1
[धृ] तस्मिन विनिहते वीरे सैन्धवे सव्यसाचिना मामका यथ अकुर्वन्त तन ममाचक्ष्व संजय 2 [स] सैन्धवं निहतं थृष्ट्वा रणे पार्देन मारिष अमर्षवशम आपन्नः कृपः शारथतस तथा 3 महता शरवर्षेण पाण्डवं समवाकिरत थरौणिश चाभ्यथ्रवत पार्दं रदम आस्दाय फल्गुनम 4 ताव एनं रदिनां शरेष्ठौ रदाभ्यां रदसत्तमम उभाव उभयतस तीक्ष्णैर विशिखैर अभ्यवर्षताम 5 स तदा शरवर्षाभ्यां सुमहथ्भ्यां महाभुजः पीड्यमानः पराम आर्तिम अगमथ रदिनां वरः 6 सॊ ऽजिघांसुर गुरुं संख्ये गुरॊस तनयम एव च चकाराचार्यकं तत्र कुन्तीपुत्रॊ धनंजयः 7 अस्त्रैर अस्त्राणि संवार्य थरौणेः शारथ्वतस्य च मन्थवेगान इषूंस ताभ्याम अजिघांसुर अवासृजत 8 ते नातिभृशम अभ्यघ्नन विशिखा जय चॊथिताः बहुत्वात तु पराम आर्तिं शराणां ताव अगच्छताम 9 अद शारथ्वतॊ राजन कौन्तेय शरपीडितः अवासीथथ रदॊपस्दे मूर्च्छाम अभिजगाम ह 10 विह्वलं तम अभिज्ञाय भर्तारं शरपीडितम हतॊ ऽयम इति च जञात्वा सारस्दिस तम अपावहत 11 तस्मिन सन्ने महाराजे कृपे शारथ्वते युधि अश्वत्दामाप्य अपायासीत पाण्डवेयाथ रदान्तरम 12 थृष्ट्वा शारथ्वतं पार्दॊ मूर्छितं शरपीडितम रद एव महेष्वासः कृपणं पर्यथेवयत 13 पश्यन्न इथं महाप्राज्ञः कषत्ता राजानम उक्तवान कुलान्त करणे पापे जातमात्रे सुयॊधने 14 नीयतां परलॊकाय साध्व अयं कुलपांसनः अस्माथ धि कुरुमुख्यानां महथ उत्पत्स्यते भयम 15 तथ इथं समनुप्राप्तं वचनं सत्यवाथिनः तत कृते हय अथ्य पश्यामि शरतल्पगतं कृपम 16 धिग अस्तु कषात्रम आचारं धिग अस्तु बलपौरुषम कॊ हि बराह्मणम आचार्यम अभिथ्रुह्येत माथृशः 17 ऋषिपुत्रॊ ममाचार्यॊ थरॊणस्य थयितः सखा एष शेते रदॊपस्दे मथ्बाणैर अभिपीडितः 18 अकामयानेन मया विशिखैर अर्थितॊ भृशम अवासीथथ रदॊपस्दे पराणान पीडयतीव मे 19 शरार्थितेन हि मया परेक्षणीयॊ महाथ्युतिः परत्यस्तॊ बहुभिर बाणैर थश धर्मगतेन वै 20 शॊचयत्य एष निपतन भूयः पुत्रवधाथ धि माम कृपणं सवरदे सन्नं पश्य कृष्ण यदागतम 21 उपाकृत्य तु वै विथ्याम आचार्येभ्यॊ नरर्षभाः परयच्छन्तीह ये कामान थेवत्वम उपयान्ति ते 22 ये तु विथ्याम उपाथाय गुरुभ्यः पुरुषाधमाः घनन्ति तान एव थुर्वृत्तास ते वै निरयगामिनः 23 तथ इथं नरकायाथ्य कृतं कर्म मया धरुवम आचार्यं शरवर्षेण रदे साथयता कृपम 24 यत तत पूर्वम उपाकुर्वन्न अस्त्रं माम अब्रवीत कृपः न कदं चन कौरव्य परहर्तव्यं गुराव इति 25 तथ इथं वचनं साधॊर आचार्यस्य महात्मनः नानुष्ठितं तम एवाजौ विशिखैर अभिवर्षताण 26 नमस तस्मै सुपूज्याय गौतमायापलायिने धिग अस्तु मम वार्ष्णेय यॊ हय अस्मै परहराम्य अहम 27 तदा विपलमाने तु सव्यसाचिनि तं परति सैधवं निहतं थृष्ट्वा राधेयः समुपाथ्रवत 28 उपायान्तं तु राधेयं थृष्ट्वा पार्दॊ महारदः परहसन थेवकीपुत्रम इथं वचनम अब्रवीत 29 एष परयात्य आधिरदिः सात्यकेः सयन्थनं परति न मृष्यति हतं नूनं भूरिश्रवसम आहवे 30 यत्र यात्य एष तत्र तवं चॊथयाश्वाञ जनार्थन मा सॊमथत्तेः पथवीं गमयेत सात्यकिं वृषः 31 एकम उक्तॊ महाबाहुः केशवः सव्यसाचिना परत्युवाच महातेजाः कालयुक्तम इथं वचः 32 अलम एष महाबाहुः कर्णायैकॊ हि पाण्डव किं पुनर थरौपथेयाभ्यां सहितः साततर्षभः 33 न च तावत कषमः पार्द कर्णेन तव संगरः परज्वलन्ती महॊल्केव तिष्ठत्य अस्य हि वासवी तवथर्दं पूज्यमानैषा रक्ष्यते परवीरहन 34 अतः कर्णः परयात्व अत्र सात्वतस्य यदातदा अहं जञास्यामि कौरव्य कालम अस्य थुरात्मनः 35 [धव] यॊ ऽसौ कर्णेन वीरेण वार्ष्णेयस्य समागमः हते तु भूरिश्रवसि सन्धवे च निपातिते 36 सात्यकिश चापि विरदः कं समारूढवान रदम चक्ररक्षौ च पाञ्चाल्यौ तन ममाचक्ष्व संजय 37 [स] हन्त ते वर्णयिष्यामि यदावृत्तं महारणे शुश्रूषस्व सदिरॊ भूत्वा थुराचरितम आत्मनः 38 पूर्वम एव हि कृष्णस्य मनॊगतम इथं परभॊ विजेतव्यॊ यदा वीरः सात्यकिर यूपकेतुना 39 अतीतानागतं राजन स हि वेत्ति जनार्थनः अतः सूतं समाहूय थारुकं संथिथेश ह रदॊ मे युज्यतां काल्यम इति राजन महाबलः 40 न हि थेवा न गन्धर्वा न यक्षॊरग राक्षसाः मानवा वा विजेतारः कृष्णयॊः सन्ति के चन 41 पितामहपुरॊगाश च थेवाः सिथ्धाश च तं विथुः तयॊः परभावम अतुलं शृणु युथ्धं च तथ यदा 42 सात्यकिं विरदं थृष्ट्वा कर्णं चाभ्युथ्यतायुधम थध्मौ शङ्खं महावेगम आर्षभेणाद माधवः 43 थारुकॊ ऽवेत्य संथेशं शरुत्वा शङ्खस्य च सवनम रदम अन्वानयत तस्मै सुपर्णॊच्छ्रितकेतनम 44 स केशवस्यानुमते रदं थारुक संयुतम आरुरॊह शिनेः पौत्रॊ जवलनाथित्य संनिभम 45 कामगैः सैन्यसुग्रीव मेघपुष्पबलाहकैः हयॊथग्रैर महावेगैर हेमभाण्ड विभूषितैः 46 युक्तं समारुह्य च तं विमानप्रतिमं रदम अभ्यथ्रवत राधेयं परवपन सायकान बहून 47 चक्ररक्षाव अपि तथा युधामन्यूत्तमौजसौ धनंजयरदं हित्वा राधेयं परत्युथीययुः 48 राधेयॊ ऽपि महाराज शरवर्षं समुत्सृजन अभ्यथ्रवत सुसंक्रुथ्धॊ रणे शैनेयम अच्युतम 49 नैव थैवं न गान्धर्वं नासुरॊरग राक्षसम ताथृशं भुवि वा युथ्धं थिवि वा शरुतम इत्य उत 50 उपारमत तत सैन्यं स रदाश्वनरथ्विपम तयॊर थृष्ट्वा महाराज कर्म संमूढचेतनम 51 सर्वे च समपश्यन्त तथ युथ्धम अतिमानुषम तयॊर नृवरयॊ राजन सारद्यं थारुकस्य च 52 गतप्रत्यागतावृत्तैर मण्डलैः संनिवर्तनैः सारदेस तु रदस्दस्य काश्यपेयस्य विस्मिताः 53 नभस्तलगताश चैव थेवगन्धर्वथानवाः अतीवावहिता थरष्टुं कर्ण शैनेययॊ रणम 54 मित्रार्दे तौ पराक्रान्तौ सपर्धिनौ शुष्मिणौ रणे कर्णश चामरसंकाशॊ युयुधानश च सात्यकिः 55 अन्यॊन्यं तौ महाराज शरवर्षैर अवर्षताम परममाद शिनेः पौत्रं कर्णः सायकवृष्टिभिः 56 अमृष्यमाणॊ निधनं कौरव्य जलसंधयॊः कर्णः शॊकसमाविष्टॊ महॊरग इव शवसन 57 स शैनेयं रणे करुथ्धः परथहन्न इव चक्षुषा अभ्यथ्रवत वेगेन पुनः पुनर अरिंथमः 58 तं तु संप्रेक्ष्य संक्रुथ्धं सात्यकिः परत्यविध्यत महता शरवर्षेण गजः परतिगजं यदा 59 तौ समेत्य नरव्याघ्रौ वयाघ्राव इव तरस्विनौ अन्यॊन्यं संततक्षाते रणे ऽनुपम विक्रमौ 60 ततः कर्णं शिनेः पौत्रः सर्वपारशवैः शरैः विभेथ सर्वगात्रेषु पुनः पुनर अरिंथमः 61 सारदिं चास्य भल्लेन रदनीडाथ अपाहरत अश्वांश च चतुरः शवेतान निजघ्ने निशितैः शरैः 62 छित्त्वा धवजं शतेनैव शतधा पुरुषर्षभः चकार विरदं कर्णं तव पुत्रस्य पश्यतः 63 ततॊ विमनसॊ राजंस तावकाः पुरुषर्षभाः वृषसेनः कर्णसुतः शल्यॊ मथ्राधिपस तदा 64 थरॊणपुत्रश च शैनेयं सर्वतः पर्यवारयन ततः पर्याकुलं सर्वं न पराज्ञायत किं चन 65 तदा सात्यकिना वीरे विरदे सूतजे कृते हाहाकारस ततॊ राजन सर्वसैन्येषु चाभवत 66 कर्णॊ ऽपि विह्वलॊ राजन सात्वतेनार्थितः शरैः थुर्यॊधन रदं राजन्न आरुरॊह विनिःश्वसन 67 मानयंस तव पुत्रस्य बाल्यात परभृति सौहृथम कृतां राज्यप्रथानेन परतिज्ञां परिपालयन 68 तदा तु विरदे कर्णे पुत्रान वै तव पार्दिव थुःशासन मुखाञ शूरान नावधीत सात्यकिर वशी 69 रक्षन परतिज्ञां च पुनर भीमसेनकृतां पुरा विरदान विह्वलांश चक्रे न तु पराणैर वययॊजयत 70 भीमसेनेन तु वधः पुत्राणां ते परतिश्रुतः पुनर्थ्यूते च पार्देन वधः कर्णस्य शंश्रुतः 71 वधे तव अकुर्वन यत्नं ते तस्य कर्ण मुखास तथा नाशक्नुवंश च तं हन्तुं सात्यकिं परवरा रदाः 72 थरौणिश च कृतवर्मा च तदैवान्ये महारदाः निर्जिता धनुषैकेन शतशः कषत्रियर्षभाः काङ्क्षता परलॊकं च धर्मराजस्य च परियम 73 कृष्णयॊः सथृशॊ वीर्ये सात्यकिः शत्रुकर्शनः कृष्णॊ वापि भवेल लॊके पार्दॊ वापि धनुर्धरः शैनेयॊ वा नरव्यघ्रश चतुर्दॊ नॊपलभ्यते 74 [धृ] अजय्यं रदम आस्दाय वासुथेवस्य सात्यकिः विरदं कृतवान कर्णं वासुथेव समॊ युवा 75 थारुकेण समायुक्तं सवबाहुबलथर्पितः कच चिथ अन्यं समारूढः स रदं सात्यकिः पुनः 76 एतथ इच्छाम्य अहं शरॊतुं कुशलॊ हय असि भाषितुम असह्यं तम अहं मन्ये तन ममाचक्ष्व संजय 77 [स] शृणु राजन यदा तस्य रदम अन्यं महामतिः थारुकस्यानुजस तूर्णं कल्पना विधिकल्पितम 78 आयसैः काञ्चनैर्श चापि पट्टैर नथ्धं स कूबरम तारा सहस्रखचितं सिंहध्वजपताकिनम 79 अश्वैर वातजवैर युक्तं हेमभाण्ड परिच्छथैः पाण्डुरैर इन्थुसंकाशैः सर्वशब्थातिगैर थृढैः 80 चित्रकाञ्चनसंनाहैर वाजिमुख्यैर विशां पते घण्टाजालाकुल रवं शक्तितॊमरविथ्युतम 81 वृतं सांग्रामिकैर थरव्यैर बहुशस्त्रपरिच्छथम रदं संपाथयाम आस मेघगम्भीर निस्वनम 82 तं समारुह्य शैनेयस तव सैन्यम उपाथ्रवत थारुकॊ ऽपि यदाकामं परययौ केशवान्तिकम 83 कर्णस्यापि महाराज शङ्खगॊक्षीर पाण्डुरैः चित्रकाञ्चनसंनाहैः सथश्वैर वेगवत्तरैः 84 हेमकक्ष्या धवजॊपेतं कॢप्त यन्त्रपताकिनम अग्र्यं रदं सुयन्तारं बहुशस्त्रपरिच्छथम 85 उपाजह्रुस तम आस्दाय कर्णॊ ऽपय अभ्यथ्रवथ रिपून एतत ते सरम आख्यातं यन मां तवं परिपृच्छसि 86 भूयश चापि निबॊध तवं तवापनयजं कषयम एकत्रिंशत तव सुता भीमसेनेन पातिताः 87 थुर्मुखं परमुखे कृत्वा सततं चित्रयॊधिनम शतशॊ निहताः शूराः सात्वतेनार्जुनेन च 88 भीष्मं परमुखतः कृत्वा भगथत्तं च मारिष एवम एष कषयॊ वृत्तॊ राजन थुर्मन्त्रिते तव |
1
[dhṛ] tasmin vinihate vīre saindhave savyasācinā māmakā yad akurvanta tan mamācakṣva saṃjaya 2 [s] saindhavaṃ nihataṃ dṛṣṭvā raṇe pārthena māriṣa amarṣavaśam āpannaḥ kṛpaḥ śāradatas tadā 3 mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat drauṇiś cābhyadravat pārthaṃ ratham āsthāya phalgunam 4 tāv enaṃ rathināṃ śreṣṭhau rathābhyāṃ rathasattamam ubhāv ubhayatas tīkṣṇair viśikhair abhyavarṣatām 5 sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ pīḍyamānaḥ parām ārtim agamad rathināṃ varaḥ 6 so 'jighāṃsur guruṃ saṃkhye guros tanayam eva ca cakārācāryakaṃ tatra kuntīputro dhanaṃjayaḥ 7 astrair astrāṇi saṃvārya drauṇeḥ śāradvatasya ca mandavegān iṣūṃs tābhyām ajighāṃsur avāsṛjat 8 te nātibhṛśam abhyaghnan viśikhā jaya coditāḥ bahutvāt tu parām ārtiṃ śarāṇāṃ tāv agacchatām 9 atha śāradvato rājan kaunteya śarapīḍitaḥ avāsīdad rathopasthe mūrcchām abhijagāma ha 10 vihvalaṃ tam abhijñāya bhartāraṃ śarapīḍitam hato 'yam iti ca jñātvā sārasthis tam apāvahat 11 tasmin sanne mahārāje kṛpe śāradvate yudhi aśvatthāmāpy apāyāsīt pāṇḍaveyād rathāntaram 12 dṛṣṭvā śāradvataṃ pārtho mūrchitaṃ śarapīḍitam ratha eva maheṣvāsaḥ kṛpaṇaṃ paryadevayat 13 paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān kulānta karaṇe pāpe jātamātre suyodhane 14 nīyatāṃ paralokāya sādhv ayaṃ kulapāṃsanaḥ asmād dhi kurumukhyānāṃ mahad utpatsyate bhayam 15 tad idaṃ samanuprāptaṃ vacanaṃ satyavādinaḥ tat kṛte hy adya paśyāmi śaratalpagataṃ kṛpam 16 dhig astu kṣātram ācāraṃ dhig astu balapauruṣam ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ 17 ṛṣiputro mamācāryo droṇasya dayitaḥ sakhā eṣa śete rathopasthe madbāṇair abhipīḍitaḥ 18 akāmayānena mayā viśikhair ardito bhṛśam avāsīdad rathopasthe prāṇān pīḍayatīva me 19 śarārditena hi mayā prekṣaṇīyo mahādyutiḥ pratyasto bahubhir bāṇair daśa dharmagatena vai 20 śocayaty eṣa nipatan bhūyaḥ putravadhād dhi mām kṛpaṇaṃ svarathe sannaṃ paśya kṛṣṇa yathāgatam 21 upākṛtya tu vai vidyām ācāryebhyo nararṣabhāḥ prayacchantīha ye kāmān devatvam upayānti te 22 ye tu vidyām upādāya gurubhyaḥ puruṣādhamāḥ ghnanti tān eva durvṛttās te vai nirayagāminaḥ 23 tad idaṃ narakāyādya kṛtaṃ karma mayā dhruvam ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam 24 yat tat pūrvam upākurvann astraṃ mām abravīt kṛpaḥ na kathaṃ cana kauravya prahartavyaṃ gurāv iti 25 tad idaṃ vacanaṃ sādhor ācāryasya mahātmanaḥ nānuṣṭhitaṃ tam evājau viśikhair abhivarṣatāṇ 26 namas tasmai supūjyāya gautamāyāpalāyine dhig astu mama vārṣṇeya yo hy asmai praharāmy aham 27 tathā vipalamāne tu savyasācini taṃ prati saidhavaṃ nihataṃ dṛṣṭvā rādheyaḥ samupādravat 28 upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ prahasan devakīputram idaṃ vacanam abravīt 29 eṣa prayāty ādhirathiḥ sātyakeḥ syandanaṃ prati na mṛṣyati hataṃ nūnaṃ bhūriśravasam āhave 30 yatra yāty eṣa tatra tvaṃ codayāśvāñ janārdana mā somadatteḥ padavīṃ gamayet sātyakiṃ vṛṣaḥ 31 ekam ukto mahābāhuḥ keśavaḥ savyasācinā pratyuvāca mahātejāḥ kālayuktam idaṃ vacaḥ 32 alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava kiṃ punar draupadeyābhyāṃ sahitaḥ sātatarṣabhaḥ 33 na ca tāvat kṣamaḥ pārtha karṇena tava saṃgaraḥ prajvalantī maholkeva tiṣṭhaty asya hi vāsavī tvadarthaṃ pūjyamānaiṣā rakṣyate paravīrahan 34 ataḥ karṇaḥ prayātv atra sātvatasya yathātathā ahaṃ jñāsyāmi kauravya kālam asya durātmanaḥ 35 [dhv] yo 'sau karṇena vīreṇa vārṣṇeyasya samāgamaḥ hate tu bhūriśravasi sandhave ca nipātite 36 sātyakiś cāpi virathaḥ kaṃ samārūḍhavān ratham cakrarakṣau ca pāñcālyau tan mamācakṣva saṃjaya 37 [s] hanta te varṇayiṣyāmi yathāvṛttaṃ mahāraṇe śuśrūṣasva sthiro bhūtvā durācaritam ātmanaḥ 38 pūrvam eva hi kṛṣṇasya manogatam idaṃ prabho vijetavyo yathā vīraḥ sātyakir yūpaketunā 39 atītānāgataṃ rājan sa hi vetti janārdanaḥ ataḥ sūtaṃ samāhūya dārukaṃ saṃdideśa ha ratho me yujyatāṃ kālyam iti rājan mahābalaḥ 40 na hi devā na gandharvā na yakṣoraga rākṣasāḥ mānavā vā vijetāraḥ kṛṣṇayoḥ santi ke cana 41 pitāmahapurogāś ca devāḥ siddhāś ca taṃ viduḥ tayoḥ prabhāvam atulaṃ śṛṇu yuddhaṃ ca tad yathā 42 sātyakiṃ virathaṃ dṛṣṭvā karṇaṃ cābhyudyatāyudham dadhmau śaṅkhaṃ mahāvegam ārṣabheṇātha mādhavaḥ 43 dāruko 'vetya saṃdeśaṃ śrutvā śaṅkhasya ca svanam ratham anvānayat tasmai suparṇocchritaketanam 44 sa keśavasyānumate rathaṃ dāruka saṃyutam āruroha śineḥ pautro jvalanāditya saṃnibham 45 kāmagaiḥ sainyasugrīva meghapuṣpabalāhakaiḥ hayodagrair mahāvegair hemabhāṇḍa vibhūṣitaiḥ 46 yuktaṃ samāruhya ca taṃ vimānapratimaṃ ratham abhyadravata rādheyaṃ pravapan sāyakān bahūn 47 cakrarakṣāv api tadā yudhāmanyūttamaujasau dhanaṃjayarathaṃ hitvā rādheyaṃ pratyudīyayuḥ 48 rādheyo 'pi mahārāja śaravarṣaṃ samutsṛjan abhyadravat susaṃkruddho raṇe śaineyam acyutam 49 naiva daivaṃ na gāndharvaṃ nāsuroraga rākṣasam tādṛśaṃ bhuvi vā yuddhaṃ divi vā śrutam ity uta 50 upāramata tat sainyaṃ sa rathāśvanaradvipam tayor dṛṣṭvā mahārāja karma saṃmūḍhacetanam 51 sarve ca samapaśyanta tad yuddham atimānuṣam tayor nṛvarayo rājan sārathyaṃ dārukasya ca 52 gatapratyāgatāvṛttair maṇḍalaiḥ saṃnivartanaiḥ sārathes tu rathasthasya kāśyapeyasya vismitāḥ 53 nabhastalagatāś caiva devagandharvadānavāḥ atīvāvahitā draṣṭuṃ karṇa śaineyayo raṇam 54 mitrārthe tau parākrāntau spardhinau śuṣmiṇau raṇe karṇaś cāmarasaṃkāśo yuyudhānaś ca sātyakiḥ 55 anyonyaṃ tau mahārāja śaravarṣair avarṣatām pramamātha śineḥ pautraṃ karṇaḥ sāyakavṛṣṭibhiḥ 56 amṛṣyamāṇo nidhanaṃ kauravya jalasaṃdhayoḥ karṇaḥ śokasamāviṣṭo mahoraga iva śvasan 57 sa śaineyaṃ raṇe kruddhaḥ pradahann iva cakṣuṣā abhyadravata vegena punaḥ punar ariṃdamaḥ 58 taṃ tu saṃprekṣya saṃkruddhaṃ sātyakiḥ pratyavidhyata mahatā śaravarṣeṇa gajaḥ pratigajaṃ yathā 59 tau sametya naravyāghrau vyāghrāv iva tarasvinau anyonyaṃ saṃtatakṣāte raṇe 'nupama vikramau 60 tataḥ karṇaṃ śineḥ pautraḥ sarvapāraśavaiḥ śaraiḥ vibheda sarvagātreṣu punaḥ punar ariṃdamaḥ 61 sārathiṃ cāsya bhallena rathanīḍād apāharat aśvāṃś ca caturaḥ śvetān nijaghne niśitaiḥ śaraiḥ 62 chittvā dhvajaṃ śatenaiva śatadhā puruṣarṣabhaḥ cakāra virathaṃ karṇaṃ tava putrasya paśyataḥ 63 tato vimanaso rājaṃs tāvakāḥ puruṣarṣabhāḥ vṛṣasenaḥ karṇasutaḥ śalyo madrādhipas tathā 64 droṇaputraś ca śaineyaṃ sarvataḥ paryavārayan tataḥ paryākulaṃ sarvaṃ na prājñāyata kiṃ cana 65 tathā sātyakinā vīre virathe sūtaje kṛte hāhākāras tato rājan sarvasainyeṣu cābhavat 66 karṇo 'pi vihvalo rājan sātvatenārditaḥ śaraiḥ duryodhana rathaṃ rājann āruroha viniḥśvasan 67 mānayaṃs tava putrasya bālyāt prabhṛti sauhṛdam kṛtāṃ rājyapradānena pratijñāṃ paripālayan 68 tathā tu virathe karṇe putrān vai tava pārthiva duḥśāsana mukhāñ śūrān nāvadhīt sātyakir vaśī 69 rakṣan pratijñāṃ ca punar bhīmasenakṛtāṃ purā virathān vihvalāṃś cakre na tu prāṇair vyayojayat 70 bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ punardyūte ca pārthena vadhaḥ karṇasya śaṃśrutaḥ 71 vadhe tv akurvan yatnaṃ te tasya karṇa mukhās tadā nāśaknuvaṃś ca taṃ hantuṃ sātyakiṃ pravarā rathāḥ 72 drauṇiś ca kṛtavarmā ca tathaivānye mahārathāḥ nirjitā dhanuṣaikena śataśaḥ kṣatriyarṣabhāḥ kāṅkṣatā paralokaṃ ca dharmarājasya ca priyam 73 kṛṣṇayoḥ sadṛśo vīrye sātyakiḥ śatrukarśanaḥ kṛṣṇo vāpi bhavel loke pārtho vāpi dhanurdharaḥ śaineyo vā naravyaghraś caturtho nopalabhyate 74 [dhṛ] ajayyaṃ ratham āsthāya vāsudevasya sātyakiḥ virathaṃ kṛtavān karṇaṃ vāsudeva samo yuvā 75 dārukeṇa samāyuktaṃ svabāhubaladarpitaḥ kac cid anyaṃ samārūḍhaḥ sa rathaṃ sātyakiḥ punaḥ 76 etad icchāmy ahaṃ śrotuṃ kuśalo hy asi bhāṣitum asahyaṃ tam ahaṃ manye tan mamācakṣva saṃjaya 77 [s] śṛṇu rājan yathā tasya ratham anyaṃ mahāmatiḥ dārukasyānujas tūrṇaṃ kalpanā vidhikalpitam 78 āyasaiḥ kāñcanairś cāpi paṭṭair naddhaṃ sa kūbaram tārā sahasrakhacitaṃ siṃhadhvajapatākinam 79 aśvair vātajavair yuktaṃ hemabhāṇḍa paricchadaiḥ pāṇḍurair indusaṃkāśaiḥ sarvaśabdātigair dṛḍhaiḥ 80 citrakāñcanasaṃnāhair vājimukhyair viśāṃ pate ghaṇṭājālākula ravaṃ śaktitomaravidyutam 81 vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam rathaṃ saṃpādayām āsa meghagambhīra nisvanam 82 taṃ samāruhya śaineyas tava sainyam upādravat dāruko 'pi yathākāmaṃ prayayau keśavāntikam 83 karṇasyāpi mahārāja śaṅkhagokṣīra pāṇḍuraiḥ citrakāñcanasaṃnāhaiḥ sadaśvair vegavattaraiḥ 84 hemakakṣyā dhvajopetaṃ kḷpta yantrapatākinam agryaṃ rathaṃ suyantāraṃ bahuśastraparicchadam 85 upājahrus tam āsthāya karṇo 'py abhyadravad ripūn etat te saram ākhyātaṃ yan māṃ tvaṃ paripṛcchasi 86 bhūyaś cāpi nibodha tvaṃ tavāpanayajaṃ kṣayam ekatriṃśat tava sutā bhīmasenena pātitāḥ 87 durmukhaṃ pramukhe kṛtvā satataṃ citrayodhinam śataśo nihatāḥ śūrāḥ sātvatenārjunena ca 88 bhīṣmaṃ pramukhataḥ kṛtvā bhagadattaṃ ca māriṣa evam eṣa kṣayo vṛtto rājan durmantrite tava |