1
[स] शल्यस तु कर्णार्जुनयॊर विमर्थे; बलानि थृष्ट्वा मृथितानि बाणैः थुर्यॊधनं यान्तम अवेक्षमाणॊ; संथर्शयथ भारत युथ्धभूमिम 2 निपातितस्यन्थनवाजिनागं; थृष्ट्वा बलं तथ धतसूतपुत्रम थुर्यॊधनॊ ऽशरुप्रति पूर्णनेत्रॊ; मुहुर मुहुर नयश्वसथ आर्तरूपः 3 कर्मं तु शूरं पतितं पृदिव्यां; शराचितं शॊणितथिग्ध गात्रम यथृच्छया सूर्यम इवावनिस्दं; थिथृक्षवः संपरिवार्य तस्दुः 4 परहृष्टवित्रस्त विषण्णविस्मृतास; तदापरे शॊकगता इवाभवन परे तवथीयाश च परस्परेण; यदा यदैषां परकृतिस तदाभवन 5 परविथ्ध वर्माभरणाम्बरायुधं; धनंजयेनाभिहतं हतौजसम निशम्य कर्णं कुरवः परथुथ्रुवुर; हतर्षभा गाव इवाकुलाकुलाः 6 कृत्वा विमर्थं भृशम अर्जुनेन; कर्णं हतं केसरिणेव नागम थृष्ट्वा शयानं भुवि मथ्रराजॊ; भीतॊ ऽपसर्पत सरदः सुशीघ्रम 7 मथ्राधिपश चापि विमूढचेतास; तूर्णं रदेनापहृत धवजेन थुर्यॊधनस्यान्तिकम एत्य शीघ्रं; संभाष्य थुःखार्तम उवाच वाक्यम 8 विशीर्णनागाश्वरदप्रवीरं; बलं तवथियं यम राष्ट्रकल्पम अन्यॊन्यम आसाथ्य हतं महथ्भिर; नराश्वनागैर गिरिकूट कल्पैः 9 नैताथृशं भारत युथ्धम आसीथ; यदाथ्य कर्णार्जुनयॊर बभूव गरस्तौ हि कर्णेन समेत्य कृष्णाव; अन्ये च सर्वे तव शत्रवॊ ये 10 थैवं तु यत तत सववशं परवृत्तं; तत पाण्डवान पाति हिनस्ति चास्मान तवार्द सिथ्ध्यर्दकरा हि सर्वे; परसह्य वीरा निहता थविषथ्भिः 11 कुबेर वैवस्वतवासवानां; तुल्यप्रभावाम्बुपतेश च वीराः वीर्येण शौर्येण बलेन चैव; तैस तैश च युक्ता विपुलैर गुणौघैः 12 अवध्यकल्पा निहता नरेन्थ्रास; तवार्द कामा युधि पाण्डवेयैः तन मा शुचॊ भारत थिष्टम एतत; पर्याय सिथ्धिर न सथास्ति सिथ्धिः 13 एतथ वचॊ मथ्रपतेर निशम्य; सवं चापनीतं मनसा निरीक्ष्य थुर्यॊधनॊ थीनमना विसंज्ञः; पुनः पुनर नयश्वसथ आर्तरूपः 14 तं धयानमूकं कृपणं भृशार्तम; आर्तायनिर थीनम उवाच वाक्यम पश्येथम उग्रं नरवाजि नागैर; आयॊधनं वीर हतैः परपन्नम 15 महीधराभैः पतितैर महागजैः; सकृत परविथ्धैः शरविथ्ध मर्मभिः तैर विह्वलथ्भिश च गतासुभिश च; परध्वस्त यन्त्रायुध वर्म यॊधैः 16 वज्रापविथ्धैर इव चाचलेन्थ्रैर; विभिन्नपाषाण मृगथ्रुमौषधैः परविथ्ध घण्टाङ्कुश तॊमरध्वजैः; सहेम मालै रुधिरौघसंप्लुतैः 17 शरावभिन्नैः पतितैश च वाजिभिः; शवसथ्भिर अन्यैः कषतजं वमथ्भिः थीनैः सतनथ्भिः परिवृत्तनेत्रैर; महीं थशथ्भिः कृपणं नथथ्भिः 18 तदापविथ्धैर गजवाजियॊधैर; मन्थासुभिश चैव गतासुभिश च नराश्वनागैश च रदैश च मर्थितैर; मही महावैतरणीव थुर्थृशा 19 गजैर निकृत्तापरहस्तगात्रैर; उथ्वेपमानैः पतितैः पृदिव्याम यशस्विभिर नागरदाश्वयॊधिभिः; पथातिभिश चाभिमुखैर हतैः परैः विशीर्णवर्माभरणाम्बरायुधैर; वृता निशान्तैर इव पावकैर मही 20 शरप्रहाराभिहतैर महाबलैर; अवेक्ष्यमाणैः पतितैः सहस्रशः परनष्टसंज्ञैः पुनर उच्छ्वसथ्भिर; मही बभूवानुगतैर इवाग्निभिः थिवश चयुतैर भूर अतिथीप्तम अथ्भिर; नक्तं गरहैर थयौर अमलेव थीप्तैः 21 शरास तु कर्णार्जुन बाहुमुक्ता; विथार्य नागाश्वमनुष्यथेहान पराणान निरस्याशु महीम अतीयुर; महॊरगा वासम इवाभितॊ ऽसत्रैः 22 हतैर मनुष्याश्वगजैश च संख्ये; शरावभिन्नैश च रदैर बभूव धनंजयस्याधिरदेश च मार्गे; गजैर अगम्या वसुधातिथुर्गा 23 रदैर वरेषून मदितैश च यॊधैः; संस्यूत सूताश्ववरायुधध्वजैः विशीर्णशस्त्रैर विनिकृत्तबन्धुरैर; निकृत्तचक्राक्ष युगत्रिवेणुभिः 24 विमुक्तयन्त्रैर निहतैर अयॊमयैर; हतानुषङ्गैर विनिषङ्ग बन्धुरैः परभग्ननीडैर मणिहेममण्डितैः; सतृता मही थयौर इव शारथैर घनैः 25 विकृष्यमणैर जवनैर अलंकृतैर; हतेश्वरैर आजिरदैः सुकल्पितैः मनुष्यमातङ्गरदाश्वराशिभिर; थरुतं वरजन्तॊ बहुधा विचूर्णिताः 26 सहेम पट्टाः परिघाः परश्वधाः; कडङ्ग रायॊ मुसलानि पट्टिशाः पेतुश च खड्गा विमला विकॊशा; गथाश च जाम्बूनथपट्ट बथ्धाः 27 चापानि रुक्माङ्गथ भूषणानि; शराश च कार्तस्वरचित्रपुङ्खाः ऋष्ट्यश च पीता विमला विकॊशाः; परासाः सखड्गाः कनकावभासाः 28 छत्त्राणि वालव्यजनानि शङ्खाः; सरजश च पुष्पॊत्तम हेमचित्राः कुदाः पताकाम्बर वेष्टिताश च; किरीटमाला मुकुटाश च शुभ्राः 29 परकीर्णका विप्रकीर्णाः कुदाश च; परधानमुक्ता तरलाश च हाराः आपीड केयूरवराङ्गथानि; गरैवेय निष्काः ससुवर्ण सूत्राः 30 मण्युत्तमा वज्रसुवर्णमुक्ता; रत्नानि चॊच्चावचमङ्गलानि गात्राणि चात्यन्त सुखॊचितानि; शिरांसि चेन्थु परतिमाननानि 31 थेहांश च भॊगांश च परिच्छथांश च; तयक्त्वा मनॊज्ञानि सुखानि चापि सवधर्मनिष्ठां महतीम अवाप्य; वयाप्तांश च लॊकान यशसा समीयुः 32 इत्य एवम उक्त्वा विरराम शल्यॊ; थुर्यॊधनः शॊकपरीत चेताः हा कर्ण हा कर्ण इति बरुवाण; आर्तॊ विसंज्ञॊ भृशम अश्रुनेत्रः 33 तं थरॊणपुत्र परमुखा नरेन्थ्राः; सर्वे समाश्वास्य सह परयान्ति निरीक्षमाणा मुहुर अर्जुनस्य; धवजं महान्तं यशसा जवलन्तम 34 नराश्वमातङ्गशरीरजेन; रक्तेन सिक्ता रुधिरेण भूमिः रक्ताम्बरस्रक तपनीययॊगान; नारी परकाशा इव सर्वगम्या 35 परच्छन्नरूपा रुधिरेण राजन; रौथ्रे मुहूर्ते ऽतिविराजमानाः नैवावतस्दुः कुरवः समीक्ष्य; परव्राजिता थेवलॊकाश च सर्वे 36 वधेन कर्णस्य सुथुःखितास ते; हा कर्ण हा कर्ण इति बरुवाणाः थरुतं परयाताः शिबिराणि राजन; थिवाकरं रक्तम अवेक्षमाणाः 37 गाण्डीवमुक्तैस तु सुवर्णपुङ्खैः; शितैः शरैः शॊणितथिग्ध वाजैः शरैश चिताङ्गॊ भुवि भाति कर्णॊ; हतॊ ऽपि सन सूर्य इवांशुमाली 38 कर्णस्य थेहं रुधिरावसिक्तं; भक्तानुकम्पी भगवान विवस्वान सपृष्ट्वा करैर लॊहितरक्तरूपः; सिष्णासुर अभ्येति परं समुथ्रम 39 इतीव संचिन्त्य सुरर्षिसंघाः; संप्रदिता यान्ति यदानिकेतम संचिन्तयित्वा च जना विसस्रुर; यदासुखं खं च महीतलं च 40 तथ अथ्भुतं पराणभृतां भयंकरं; निशम्य युथ्धं कुरुवीरमुख्ययॊः धनंजयस्याधिरदेश च विस्मिताः; परशंसमानाः परययुस तथा जनाः 41 शरैः संकृत्तवर्माणं वीरं शिवसने हतम गतासुम अपि राधेयं नैव लक्ष्मीर वयमुञ्चत 42 नानाभरणवान राजन मृष्टजाम्बूनथाङ्गथः हतॊ वैकर्तनः शेते पाथपॊ ऽङकुरवान इव 43 कनकॊत्तम संकाशः परथीप्त इव पावकः सपुत्रः पुरुषव्याघ्रः संशान्तः पार्द तेजसा परताप्य पाण्डवान राजन पाञ्चालांश चास्त्रतेजसा 44 थथानीत्य एव यॊ ऽवॊचन न नातीत्य अर्दितॊ ऽरदिभिः सथ्भिः सथा सत्पुरुषः स हतॊ थवैरदे वृषः 45 यस्य बराह्मणसात सर्वम आत्मार्दं न महात्मनः नाथेयं बराह्मणेष्व आसीथ यस्य सवम अपि जीवितम 46 सथा नॄणां परियॊ थाता परिय थानॊ थिवं गतः आथाय तव पुत्राणां जयाशां शर्म वर्म च 47 हते सम कर्णे सरितॊ न सरवन्ति; जगाम चास्तं कलुषॊ थिवाकरः गरहश च तिर्यग जवलितार्कवर्णॊ; यमस्य पुत्रॊ ऽभयुथियाय राजन 48 नभः पफालाद ननाथचॊर्वी; ववुश च वाताः परुषातिवेलम थिशः सधूमाश च भृशं परजज्वलुर; महार्णवाश चुक्षुभिरे च सस्वनाः 49 सकाननाः साथ्रि चयाश चकम्पुः; परविव्यदुर भूतगणाश च मारिष बृहस्पती रॊहिणीं संप्रपीड्य; बभूव चन्थ्रार्कसमानवर्णः 50 हते कर्णे न थिशॊ विप्रजज्ञुस; तमॊवृता थयौर विचचाल भूमिः पपात चॊल्का जवलनप्रकाशा; निशाचराश चाप्य अभवन परहृष्टाः 51 शशिप्रकाशाननम अर्जुनॊ यथा; कषुरेण कर्णस्य शिरॊ नयपातयत अदान्तरिक्षे थिवि चेह चासकृथ; बभूव हाहेति जनस्य निस्वनः 52 स थेवगन्धर्वमनुष्यपूजितं; निहत्य कर्णं रिपुम आहवे ऽरजुनः रराज पार्दः परमेण तेजसा; वृत्रं निहत्येव सहस्रलॊचनः 53 ततॊ रदेनाम्बुथवृन्थनाथिना; शरन नभॊ मध्यग भास्करत्विषा पताकिना भीम निनाथ केतुना; हिमेन्थु शङ्खस्फटिकावभासिना सुवर्णमुक्ता मणिवज्र विथ्रुमैर; अलंकृतेनाप्रतिमान रंहसा 54 नरॊत्तमौ पाण्डव केशि मर्थनाव; उथाहिताव अग्निथिवाकरॊपमौ रणाजिरे वीतभयौ विरेजतुः; समानयानाव इव विष्णुवासवौ 55 ततॊ धनुर्ज्यातलनेमि निस्वनैः; परसह्य कृत्वा च रिपून हतप्रभान संसाधयित्वैव कुरूञ शरौघैः; कपिध्वजः पक्षिवरध्वजश च परसह्य शङ्खौ धमतुः सुघॊषौ; मनांस्य अरिणाम अवसाथयन्तौ 56 सुवर्णजालावततौ महास्वनौ; हिमावथातौ परिगृह्य पाणिभिः चुचुम्बतुः शङ्खवरौ नृणां वरौ; वराननाभ्यां युगपच च थध्मतुः 57 पाञ्चजन्यस्य निर्घॊषॊ थेवथत्तस्य चॊभयॊः पृदिवीम अन्तरिक्षं च थयाम अपश चाप्य अपूरयत 58 तौ शङ्खशब्थेन निनाथयन्तौ; वननै शैलान सरितॊ थिशश च वित्रासयन्तौ तव पुत्र सेनां; युधिष्ठिरं नन्थयतः सम वीरौ 59 ततः परयाताः कुरवॊ जवेन; शरुत्वैव शङ्खस्वनम ईर्यमाणम विहाय मथ्राधिपतिं पतिं च; थुर्यॊधनं भारत भारतानाम 60 महाहवे तं बहु शॊभमानं; धनंजयं भूतगणाः समेताः तथान्वमॊथन्त जनार्थनं च; परभाकराव अभ्युथितौ यदैव 61 समाचितौ कर्ण शरैः परंतपाव; उभौ वयभातां समरे ऽचयुतार्जुनौ तमॊ निहत्याभ्युथितौ यदामलौ; शशाङ्कसूर्याव इव रश्मिमालिनौ 62 विहाय तान बाणगणान अदागतौ; सुहृथ्वृताव अप्रतिमान विक्रमौ सुखं परविष्टौ शिबिरं सवम ईश्वरौ; सथस्य हुताव इव वासवाच्युतौ 63 सथेवगन्धर्वमनुष्यचारणैर; महर्षिभिर यक्षमहॊरगैर अपि जयाभिवृथ्ध्या परयाभिपूजितौ; निहत्य कर्णं परमाहवे तथा |
1
[s] śalyas tu karṇārjunayor vimarde; balāni dṛṣṭvā mṛditāni bāṇaiḥ duryodhanaṃ yāntam avekṣamāṇo; saṃdarśayad bhārata yuddhabhūmim 2 nipātitasyandanavājināgaṃ; dṛṣṭvā balaṃ tad dhatasūtaputram duryodhano 'śruprati pūrṇanetro; muhur muhur nyaśvasad ārtarūpaḥ 3 karmaṃ tu śūraṃ patitaṃ pṛthivyāṃ; śarācitaṃ śoṇitadigdha gātram yadṛcchayā sūryam ivāvanisthaṃ; didṛkṣavaḥ saṃparivārya tasthuḥ 4 prahṛṣṭavitrasta viṣaṇṇavismṛtās; tathāpare śokagatā ivābhavan pare tvadīyāś ca paraspareṇa; yathā yathaiṣāṃ prakṛtis tathābhavan 5 praviddha varmābharaṇāmbarāyudhaṃ; dhanaṃjayenābhihataṃ hataujasam niśamya karṇaṃ kuravaḥ pradudruvur; hatarṣabhā gāva ivākulākulāḥ 6 kṛtvā vimardaṃ bhṛśam arjunena; karṇaṃ hataṃ kesariṇeva nāgam dṛṣṭvā śayānaṃ bhuvi madrarājo; bhīto 'pasarpat sarathaḥ suśīghram 7 madrādhipaś cāpi vimūḍhacetās; tūrṇaṃ rathenāpahṛta dhvajena duryodhanasyāntikam etya śīghraṃ; saṃbhāṣya duḥkhārtam uvāca vākyam 8 viśīrṇanāgāśvarathapravīraṃ; balaṃ tvadiyaṃ yama rāṣṭrakalpam anyonyam āsādya hataṃ mahadbhir; narāśvanāgair girikūṭa kalpaiḥ 9 naitādṛśaṃ bhārata yuddham āsīd; yathādya karṇārjunayor babhūva grastau hi karṇena sametya kṛṣṇāv; anye ca sarve tava śatravo ye 10 daivaṃ tu yat tat svavaśaṃ pravṛttaṃ; tat pāṇḍavān pāti hinasti cāsmān tavārtha siddhyarthakarā hi sarve; prasahya vīrā nihatā dviṣadbhiḥ 11 kubera vaivasvatavāsavānāṃ; tulyaprabhāvāmbupateś ca vīrāḥ vīryeṇa śauryeṇa balena caiva; tais taiś ca yuktā vipulair guṇaughaiḥ 12 avadhyakalpā nihatā narendrās; tavārtha kāmā yudhi pāṇḍaveyaiḥ tan mā śuco bhārata diṣṭam etat; paryāya siddhir na sadāsti siddhiḥ 13 etad vaco madrapater niśamya; svaṃ cāpanītaṃ manasā nirīkṣya duryodhano dīnamanā visaṃjñaḥ; punaḥ punar nyaśvasad ārtarūpaḥ 14 taṃ dhyānamūkaṃ kṛpaṇaṃ bhṛśārtam; ārtāyanir dīnam uvāca vākyam paśyedam ugraṃ naravāji nāgair; āyodhanaṃ vīra hataiḥ prapannam 15 mahīdharābhaiḥ patitair mahāgajaiḥ; sakṛt praviddhaiḥ śaraviddha marmabhiḥ tair vihvaladbhiś ca gatāsubhiś ca; pradhvasta yantrāyudha varma yodhaiḥ 16 vajrāpaviddhair iva cācalendrair; vibhinnapāṣāṇa mṛgadrumauṣadhaiḥ praviddha ghaṇṭāṅkuśa tomaradhvajaiḥ; sahema mālai rudhiraughasaṃplutaiḥ 17 śarāvabhinnaiḥ patitaiś ca vājibhiḥ; śvasadbhir anyaiḥ kṣatajaṃ vamadbhiḥ dīnaiḥ stanadbhiḥ parivṛttanetrair; mahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ 18 tathāpaviddhair gajavājiyodhair; mandāsubhiś caiva gatāsubhiś ca narāśvanāgaiś ca rathaiś ca marditair; mahī mahāvaitaraṇīva durdṛśā 19 gajair nikṛttāparahastagātrair; udvepamānaiḥ patitaiḥ pṛthivyām yaśasvibhir nāgarathāśvayodhibhiḥ; padātibhiś cābhimukhair hataiḥ paraiḥ viśīrṇavarmābharaṇāmbarāyudhair; vṛtā niśāntair iva pāvakair mahī 20 śaraprahārābhihatair mahābalair; avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ pranaṣṭasaṃjñaiḥ punar ucchvasadbhir; mahī babhūvānugatair ivāgnibhiḥ divaś cyutair bhūr atidīptam adbhir; naktaṃ grahair dyaur amaleva dīptaiḥ 21 śarās tu karṇārjuna bāhumuktā; vidārya nāgāśvamanuṣyadehān prāṇān nirasyāśu mahīm atīyur; mahoragā vāsam ivābhito 'straiḥ 22 hatair manuṣyāśvagajaiś ca saṃkhye; śarāvabhinnaiś ca rathair babhūva dhanaṃjayasyādhiratheś ca mārge; gajair agamyā vasudhātidurgā 23 rathair vareṣūn mathitaiś ca yodhaiḥ; saṃsyūta sūtāśvavarāyudhadhvajaiḥ viśīrṇaśastrair vinikṛttabandhurair; nikṛttacakrākṣa yugatriveṇubhiḥ 24 vimuktayantrair nihatair ayomayair; hatānuṣaṅgair viniṣaṅga bandhuraiḥ prabhagnanīḍair maṇihemamaṇḍitaiḥ; stṛtā mahī dyaur iva śāradair ghanaiḥ 25 vikṛṣyamaṇair javanair alaṃkṛtair; hateśvarair ājirathaiḥ sukalpitaiḥ manuṣyamātaṅgarathāśvarāśibhir; drutaṃ vrajanto bahudhā vicūrṇitāḥ 26 sahema paṭṭāḥ parighāḥ paraśvadhāḥ; kaḍaṅga rāyo musalāni paṭṭiśāḥ petuś ca khaḍgā vimalā vikośā; gadāś ca jāmbūnadapaṭṭa baddhāḥ 27 cāpāni rukmāṅgada bhūṣaṇāni; śarāś ca kārtasvaracitrapuṅkhāḥ ṛṣṭyaś ca pītā vimalā vikośāḥ; prāsāḥ sakhaḍgāḥ kanakāvabhāsāḥ 28 chattrāṇi vālavyajanāni śaṅkhāḥ; srajaś ca puṣpottama hemacitrāḥ kuthāḥ patākāmbara veṣṭitāś ca; kirīṭamālā mukuṭāś ca śubhrāḥ 29 prakīrṇakā viprakīrṇāḥ kuthāś ca; pradhānamuktā taralāś ca hārāḥ āpīḍa keyūravarāṅgadāni; graiveya niṣkāḥ sasuvarṇa sūtrāḥ 30 maṇyuttamā vajrasuvarṇamuktā; ratnāni coccāvacamaṅgalāni gātrāṇi cātyanta sukhocitāni; śirāṃsi cendu pratimānanāni 31 dehāṃś ca bhogāṃś ca paricchadāṃś ca; tyaktvā manojñāni sukhāni cāpi svadharmaniṣṭhāṃ mahatīm avāpya; vyāptāṃś ca lokān yaśasā samīyuḥ 32 ity evam uktvā virarāma śalyo; duryodhanaḥ śokaparīta cetāḥ hā karṇa hā karṇa iti bruvāṇa; ārto visaṃjño bhṛśam aśrunetraḥ 33 taṃ droṇaputra pramukhā narendrāḥ; sarve samāśvāsya saha prayānti nirīkṣamāṇā muhur arjunasya; dhvajaṃ mahāntaṃ yaśasā jvalantam 34 narāśvamātaṅgaśarīrajena; raktena siktā rudhireṇa bhūmiḥ raktāmbarasrak tapanīyayogān; nārī prakāśā iva sarvagamyā 35 pracchannarūpā rudhireṇa rājan; raudre muhūrte 'tivirājamānāḥ naivāvatasthuḥ kuravaḥ samīkṣya; pravrājitā devalokāś ca sarve 36 vadhena karṇasya suduḥkhitās te; hā karṇa hā karṇa iti bruvāṇāḥ drutaṃ prayātāḥ śibirāṇi rājan; divākaraṃ raktam avekṣamāṇāḥ 37 gāṇḍīvamuktais tu suvarṇapuṅkhaiḥ; śitaiḥ śaraiḥ śoṇitadigdha vājaiḥ śaraiś citāṅgo bhuvi bhāti karṇo; hato 'pi san sūrya ivāṃśumālī 38 karṇasya dehaṃ rudhirāvasiktaṃ; bhaktānukampī bhagavān vivasvān spṛṣṭvā karair lohitaraktarūpaḥ; siṣṇāsur abhyeti paraṃ samudram 39 itīva saṃcintya surarṣisaṃghāḥ; saṃprathitā yānti yathāniketam saṃcintayitvā ca janā visasrur; yathāsukhaṃ khaṃ ca mahītalaṃ ca 40 tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ; niśamya yuddhaṃ kuruvīramukhyayoḥ dhanaṃjayasyādhiratheś ca vismitāḥ; praśaṃsamānāḥ prayayus tadā janāḥ 41 śaraiḥ saṃkṛttavarmāṇaṃ vīraṃ śivasane hatam gatāsum api rādheyaṃ naiva lakṣmīr vyamuñcata 42 nānābharaṇavān rājan mṛṣṭajāmbūnadāṅgadaḥ hato vaikartanaḥ śete pādapo 'ṅkuravān iva 43 kanakottama saṃkāśaḥ pradīpta iva pāvakaḥ saputraḥ puruṣavyāghraḥ saṃśāntaḥ pārtha tejasā pratāpya pāṇḍavān rājan pāñcālāṃś cāstratejasā 44 dadānīty eva yo 'vocan na nātīty arthito 'rthibhiḥ sadbhiḥ sadā satpuruṣaḥ sa hato dvairathe vṛṣaḥ 45 yasya brāhmaṇasāt sarvam ātmārthaṃ na mahātmanaḥ nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam 46 sadā nṝṇāṃ priyo dātā priya dāno divaṃ gataḥ ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca 47 hate sma karṇe sarito na sravanti; jagāma cāstaṃ kaluṣo divākaraḥ grahaś ca tiryag jvalitārkavarṇo; yamasya putro 'bhyudiyāya rājan 48 nabhaḥ paphālātha nanādacorvī; vavuś ca vātāḥ paruṣātivelam diśaḥ sadhūmāś ca bhṛśaṃ prajajvalur; mahārṇavāś cukṣubhire ca sasvanāḥ 49 sakānanāḥ sādri cayāś cakampuḥ; pravivyathur bhūtagaṇāś ca māriṣa bṛhaspatī rohiṇīṃ saṃprapīḍya; babhūva candrārkasamānavarṇaḥ 50 hate karṇe na diśo viprajajñus; tamovṛtā dyaur vicacāla bhūmiḥ papāta colkā jvalanaprakāśā; niśācarāś cāpy abhavan prahṛṣṭāḥ 51 śaśiprakāśānanam arjuno yadā; kṣureṇa karṇasya śiro nyapātayat athāntarikṣe divi ceha cāsakṛd; babhūva hāheti janasya nisvanaḥ 52 sa devagandharvamanuṣyapūjitaṃ; nihatya karṇaṃ ripum āhave 'rjunaḥ rarāja pārthaḥ parameṇa tejasā; vṛtraṃ nihatyeva sahasralocanaḥ 53 tato rathenāmbudavṛndanādinā; śaran nabho madhyaga bhāskaratviṣā patākinā bhīma nināda ketunā; himendu śaṅkhasphaṭikāvabhāsinā suvarṇamuktā maṇivajra vidrumair; alaṃkṛtenāpratimāna raṃhasā 54 narottamau pāṇḍava keśi mardanāv; udāhitāv agnidivākaropamau raṇājire vītabhayau virejatuḥ; samānayānāv iva viṣṇuvāsavau 55 tato dhanurjyātalanemi nisvanaiḥ; prasahya kṛtvā ca ripūn hataprabhān saṃsādhayitvaiva kurūñ śaraughaiḥ; kapidhvajaḥ pakṣivaradhvajaś ca prasahya śaṅkhau dhamatuḥ sughoṣau; manāṃsy ariṇām avasādayantau 56 suvarṇajālāvatatau mahāsvanau; himāvadātau parigṛhya pāṇibhiḥ cucumbatuḥ śaṅkhavarau nṛṇāṃ varau; varānanābhyāṃ yugapac ca dadhmatuḥ 57 pāñcajanyasya nirghoṣo devadattasya cobhayoḥ pṛthivīm antarikṣaṃ ca dyām apaś cāpy apūrayat 58 tau śaṅkhaśabdena ninādayantau; vananai śailān sarito diśaś ca vitrāsayantau tava putra senāṃ; yudhiṣṭhiraṃ nandayataḥ sma vīrau 59 tataḥ prayātāḥ kuravo javena; śrutvaiva śaṅkhasvanam īryamāṇam vihāya madrādhipatiṃ patiṃ ca; duryodhanaṃ bhārata bhāratānām 60 mahāhave taṃ bahu śobhamānaṃ; dhanaṃjayaṃ bhūtagaṇāḥ sametāḥ tadānvamodanta janārdanaṃ ca; prabhākarāv abhyuditau yathaiva 61 samācitau karṇa śaraiḥ paraṃtapāv; ubhau vyabhātāṃ samare 'cyutārjunau tamo nihatyābhyuditau yathāmalau; śaśāṅkasūryāv iva raśmimālinau 62 vihāya tān bāṇagaṇān athāgatau; suhṛdvṛtāv apratimāna vikramau sukhaṃ praviṣṭau śibiraṃ svam īśvarau; sadasya hutāv iva vāsavācyutau 63 sadevagandharvamanuṣyacāraṇair; maharṣibhir yakṣamahoragair api jayābhivṛddhyā parayābhipūjitau; nihatya karṇaṃ paramāhave tadā |