यदा
     तथ्वथ थेशा थिशश चैव हीना गङ्गा जलैः शुभैः
 34 वर्णाश्रमा यदा सर्वे सवधर्मज्ञानवर्जिताः
     ऋतवश च यदा सॊमास तदा गङ्गां विना जगत
 35 यदा हीनं नभॊ ऽरकेण भूः शैलैः खं च वायुना
     तदा थेशा थिशश चैव गङ्गा हीना न संशयः
 36 तरिषु लॊकेषु ये के चित पराणिनः सर्व एव ते
     तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गा जलैः शुभैः
 37 यस तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम
     गवां निर्हार निर्मुक्ताथ यावकात तथ विशिष्यते
 38 इन्थ्र वरतसहस्रं तु चरेथ यः कायशॊधनम
     पिबेथ यश चापि गङ्गाम्भः समौ सयातां न वा समौ
 39 तिष्ठेथ युगसहस्रं तु पाथेनैकेन यः पुमान
     मासम एकं तु गङ्गायां समौ सयातां न वा समौ
 40 लम्बेतावाक शिरा यस तु युगानाम अयुतं पुमान
     तिष्ठेथ यदेष्टं यश चापि गङ्गायां स विशिष्यते
 41 अग्नौ पराप्तं परधूयेत यदा तूलं थविजॊत्तम
     तदा गङ्गावगाढस्य सर्वं पापं परधूयते
 42 भूतानाम इह सर्वेषां थुःखॊपहत चेतसाम
     गतिम अन्वेषमाणानां न गङ्गा सथृशी गतिः
 43 भवन्ति निर्विषाः सर्पा यदा तार्क्ष्यस्य थर्शनात
     गङ्गाया थर्शनात तथ्वत सर्वपापैः परमुच्यते
 44 अप्रतिष्ठाश च ये के चिथ अधर्मशरणाश च ये
     तेषां परतिष्ठा गङ्गेह शरणं शर्म वर्म च
 45 परकृष्टैर अशुभैर गरस्तान अनेकैः पुरुषाधमान
     पतते नरके गङ्गा संश्रितान परेत्य तारयेत
 46 ते संविभक्ता मुनिभिर नूनं थेवैः स वासवैः
     ये ऽभिगच्छन्ति सततं गङ्गाम अभिगतां सुरैः
 47 विनयाचार हीनाश च अशिवाश च नराधमाः
     ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः
 48 यदा सुराणाम अमृतं पितॄणां च यदा सवधा
     सुधा यदा च नागानां तदा गङ्गा जलं नृणाम
 49 उपासते यदा बाला मातरं कषुधयार्थिताः
     शरेयः कामास तदा गङ्गाम उपासन्तीह थेहिनः
 50 सवायम्भुवं यदास्दानं सर्वेषां शरेष्ठम उच्यते
     सनातानां सरितां शरेष्ठा गङ्गा तथ्वथ इहॊच्यते
 51 यदॊपजीविनां धेनुर थेवाथीनां धरा समृता
     तदॊपजीविनां गङ्गा सर्वप्राणभृताम इह
 52 थेवाः सॊमार्क संस्दानि यदा सत्राथिभिर मखैः
     अमृतान्य उपजीवन्ति तदा गङ्गा जलं नराः
 53 जाह्नवी पुलिनॊत्दाभिः सिकताभिः समुक्षितः
     मन्यते पुरुषॊ ऽऽतमानं थिविष्ठम इव शॊभितम
 54 जाह्नवीतीर संभूतां मृथं मूर्ध्ना विभर्ति यः
     बिभर्ति रूपं सॊ ऽरकस्य तमॊ नाशात सुनिर्मलम
 55 गङ्गॊर्मिभिर अदॊ थिग्धः पुरुषं पवनॊ यथा
     सपृशते सॊ ऽपि पाप्मानं सथ्य एवापमार्जति
 56 वयसनैर अभितप्तस्य नरस्य विनशिष्यतः
     गङ्गा थर्शनजा परीतिर वयसनान्य अपकर्षति
 57 हंसारावैः कॊक रवै रवैर अन्यैर्श च पक्षिणाम
     पस्पर्ध गङ्गा गन्धर्वान पुलिनैश च शिलॊच्चयान
 58 हंसाथिभिः सुबहुभिर विविधैः पक्षिभिर वृताम
     गङ्गां गॊकुलसंबाधां थृष्ट्वा सवर्गॊ ऽपि विस्मृतः
 59 न सा परीतिर थिविष्ठस्य सर्वकामान उपाश्नतः
     अभवथ या परा परीतिर गङ्गायाः पुलिने नृणाम
 60 वान मनः कर्मजैर गरस्तः पापैर अपि पुमान इह
     वीक्ष्य गङ्गां भवेत पूतस तत्र मे नास्ति संशयः
 61 सप्तावरान सप्त परान पितॄंस तेभ्यश च ये परे
     पुमांस तारयते गङ्गां वीक्ष्य सपृष्ट्वावगाह्य च
 62 शरुताभिलषिता थृष्टा सपृष्टा पीतावगाहिता
     गङ्गा तारयते नॄणाम उभौ वंशौ विशेषतः
 63 थर्शनात सपर्शनात पानात तदा गङ्गेति कीर्तनात
     पुनात्य अपुण्यान पुरुषाञ शतशॊ ऽद सहस्रशः
 64 य इच्छेत सफलं जन्म जीवितं शरुतम एव च
     स पितॄंस तर्पयेथ गङ्गाम अभिगम्य सुरांस तदा
 65 न सुतैर न च वित्तेन कर्मणा न च तत फलम
     पराप्नुयात पुरुषॊ ऽतयन्तं गङ्गां पराप्य यथ आप्नुयात
 66 जात्यन्धैर इह तुल्यास ते मृतैः पङ्गुभिर एव च
     समर्दा ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम
 67 भूतभव्य भविष्यज्ञैर महर्षिभिर उपस्दिताम
     थेवैः सेन्थ्रैश च कॊ गङ्गां नॊपसेवेत मानवः
 68 वानप्रस्दैर गृहस्दैश च यतिभिर बरह्म चारिभिः
     विथ्यावथ्भिः शरितां गङ्गां पुमान कॊ नाम नाश्रयेत
 69 उत्क्रामथ्भिश च यः पराणैः परयतः शिष्टसंमतः
     चिन्तयेन मनसा गङ्गां स गतिं परमां लभेत
 70 न भयेभ्यॊ भयं तस्य न पापेभ्यॊ न राजतः
     आ थेहपतनाथ गङ्गाम उपास्ते यः पुमान इह
 71 गगनाथ यां महापुण्यां पतन्तीं वै महेश्वरः
     थधार शिरसा थेवीं ताम एव थिवि सेवते
 72 अलंकृतास तरयॊ लॊकाः पदिभिर विमलैस तरिभिः
     यस तु तस्या जलं सेवेत कृतकृत्यः पुमान भवेत
 73 थिवि जयॊतिर यदाथित्यः पितॄणां चैव चन्थ्रमाः
     थेवेशश च यदा नॄणां गङ्गेह सरितां तदा
 74 मात्रा पित्रा सुतैर थारैर वियुक्तस्य धनेन वा
     न भवेथ धि तदा थुःखं यदा गङ्गा वियॊगजम
 75 नारण्यैर नेष्ट विषयैर न सुतैर न धनागमैः
     तदा परसाथॊ भवति गङ्गां वीक्ष्य यदा नृणाम
 76 पूर्णम इन्थुं यदाथृष्ट्वा नृणां थृष्टिः परसीथति
     गङ्गां तरिपदगां थृष्ट्वा तदा थृष्टिः परसीथति
 77 तथ्भावस तथ्गतमनस तन्निष्ठस तत्परायणः
     गङ्गां यॊ ऽनुगतॊ भक्त्या स तस्याः परियतां वरजेत
 78 भूःस्दैः खस्दैर थिविष्ठैश च भूतैर उच्चावचैर अपि
     गङ्गा विगाह्या सततम एत कार्यतमं सताम
 79 तरिषु लॊकेषु पुण्यत्वाथ गङ्गायाः परदितं यशः
     यत पुत्रान सगरस्यैषा भस्माख्यान अनयथ थिवम
 80 वाय्वीरिताभिः सुमहास्वनाभिर; थरुताभिर अत्यर्द समुच्छ्रिताभिः
     गङ्गॊर्मिभिर भानुमतीभिर इथ्धः; सहस्ररश्मि परतिमॊ विभाति
 81 पयस्विनीं घृतिनीम अत्युथारां; समृथ्धिनीं वेगिणीं थुर्विगाह्याम
     गङ्गां गत्वा यैः शरीरं विसृष्टं; गता धीरास ते विबुधैः समत्वम
 82 अन्धाञ जडान थरव्यहीनांश च गङ्गा; यशस्विनी बृहती विश्वरूपा
     थेवैः सेन्थ्रैर मुनिभिर मानवैश च; निषेविता सर्वकामैर युनक्ति
 83 ऊर्जावतीं मधुमतीं महापुण्यां तरिवर्त्मगाम
     तरिलॊकगॊप्त्रीं ये गङ्गां संश्रितास ते थिवं गताः
 84 यॊ वत्स्यति थरक्ष्यति वापि मर्त्यस; तस्मै परयच्छन्ति सुखानि थेवाः
     तथ्भाविताः सपर्शने थर्शने यस; तस्मै थेवा गतिम इष्टां थिशन्ति
 85 थक्षां पृद्वीं बृहतीं विप्रकृष्टां; शिवाम ऋतां सुरसां सुप्रसन्नाम
     विभावरीं सर्वभूतप्रतिष्ठां; गङ्गां गता ये तरिथिवं गतास ते
 86 खयातिर यस्याः खं थिवं गां च नित्यं; पुरा थिशॊ विथिशश चावतस्दे
     तस्या जलं सेव्य सरिथ वराया; मर्त्याः सर्वे कृतकृत्या भवन्ति
 87 इयं गङ्गेति नियतं परतिष्ठा; गुहस्य रुक्मस्य च गर्भयॊषा
     परातस तरिमार्गा घृतवहा विपाप्मा; गङ्गावतीर्णा वियतॊ विश्वतॊया
 88 सुतावनीध्रस्य हरस्य भार्या; थिवॊ भुवश चापि कक्ष्यानुरूपा
     भव्या पृदिव्या भाविनी भाति राजन; गङ्गा लॊकानां पुण्यथा वै तरयाणाम
 89 मधु परवाहा घृतरागॊथ्धृताभिर; महॊर्मिभिः शॊभिता बराह्मणैश च
     थिवश चयुता शिरसात्ता भवेन; गङ्गावनीध्रास तरिथिवस्य माला
 90 यॊनिर वरिष्ठा विरजा वितन्वी; शुष्मा इरा वारिवहा यशॊथा
     विश्वावती चाकृतिर इष्टिर इथ्धा; गङ्गॊक्षितानां भुवनस्य पन्दाः
 91 कषान्त्या मह्या गॊपने धारणे च; थीप्त्या कृशानॊस तपनस्य चैव
     तुल्या गङ्गा संमता बराह्मणानां; गुहस्य बरह्मण्यतया च नित्यम
 92 ऋषिष्टुतां विष्णुपथीं पुराणीं; सुपुण्यतॊयां मनसापि लॊके
     सर्वात्मना जाह्नवीं ये परपन्नास; ते बरह्मणः सथनं संप्रयाताः
 93 लॊकान इमान नयति या जननीव पुत्रान; सर्वात्मना सर्वगुणॊपपन्ना
     सवस्दानम इष्टम इह बराह्मम अभीप्समानैर; गङ्गा सथैवात्म वशैर उपास्या
 94 उस्रां जुष्टां मिषतीं विश्वतॊयाम; इरां वज्रीं रेवतीं भूधराणाम
     शिष्टाश्रयाम अमृतां बरह्म कान्तां; गङ्गां शरयेथ आत्मवान सिथ्धिकामः
 95 परसाथ्य थेवान स विभून समस्तान; भगीरदस तपसॊग्रेण गङ्गाम
     गाम आनयत ताम अभिगम्य शश्वन; पुमान भयं नेह नामुत्र विथ्यात
 96 उथाहृतः सर्वदा ते गुणानां; मयैक थेशः परसमीक्ष्य बुथ्ध्या
     शक्तिर न मे का चिथ इहास्ति वक्तुं; गुणान सर्वान परिमातुं तदैव
 97 मेरॊः समुथ्रस्य च सर्वरत्नैः; संख्यॊपलानाम उथकस्य वापि
     वक्तुं शक्यं नेह गङ्गा जलानां; गुणाख्यानं परिमातुं तदैव
 98 तस्माथ इमान परया शरथ्धयॊक्तान; गुणान सर्वाञ जाह्नवीजांस तदैव
     भवेथ वाचा मनसा कर्मणा च; भक्त्या युक्तः परया शरथ्थधानः
 99 लॊकान इमांस तरीन यशसा वितत्य; सिथ्धिं पराप्य महतीं तां थुरापाम
     गङ्गा कृतान अचिरेणैव लॊकान; यदेष्टम इष्टान विचरिष्यसि तवम
 100 तव मम च गुणैर महानुभावा; जुषतु मतिं सततं सवधर्मयुक्तैः
    अभिगत जनवत्सला हि गङ्गा; भजति युनक्ति सुखैश च भक्तिमन्तम
101 [भ]
    इति परममतिर गुणान अनेकाञ; शिल रतये तरिपदानुयॊग रूपान
    बहुविधम अनुशास्य तद्य रूपान; गगनतलं थयुतिमान विवेश सिथ्धः
102 शिलवृत्तिस तु सिथ्धस्य वाक्यैः संबॊधितस तथा
    गङ्गाम उपास्य विधिवत सिथ्धिं पराप्तः सुथुर्लभाम
103 तस्मात तवम अपि कौन्तेय भक्त्या परमया युतः
    गङ्गाम अभ्येहि सततं पराप्स्यसे सिथ्धिम उत्तमाम
104 [व]
    शरुत्वेतिहासं भीष्मॊक्तं गङ्गायाः सतवसंयुतम
    युधिष्ठिरः परां परीतिम अगच्छथ भरातृभिः सह
105 इतिहासम इमं पुण्यं शृणुयाथ यः पठेत वा
    गङ्गायाः सतवसंयुक्तं स मुच्येत सर्वकिल्बिषैः
  1 [v]
      bṛhaspatisamaṃ buddhyā kṣamayā brahmaṇaḥ samam
      parākrame śakrasamam ādityasamatejasam
  2 gāṅgeyam arjunenājau nihataṃ bhūri varcasam
      bhrātṛbhiḥ sahito 'nyaiś ca paryupāste yudhiṣṭhiraḥ
  3 śayānaṃ vīraśayane kālākāṅkṣiṇam acyutam
      ājagmur bharataśreṣṭhaṃ draṣṭukāmā maharṣayaḥ
  4 atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ
      aṅgirā gautamo 'gastyaḥ sumatiḥ svāyur ātmavān
  5 viśvāmitraḥ sthūlaśirāḥ saṃvartaḥ pramatir damaḥ
      uśanā bṛhaspatir vyāsaś cyavanaḥ kāśyapo dhruvaḥ
  6 durvāsā jamadagniś ca mārkaṇḍeyo 'tha gālavaḥ
      bharadvājaś ca raibhyaś ca yavakrītas tritas tathā
  7 sthūlākṣaḥ śakalākṣaś ca kaṇvo medhātithiḥ kṛśaḥ
      nāradaḥ parvataś caiva sudhanvāthaikato dvitaḥ
  8 nitambhūr bhuvano dhaumyaḥ śatānando 'kṛtavraṇaḥ
      jāmadagnyas tathā rāmaḥ kāmyaś cety evamādayaḥ
      samāgatā mahātmāno bhīṣmaṃ draṣṭuṃ maharṣayaḥ
  9 teṣāṃ mahātmanāṃ pūjām āgatānāṃ yudhiṣṭhiraḥ
      bhrātṛbhiḥ sahitaś cakre yathāvad anupūrvaśaḥ
  10 te pūjitāḥ sukhāsīnāḥ kathaś cakrur maharṣayaḥ
     bhīṣmāśritāḥ sumadhurāḥ sarvendriyamanoharāḥ
 11 bhīṣmas teṣāṃ kathāḥ śrutvā ṛṣīṇāṃ bhāvitātmanām
     mene divistham ātmānaṃ tuṣṭyā paramayā yutaḥ
 12 tatas te bhīṣmam āmantrya pāṇḍavāṃś ca maharṣayaḥ
     antardhānaṃ gatāḥ sarve sarveṣām eva paśyatām
 13 tān ṛṣīn sumahābhāgān antardhānagatān api
     pāṇḍavās tuṣṭuvuḥ sarve praṇemuś ca muhur muhuḥ
 14 prasannamanasaḥ sarve gāṅgeyaṃ kurusattamāḥ
     upatasthur yathodyantam ādityaṃ mantrakovidāḥ
 15 prabhāvāt tapasas teṣām ṛṣīṇāṃ vīkṣya pāṇḍavāḥ
     prakāśanto diśaḥ sarvā vismayaṃ paramaṃ yayuḥ
 16 mahābhāgyaṃ paraṃ teṣām ṛṣīṇām anucintya te
     pāṃḍavāḥ saha bhīṣmeṇa kathāś cakrus tadāśrayāḥ
 17 kathānte śirasā pādau spṛṣṭvā bhīṣmasya pāṇḍavaḥ
     dharmyaṃ dharmasutaḥ praśnaṃ paryapṛcchad yudhiṣṭhiraḥ
 18 ke deśāḥ ke janapadā āśramāḥ ke ca parvatāḥ
     prakṛṣṭāḥ puṇyataḥ kāś ca jñeyā nadyaḥ pitāmaha
 19 [bh]
     atrāpy udāharantīmam itihāsaṃ purātanam
     śiloñcha vṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira
 20 imāṃ kaś cit parikramya pṛthivīṃ śailabhūṣitām
     asakṛd dvipadāṃ śreṣṭhaḥ śreṣṭhasya gṛhamedhinaḥ
 21 śila vṛtter gṛhaṃ prāptaḥ sa tena vidhinārcitaḥ
     kṛtakṛtya upātiṣṭhat siddhaṃ tam atithiṃ tadā
 22 tau sametya mahātmānau sukhāsīnau kathāḥ śubhāḥ
     cakratur veda saṃbaddhās tac cheṣa kṛtalakṣaṇāḥ
 23 śila vṛttiḥ kathānte tu siddham āmantrya yatnataḥ
     praśnaṃ papraccha medhāvī yan māṃ tvaṃ paripṛcchasi
 24 [ṣilavṛtti]
     ke deśāḥ ke janapadāḥ ke ''śramāḥ ke ca parvatāḥ
     prakṛṣṭāḥ puṇyataḥ kāś ca jñeyā nadyas tad ucyatām
 25 [siddha]
     te deśās te janapadās te ''śramās te ca parvatāḥ
     yeṣāṃ bhāgīrathī gaṅgā madhyenaiti saridvarā
 26 tapasā brahmacaryeṇa yajñais tyāgena vā punaḥ
     gatiṃ tāṃ na labhej jantur gaṅgāṃ saṃsevya yāṃ labhet
 27 spṛṣṭāni yeṣāṃ gāṅgeyais toyair gātrāṇi dehinām
     nyastāni na punas teṣāṃ tyāgaḥ svargād vidhīyate
 28 sarvāṇi yeṣāṃ gāṅgeyais toyaiḥ kṛtyāni dehinām
     gāṃ tyaktvā mānavā vipra divi tiṣṭhanti te 'calāḥ
 29 pūrve vayasi karmāṇi kṛtvā pāpāni ye narāḥ
     paścād gaṅgāṃ niṣevante te 'pi yānty uttamāṃ gatim
 30 snātānāṃ śucibhis toyair gāṅgeyaiḥ prayatātmanām
     vyuṣṭir bhavati yā puṃsāṃ na sā kratuśatair api
 31 yāvad asthi manuṣyasya gaṅgātoyeṣu tiṣṭhati
     tāvad varṣasahasrāṇi svargaṃ prāpya mahīyate
 32 apahatya tamas tīvraṃ yathā bhāty udaye raviḥ
     tathāpahatya pāpmānaṃ bhāti gaṅgā jalokṣitaḥ
 33 visomā iva śarvaryo vipuṣpās taravo yathā
     tadvad deśā diśaś caiva hīnā gaṅgā jalaiḥ śubhaiḥ
 34 varṇāśramā yathā sarve svadharmajñānavarjitāḥ
     ṛtavaś ca yathā somās tathā gaṅgāṃ vinā jagat
 35 yathā hīnaṃ nabho 'rkeṇa bhūḥ śailaiḥ khaṃ ca vāyunā
     tathā deśā diśaś caiva gaṅgā hīnā na saṃśayaḥ
 36 triṣu lokeṣu ye ke cit prāṇinaḥ sarva eva te
     tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgā jalaiḥ śubhaiḥ
 37 yas tu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam
     gavāṃ nirhāra nirmuktād yāvakāt tad viśiṣyate
 38 indra vratasahasraṃ tu cared yaḥ kāyaśodhanam
     pibed yaś cāpi gaṅgāmbhaḥ samau syātāṃ na vā samau
 39 tiṣṭhed yugasahasraṃ tu pādenaikena yaḥ pumān
     māsam ekaṃ tu gaṅgāyāṃ samau syātāṃ na vā samau
 40 lambetāvāk śirā yas tu yugānām ayutaṃ pumān
     tiṣṭhed yatheṣṭaṃ yaś cāpi gaṅgāyāṃ sa viśiṣyate
 41 agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama
     tathā gaṅgāvagāḍhasya sarvaṃ pāpaṃ pradhūyate
 42 bhūtānām iha sarveṣāṃ duḥkhopahata cetasām
     gatim anveṣamāṇānāṃ na gaṅgā sadṛśī gatiḥ
 43 bhavanti nirviṣāḥ sarpā yathā tārkṣyasya darśanāt
     gaṅgāyā darśanāt tadvat sarvapāpaiḥ pramucyate
 44 apratiṣṭhāś ca ye ke cid adharmaśaraṇāś ca ye
     teṣāṃ pratiṣṭhā gaṅgeha śaraṇaṃ śarma varma ca
 45 prakṛṣṭair aśubhair grastān anekaiḥ puruṣādhamān
     patate narake gaṅgā saṃśritān pretya tārayet
 46 te saṃvibhaktā munibhir nūnaṃ devaiḥ sa vāsavaiḥ
     ye 'bhigacchanti satataṃ gaṅgām abhigatāṃ suraiḥ
 47 vinayācāra hīnāś ca aśivāś ca narādhamāḥ
     te bhavanti śivā vipra ye vai gaṅgāṃ samāśritāḥ
 48 yathā surāṇām amṛtaṃ pitṝṇāṃ ca yathā svadhā
     sudhā yathā ca nāgānāṃ tathā gaṅgā jalaṃ nṛṇām
 49 upāsate yathā bālā mātaraṃ kṣudhayārditāḥ
     śreyaḥ kāmās tathā gaṅgām upāsantīha dehinaḥ
 50 svāyambhuvaṃ yathāsthānaṃ sarveṣāṃ śreṣṭham ucyate
     snātānāṃ saritāṃ śreṣṭhā gaṅgā tadvad ihocyate
 51 yathopajīvināṃ dhenur devādīnāṃ dharā smṛtā
     tathopajīvināṃ gaṅgā sarvaprāṇabhṛtām iha
 52 devāḥ somārka saṃsthāni yathā satrādibhir makhaiḥ
     amṛtāny upajīvanti tathā gaṅgā jalaṃ narāḥ
 53 jāhnavī pulinotthābhiḥ sikatābhiḥ samukṣitaḥ
     manyate puruṣo ''tmānaṃ diviṣṭham iva śobhitam
 54 jāhnavītīra saṃbhūtāṃ mṛdaṃ mūrdhnā vibharti yaḥ
     bibharti rūpaṃ so 'rkasya tamo nāśāt sunirmalam
 55 gaṅgormibhir atho digdhaḥ puruṣaṃ pavano yadā
     spṛśate so 'pi pāpmānaṃ sadya evāpamārjati
 56 vyasanair abhitaptasya narasya vinaśiṣyataḥ
     gaṅgā darśanajā prītir vyasanāny apakarṣati
 57 haṃsārāvaiḥ koka ravai ravair anyairś ca pakṣiṇām
     paspardha gaṅgā gandharvān pulinaiś ca śiloccayān
 58 haṃsādibhiḥ subahubhir vividhaiḥ pakṣibhir vṛtām
     gaṅgāṃ gokulasaṃbādhāṃ dṛṣṭvā svargo 'pi vismṛtaḥ
 59 na sā prītir diviṣṭhasya sarvakāmān upāśnataḥ
     abhavad yā parā prītir gaṅgāyāḥ puline nṛṇām
 60 vān manaḥ karmajair grastaḥ pāpair api pumān iha
     vīkṣya gaṅgāṃ bhavet pūtas tatra me nāsti saṃśayaḥ
 61 saptāvarān sapta parān pitṝṃs tebhyaś ca ye pare
     pumāṃs tārayate gaṅgāṃ vīkṣya spṛṣṭvāvagāhya ca
 62 śrutābhilaṣitā dṛṣṭā spṛṣṭā pītāvagāhitā
     gaṅgā tārayate nṝṇām ubhau vaṃśau viśeṣataḥ
 63 darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt
     punāty apuṇyān puruṣāñ śataśo 'tha sahasraśaḥ
 64 ya icchet saphalaṃ janma jīvitaṃ śrutam eva ca
     sa pitṝṃs tarpayed gaṅgām abhigamya surāṃs tathā
 65 na sutair na ca vittena karmaṇā na ca tat phalam
     prāpnuyāt puruṣo 'tyantaṃ gaṅgāṃ prāpya yad āpnuyāt
 66 jātyandhair iha tulyās te mṛtaiḥ paṅgubhir eva ca
     samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām
 67 bhūtabhavya bhaviṣyajñair maharṣibhir upasthitām
     devaiḥ sendraiś ca ko gaṅgāṃ nopaseveta mānavaḥ
 68 vānaprasthair gṛhasthaiś ca yatibhir brahma cāribhiḥ
     vidyāvadbhiḥ śritāṃ gaṅgāṃ pumān ko nāma nāśrayet
 69 utkrāmadbhiś ca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ
     cintayen manasā gaṅgāṃ sa gatiṃ paramāṃ labhet
 70 na bhayebhyo bhayaṃ tasya na pāpebhyo na rājataḥ
     ā dehapatanād gaṅgām upāste yaḥ pumān iha
 71 gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ
     dadhāra śirasā devīṃ tām eva divi sevate
 72 alaṃkṛtās trayo lokāḥ pathibhir vimalais tribhiḥ
     yas tu tasyā jalaṃ sevet kṛtakṛtyaḥ pumān bhavet
 73 divi jyotir yathādityaḥ pitṝṇāṃ caiva candramāḥ
     deveśaś ca yathā nṝṇāṃ gaṅgeha saritāṃ tathā
 74 mātrā pitrā sutair dārair viyuktasya dhanena vā
     na bhaved dhi tathā duḥkhaṃ yathā gaṅgā viyogajam
 75 nāraṇyair neṣṭa viṣayair na sutair na dhanāgamaiḥ
     tathā prasādo bhavati gaṅgāṃ vīkṣya yathā nṛṇām
 76 pūrṇam induṃ yathādṛṣṭvā nṛṇāṃ dṛṣṭiḥ prasīdati
     gaṅgāṃ tripathagāṃ dṛṣṭvā tathā dṛṣṭiḥ prasīdati
 77 tadbhāvas tadgatamanas tanniṣṭhas tatparāyaṇaḥ
     gaṅgāṃ yo 'nugato bhaktyā sa tasyāḥ priyatāṃ vrajet
 78 bhūḥsthaiḥ khasthair diviṣṭhaiś ca bhūtair uccāvacair api
     gaṅgā vigāhyā satatam eta kāryatamaṃ satām
 79 triṣu lokeṣu puṇyatvād gaṅgāyāḥ prathitaṃ yaśaḥ
     yat putrān sagarasyaiṣā bhasmākhyān anayad divam
 80 vāyvīritābhiḥ sumahāsvanābhir; drutābhir atyartha samucchritābhiḥ
     gaṅgormibhir bhānumatībhir iddhaḥ; sahasraraśmi pratimo vibhāti
 81 payasvinīṃ ghṛtinīm atyudārāṃ; samṛddhinīṃ vegiṇīṃ durvigāhyām
     gaṅgāṃ gatvā yaiḥ śarīraṃ visṛṣṭaṃ; gatā dhīrās te vibudhaiḥ samatvam
 82 andhāñ jaḍān dravyahīnāṃś ca gaṅgā; yaśasvinī bṛhatī viśvarūpā
     devaiḥ sendrair munibhir mānavaiś ca; niṣevitā sarvakāmair yunakti
 83 ūrjāvatīṃ madhumatīṃ mahāpuṇyāṃ trivartmagām
     trilokagoptrīṃ ye gaṅgāṃ saṃśritās te divaṃ gatāḥ
 84 yo vatsyati drakṣyati vāpi martyas; tasmai prayacchanti sukhāni devāḥ
     tadbhāvitāḥ sparśane darśane yas; tasmai devā gatim iṣṭāṃ diśanti
 85 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ; śivām ṛtāṃ surasāṃ suprasannām
     vibhāvarīṃ sarvabhūtapratiṣṭhāṃ; gaṅgāṃ gatā ye tridivaṃ gatās te
 86 khyātir yasyāḥ khaṃ divaṃ gāṃ ca nityaṃ; purā diśo vidiśaś cāvatasthe
     tasyā jalaṃ sevya sarid varāyā; martyāḥ sarve kṛtakṛtyā bhavanti
 87 iyaṃ gaṅgeti niyataṃ pratiṣṭhā; guhasya rukmasya ca garbhayoṣā
     prātas trimārgā ghṛtavahā vipāpmā; gaṅgāvatīrṇā viyato viśvatoyā
 88 sutāvanīdhrasya harasya bhāryā; divo bhuvaś cāpi kakṣyānurūpā
     bhavyā pṛthivyā bhāvinī bhāti rājan; gaṅgā lokānāṃ puṇyadā vai trayāṇām
 89 madhu pravāhā ghṛtarāgoddhṛtābhir; mahormibhiḥ śobhitā brāhmaṇaiś ca
     divaś cyutā śirasāttā bhavena; gaṅgāvanīdhrās tridivasya mālā
 90 yonir variṣṭhā virajā vitanvī; śuṣmā irā vārivahā yaśodā
     viśvāvatī cākṛtir iṣṭir iddhā; gaṅgokṣitānāṃ bhuvanasya panthāḥ
 91 kṣāntyā mahyā gopane dhāraṇe ca; dīptyā kṛśānos tapanasya caiva
     tulyā gaṅgā saṃmatā brāhmaṇānāṃ; guhasya brahmaṇyatayā ca nityam
 92 ṛṣiṣṭutāṃ viṣṇupadīṃ purāṇīṃ; supuṇyatoyāṃ manasāpi loke
     sarvātmanā jāhnavīṃ ye prapannās; te brahmaṇaḥ sadanaṃ saṃprayātāḥ
 93 lokān imān nayati yā jananīva putrān; sarvātmanā sarvaguṇopapannā
     svasthānam iṣṭam iha brāhmam abhīpsamānair; gaṅgā sadaivātma vaśair upāsyā
 94 usrāṃ juṣṭāṃ miṣatīṃ viśvatoyām; irāṃ vajrīṃ revatīṃ bhūdharāṇām
     śiṣṭāśrayām amṛtāṃ brahma kāntāṃ; gaṅgāṃ śrayed ātmavān siddhikāmaḥ
 95 prasādya devān sa vibhūn samastān; bhagīrathas tapasogreṇa gaṅgām
     gām ānayat tām abhigamya śaśvan; pumān bhayaṃ neha nāmutra vidyāt
 96 udāhṛtaḥ sarvathā te guṇānāṃ; mayaika deśaḥ prasamīkṣya buddhyā
     śaktir na me kā cid ihāsti vaktuṃ; guṇān sarvān parimātuṃ tathaiva
 97 meroḥ samudrasya ca sarvaratnaiḥ; saṃkhyopalānām udakasya vāpi
     vaktuṃ śakyaṃ neha gaṅgā jalānāṃ; guṇākhyānaṃ parimātuṃ tathaiva
 98 tasmād imān parayā śraddhayoktān; guṇān sarvāñ jāhnavījāṃs tathaiva
     bhaved vācā manasā karmaṇā ca; bhaktyā yuktaḥ parayā śraddadhānaḥ
 99 lokān imāṃs trīn yaśasā vitatya; siddhiṃ prāpya mahatīṃ tāṃ durāpām
     gaṅgā kṛtān acireṇaiva lokān; yatheṣṭam iṣṭān vicariṣyasi tvam
 100 tava mama ca guṇair mahānubhāvā; juṣatu matiṃ satataṃ svadharmayuktaiḥ
    abhigata janavatsalā hi gaṅgā; bhajati yunakti sukhaiś ca bhaktimantam
101 [bh]
    iti paramamatir guṇān anekāñ; śila rataye tripathānuyoga rūpān
    bahuvidham anuśāsya tathya rūpān; gaganatalaṃ dyutimān viveśa siddhaḥ
102 śilavṛttis tu siddhasya vākyaiḥ saṃbodhitas tadā
    gaṅgām upāsya vidhivat siddhiṃ prāptaḥ sudurlabhām
103 tasmāt tvam api kaunteya bhaktyā paramayā yutaḥ
    gaṅgām abhyehi satataṃ prāpsyase siddhim uttamām
104 [v]
    śrutvetihāsaṃ bhīṣmoktaṃ gaṅgāyāḥ stavasaṃyutam
    yudhiṣṭhiraḥ parāṃ prītim agacchad bhrātṛbhiḥ saha
105 itihāsam imaṃ puṇyaṃ śṛṇuyād yaḥ paṭheta vā
    gaṅgāyāḥ stavasaṃyuktaṃ sa mucyet sarvakilbiṣaiḥ


Next: Chapter 28