1
[ज] पूर्वम एव यथा रामस तस्मिन युथ्धे उपस्दिते आमन्त्र्य केशवं यातॊ वृष्णिभिः सहितः परभुः 2 साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव न चैव पाण्डुपुत्राणां गमिष्यामि यदागतम 3 एवम उक्त्वा तथा रामॊ यातः शत्रुनिबर्हणः तस्य चागमनं भूयॊ बरह्मञ शंसितुम अर्हसि 4 आख्याहि मे विस्तरतः कदं राम उपस्दितः कदं च थृष्टवान युथ्धं कुशलॊ हय असि सत्तम 5 [वै] उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु परेषितॊ धृतराष्ट्रस्य समीपं मधुसूथनः शमं परति महावाहॊ हितार्दं सर्वथेहिनाम 6 स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च उक्तवान वचनं तद्यं हितं चैव विशेषतः न च तत कृतवान राजा यदाख्यातं हि ते पुरा 7 अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः आगच्छत महाबाहुर उपप्लव्यं जनाधिप 8 ततः परत्यागतः कृष्णॊ धार्तराष्ट्र विसर्जितः अक्रियायां नरव्याघ्र पाण्डवान इथम अब्रवीत 9 न कुर्वन्ति वचॊ मह्यं कुरवः कालचॊथिताः निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया 10 ततॊ विभज्यमानेषु बलेषु बलिनां वरः परॊवाच भरातरं कृष्णं रौहिणेयॊ महामनाः 11 तेषाम अपि महाबाहॊ साहाय्यं मधुसूथन करियताम इति तत कृष्णॊ नास्य चक्रे वचस तथा 12 ततॊ मन्युपरीतात्मा जगाम यथुनन्थनः तीर्दयात्रां हलधरः सरस्वत्यां महायशाः मैत्रे नक्षत्रयॊगे सम सहितः सर्वयाथवैः 13 आश्रयाम आस भॊजस तु थुर्यॊथ्ननम अरिंथमः युयुधानेन सहितॊ वासुथेवस तु पाण्डवान 14 रौहिणेये गते शूरे पुष्येण मधुसूथनः पाण्डवेयान पुरस्कृत्य ययाव अभिमुखः कुरून 15 गच्छन एव पदिस्दस तु रामः परेष्यान उवाच हा संभारांस तीर्दयात्रायां सार्वॊपकरणानि च आनयध्वं थवारकाया अग्नीन वै याजकांस तदा 16 सुवर्णं रजतं चैव धेनुर वासांसि वाजिनः कुञ्जरांश च रदांश चैव खरॊष्ट्रं वाहनानि च कषिप्रम आनीयतां सर्वं तीर्दहेतॊः परिच्छथम 17 परतिस्रॊतः सरस्वत्या गछध्वं शीघ्रगामिनः ऋत्विजश चानयध्वं वै शतशश च थविजर्षभान 18 एवं संथिश्य तु परेष्यान बलथेवॊ महाबलः तीर्दयात्रां ययौ राजन कुरूणां वैशसे तथा सरस्वतीं परतिस्रॊतः समुथ्राथ अभिजग्मिवान 19 ऋत्विग्भिश च सुहृथ्भिश च तदान्यैर थविजसत्तमैः रदगर्जैस तदाश्वैश च परेष्यैश च भरतर्षभ गॊखरॊष्ट्र परयुक्तैश च यानैश च बहुभिर वृतः 20 शरान्तानां कलान्तवपुषां शिशूनां विपुलायुषाम तानि यानानि थेशेषु परतीक्ष्यन्ते सम भारत बुभुक्षितानाम अर्दाय कॢप्तम अन्नं समन्ततः 21 यॊ यॊ यत्र थविजॊ भॊक्तुं कामं कामयते तथा तस्य तस्य तु तत्रैवम उपजह्रुस तथा नृप 22 तत्र सदिता नरा राजन रौहिणेयस्य शासनात भक्ष्यपेयस्य कुर्वन्ति राशींस तत्र समन्ततः 23 वासांसि च महार्हाणि पर्यङ्कास्तरणानि च पूजार्दं तत्र कॢप्तानि विप्राणां सुखम इच्छताम 24 यत्र यः सवपते विप्रः कषत्रियॊ वापि भारत तत्र तत्र तु तस्यैव सर्वं कॢप्तम अथृश्यत 25 यदासुखं जनः सर्वस तिष्ठते याति वा तथा यातु कामस्य यानानि पानानि तृषितस्य च 26 बुभुक्षितस्या चान्नानि सवाथूनि भरतर्षभ उपजह्रुर नरास तत्र वस्त्राण्य आभरणानि च 27 स पन्दाः परबभौ राजन सर्वस्यैव सुखावहः सवर्गॊपमस तथा वीर नराणां तत्र गच्छताम 28 नित्यप्रमुथितॊपेतः सवाथु भक्षः शुभान्वितः विपण्यापण पण्यानां नानाजनशतैर वृतः नानाथ्रुमलतॊपेतॊ नानारत्नविभूषितः 29 ततॊ महात्मा नियमे सदितात्मा; पुण्येषु तीर्देषु वसूनि राजन थथौ थविजेभ्यः करतुथक्षिणाश च; यथुप्रवीरॊ हलभृत परतीतः 30 थॊग्भ्रीश च धेनूश च सहस्रशॊ वै; सुवाससः काञ्चनबथ्धशृङ्गीः हयांश च नानाविध थेशजातान; यानानि थासीश च तदा थविजेभ्यः 31 रत्नानि मुक्तामणिविथ्रुमं च; शृङ्गी सुवर्णं रजतं च शुभ्रम अयॊ मयं ताम्रमयं च भाण्डं; थथौ थविजातिप्रवरेषु रामः 32 एवं स वित्तं परथथौ महात्मा; सरस्वती तीर्दवरेषु भूरि ययौ करमेणाप्रतिम परभावस; ततः कुरुक्षेत्रम उथारवृत्तः 33 [ज] सारस्वतानां तीर्दानां गुणॊत्पत्तिं वथस्व मे फलं च थविपथां शरेष्ठ कर्म निर्वृत्तिम एव च 34 यदाक्रमं च भगवंस तीर्दानाम अनुपूर्वशः बरह्मन बरह्मविथां शरेष्ठ परं कौतूहलं हि मे 35 [वै] तीर्दानां विस्तरं राजन गुणॊत्पत्तिं च सर्वशः मयॊच्यमानां शृणु वै पुण्यां राजेन्थ्र कृत्स्नशः 36 पूर्वं महाराज यथुप्रवीर; ऋत्विक सुहृथ विप्र गणैश च सार्धम पुण्यं परभासं समुपाजगाम; यत्रॊडु राड यक्ष्मणा कलिश्यमानः 37 विमुक्तशापः पुनर आप्य तेजः; सर्वं जगथ भासयते नरेन्थ्र एवं तु तीर्दप्रवरं पृदिव्यां; परभासनात तस्य ततः परभासः 38 [ज] किमर्दं भगवान सॊमॊ यक्ष्मणा समगृह्यत कदं च तीर्दप्रवरे तस्मिंश चन्थ्रॊ नयमज्जत 39 कदम आप्लुत्य तस्मिंस तु पुनर आप्यायितः शशी एतन मे सर्वम आचक्ष्व विस्तरेण महामुने 40 [वै] थक्षस्य तनया यास ताः पराथुरासन विशां पते स सप्त विंशतिं कन्या थक्षः सॊमाय वै थथौ 41 नक्षत्रयॊगनिरताः संख्यानार्दं च भारत पत्न्यॊ वै तस्य राजेन्थ्र सॊमस्य शुभलक्षणाः 42 तास तु सर्वा विशालाक्ष्यॊ रूपेणाप्रतिमा भुवि अत्यरिच्यत तासां तु रॊहिणी रूपसंपथा 43 ततस तस्यां स भगवान परीतिं चक्रे निशाकरः सास्य हृथ्य बभूवाथ्य तस्मात तां बुभुजे सथा 44 पुरा हि सॊमॊ राजेन्थ्र रॊहिण्याम अवसच चिरम ततॊ ऽसय कुपितान्य आसन नक्षत्राणि महात्मनः 45 ता गत्वा पितरं पराहुः परजापतिम अतन्थ्रिताः सॊमॊ वसति नास्मासु रॊहिणीं भजते सथा 46 ता वयं सहिताः सर्वास तवत्सकाशे परजेश्वर वत्स्यामॊ नियताहारास तपश्चरणतत्पराः 47 शरुत्वा तासां तु वचनं थक्षः सॊमम अदाब्रवीत समं वर्तस्य भार्यासु मा तवाधर्मॊ महान सपृशेत 48 ताश च सर्वाब्रवीथ थक्षॊ गच्छध्वं सॊमम अन्तिकात समं वत्स्यति सर्वासु चन्थ्रमा मम शासनात 49 विसृष्टास तास तथा जग्मुः शीतांशुभवनं तथा तदापि सॊमॊ भगवान पुनर एव महीपते रॊहिणीं निवसत्य एव परीयमाणॊ मुहुर मुहुः 50 ततस ताः सहिताः सर्वा भूयः पितरम अब्रुवन तव शुश्रूषणे युक्ता वत्स्यामॊ हि तवाश्रमे सॊमॊ वसति नास्मासु नाकरॊथ वचनं तव 51 तासां तथ वचनं शरुत्वा थक्षः सॊमम अदाब्रवीत समं वर्तस्व भार्यासु मा तवां शप्स्ये विरॊचन 52 अनाथृत्य तु तथ वाक्यं थक्षस्य भगवाञ शशी रॊहिण्या सार्धम अवसत ततस ताः कुपिताः पुनः 53 गत्वा च पितरं पराहुः परणम्य शिरसा तथा सॊमॊ वसति नास्मासु तस्मान नः शरणं भव 54 रॊहिण्याम एव भगवन सथा वसति चन्थ्रमाः तस्मान नस तराहि सर्वा वै यदा नः सॊम आविशेत 55 तच छरुत्वा भगवान करुथ्धॊ यक्ष्माणं पृदिवीपते ससर्व रॊषात सॊमाय स चॊडु पतिम आविशत 56 स यक्ष्मणाभिभूतात्माक्षीयताहर अहः शशी यत्नं चाप्य अकरॊथ राजन मॊक्षार्दं तस्य यक्ष्मणः 57 इष्ट्वेष्टिभिर महाराज विविधाभिर निशाकरः न चामुच्यत शापाथ वै कषयं चैवाभ्यगच्छत 58 कषीयमाणे ततः सॊमे ओषध्यॊ न परजज्ञिरे निरास्वाथ रसाः सर्वा हतवीर्याश च सर्वशः 59 ओषधीनां कषये जाते पराणिनाम अपि संक्षयः कृशाश चासन परजाः सर्वाः कषीयमाणे निशाकरे 60 ततॊ थेवाः समागम्य सॊमम ऊचुर महीपते किम इथं भवतॊ रूपम ईथृशं न परकाशते 61 कारणं बरूहि नः सर्वं येनेथं ते महथ भयम शरुत्वा तु वचनं तवत्तॊ विधास्यामस ततॊ वयम 62 एवम उक्तः परत्युवाच सर्वांस ताञ शशलक्षणः शापं च कारणं चैव यक्ष्माणं च तदात्मनः 63 थेवास तस्य वचः शरुत्वा गत्वा थक्षम अदाब्रुवन परसीथ भगवन सॊमे शापश चैष निवर्त्यताम 64 असौ हि चन्थ्रमाः कषीणः किं चिच छेषॊ हि लक्ष्यते कषयाच चैवास्य थेवेश परजाश चापि गताः कषयम 65 वीरुथ ओषधयश चैव बीजानि विविधानि च तदा वयं लॊकगुरॊ परसाथं कर्तुम अर्हसि 66 एवम उक्तस तथा चिन्त्य पराह वाक्यं परजापतिः नैतच छक्यं मम वचॊ वयावर्तयितुम अन्यदा हेतुना तु महाभागा निवर्तिष्यति केन चित 67 समं वर्ततु सर्वासु शशी भार्यासु नित्यशः सरस्वत्या वरे तीर्दे उन्मज्जञ शशलक्षणः पुनर वर्धिष्यते थेवास तथ वै सत्यं वचॊ मम 68 मासार्धं च कषयं सॊमॊ नित्यम एव गमिष्यति मासार्धं च तथा वृथ्धिं सत्यम एतथ वचॊ मम 69 सरस्वतीं ततः सॊमॊ जगाम ऋषिशासनात परभासं परमं तीर्दं सरस्वत्या जगाम ह 70 अमावास्यां महातेजास तत्रॊन्मज्जन महाथ्युतिः लॊकान परभासयाम आस शीतांशुत्वम अवाप च 71 थेवाश च सर्वे राजेन्थ्र परभासं पराप्य पुष्कलम सॊमेन सहिता भूत्वा थक्षस्य परमुखे ऽभवन 72 ततः परजापतिः सर्वा विससर्जाद थेवताः सॊमं च भगवान परीतॊ भूयॊ वचनम अब्रवीत 73 मावमंस्दाः सत्रियः पुत्र मा च विप्रान कथा चन गच्छ युक्तसथा भूत्वा कुरु वै शासनं मम 74 स विसृष्टॊ महाराज जगामाद सवम आलयम परजाश च मुथिता भूत्वा भॊजने च यदा पुरा 75 एतत ते सर्वम आख्यातं यदा शप्तॊ निशाकरः परभासं च यदा तीर्दं तीर्दानां परवरं हय अभूत 76 अमावास्यां महाराज नित्यशः शशलक्षणः सनात्वा हय आप्यायते शरीमान परभासे तीर्द उत्तमे 77 अतश चैनं परजानन्ति परभासम इति भूमिप परभां हि परमां लेभे तस्मिन्न उन्मज्ज्य चन्थ्रमाः 78 ततस तु चमसॊथ्भेथम अच्युतस तव अगमथ बली चमसॊथ्भेथ इत्य एवं यं जनाः कदयन्त्य उत 79 तत्र थत्त्वा च थानानि विशिष्टानि हलायुधः उषित्वा रजनीम एकां सनात्वा च विधिवत तथा 80 उथपानम अदागच्छत तवरावान केशवाग्रजः आथ्यं सवस्त्ययनं चैव तत्रावाप्य महत फलम 81 सनिग्धत्वाथ ओषधीनां च भूमेश च जनमेजय जानन्ति सिथ्धा राजेन्थ्र नष्टाम अपि सरस्वतीम |
1
[j] pūrvam eva yadā rāmas tasmin yuddhe upasthite āmantrya keśavaṃ yāto vṛṣṇibhiḥ sahitaḥ prabhuḥ 2 sāhāyyaṃ dhārtarāṣṭrasya na ca kartāsmi keśava na caiva pāṇḍuputrāṇāṃ gamiṣyāmi yathāgatam 3 evam uktvā tadā rāmo yātaḥ śatrunibarhaṇaḥ tasya cāgamanaṃ bhūyo brahmañ śaṃsitum arhasi 4 ākhyāhi me vistarataḥ kathaṃ rāma upasthitaḥ kathaṃ ca dṛṣṭavān yuddhaṃ kuśalo hy asi sattama 5 [vai] upaplavye niviṣṭeṣu pāṇḍaveṣu mahātmasu preṣito dhṛtarāṣṭrasya samīpaṃ madhusūdanaḥ śamaṃ prati mahāvāho hitārthaṃ sarvadehinām 6 sa gatvā hāstinapuraṃ dhṛtarāṣṭraṃ sametya ca uktavān vacanaṃ tathyaṃ hitaṃ caiva viśeṣataḥ na ca tat kṛtavān rājā yathākhyātaṃ hi te purā 7 anavāpya śamaṃ tatra kṛṣṇaḥ puruṣasattamaḥ āgacchata mahābāhur upaplavyaṃ janādhipa 8 tataḥ pratyāgataḥ kṛṣṇo dhārtarāṣṭra visarjitaḥ akriyāyāṃ naravyāghra pāṇḍavān idam abravīt 9 na kurvanti vaco mahyaṃ kuravaḥ kālacoditāḥ nirgacchadhvaṃ pāṇḍaveyāḥ puṣyeṇa sahitā mayā 10 tato vibhajyamāneṣu baleṣu balināṃ varaḥ provāca bhrātaraṃ kṛṣṇaṃ rauhiṇeyo mahāmanāḥ 11 teṣām api mahābāho sāhāyyaṃ madhusūdana kriyatām iti tat kṛṣṇo nāsya cakre vacas tadā 12 tato manyuparītātmā jagāma yadunandanaḥ tīrthayātrāṃ haladharaḥ sarasvatyāṃ mahāyaśāḥ maitre nakṣatrayoge sma sahitaḥ sarvayādavaiḥ 13 āśrayām āsa bhojas tu duryodnanam ariṃdamaḥ yuyudhānena sahito vāsudevas tu pāṇḍavān 14 rauhiṇeye gate śūre puṣyeṇa madhusūdanaḥ pāṇḍaveyān puraskṛtya yayāv abhimukhaḥ kurūn 15 gacchan eva pathisthas tu rāmaḥ preṣyān uvāca hā saṃbhārāṃs tīrthayātrāyāṃ sārvopakaraṇāni ca ānayadhvaṃ dvārakāyā agnīn vai yājakāṃs tathā 16 suvarṇaṃ rajataṃ caiva dhenur vāsāṃsi vājinaḥ kuñjarāṃś ca rathāṃś caiva kharoṣṭraṃ vāhanāni ca kṣipram ānīyatāṃ sarvaṃ tīrthahetoḥ paricchadam 17 pratisrotaḥ sarasvatyā gachadhvaṃ śīghragāminaḥ ṛtvijaś cānayadhvaṃ vai śataśaś ca dvijarṣabhān 18 evaṃ saṃdiśya tu preṣyān baladevo mahābalaḥ tīrthayātrāṃ yayau rājan kurūṇāṃ vaiśase tadā sarasvatīṃ pratisrotaḥ samudrād abhijagmivān 19 ṛtvigbhiś ca suhṛdbhiś ca tathānyair dvijasattamaiḥ rathagarjais tathāśvaiś ca preṣyaiś ca bharatarṣabha gokharoṣṭra prayuktaiś ca yānaiś ca bahubhir vṛtaḥ 20 śrāntānāṃ klāntavapuṣāṃ śiśūnāṃ vipulāyuṣām tāni yānāni deśeṣu pratīkṣyante sma bhārata bubhukṣitānām arthāya kḷptam annaṃ samantataḥ 21 yo yo yatra dvijo bhoktuṃ kāmaṃ kāmayate tadā tasya tasya tu tatraivam upajahrus tadā nṛpa 22 tatra sthitā narā rājan rauhiṇeyasya śāsanāt bhakṣyapeyasya kurvanti rāśīṃs tatra samantataḥ 23 vāsāṃsi ca mahārhāṇi paryaṅkāstaraṇāni ca pūjārthaṃ tatra kḷptāni viprāṇāṃ sukham icchatām 24 yatra yaḥ svapate vipraḥ kṣatriyo vāpi bhārata tatra tatra tu tasyaiva sarvaṃ kḷptam adṛśyata 25 yathāsukhaṃ janaḥ sarvas tiṣṭhate yāti vā tadā yātu kāmasya yānāni pānāni tṛṣitasya ca 26 bubhukṣitasyā cānnāni svādūni bharatarṣabha upajahrur narās tatra vastrāṇy ābharaṇāni ca 27 sa panthāḥ prababhau rājan sarvasyaiva sukhāvahaḥ svargopamas tadā vīra narāṇāṃ tatra gacchatām 28 nityapramuditopetaḥ svādu bhakṣaḥ śubhānvitaḥ vipaṇyāpaṇa paṇyānāṃ nānājanaśatair vṛtaḥ nānādrumalatopeto nānāratnavibhūṣitaḥ 29 tato mahātmā niyame sthitātmā; puṇyeṣu tīrtheṣu vasūni rājan dadau dvijebhyaḥ kratudakṣiṇāś ca; yadupravīro halabhṛt pratītaḥ 30 dogbhrīś ca dhenūś ca sahasraśo vai; suvāsasaḥ kāñcanabaddhaśṛṅgīḥ hayāṃś ca nānāvidha deśajātān; yānāni dāsīś ca tathā dvijebhyaḥ 31 ratnāni muktāmaṇividrumaṃ ca; śṛṅgī suvarṇaṃ rajataṃ ca śubhram ayo mayaṃ tāmramayaṃ ca bhāṇḍaṃ; dadau dvijātipravareṣu rāmaḥ 32 evaṃ sa vittaṃ pradadau mahātmā; sarasvatī tīrthavareṣu bhūri yayau krameṇāpratima prabhāvas; tataḥ kurukṣetram udāravṛttaḥ 33 [j] sārasvatānāṃ tīrthānāṃ guṇotpattiṃ vadasva me phalaṃ ca dvipadāṃ śreṣṭha karma nirvṛttim eva ca 34 yathākramaṃ ca bhagavaṃs tīrthānām anupūrvaśaḥ brahman brahmavidāṃ śreṣṭha paraṃ kautūhalaṃ hi me 35 [vai] tīrthānāṃ vistaraṃ rājan guṇotpattiṃ ca sarvaśaḥ mayocyamānāṃ śṛṇu vai puṇyāṃ rājendra kṛtsnaśaḥ 36 pūrvaṃ mahārāja yadupravīra; ṛtvik suhṛd vipra gaṇaiś ca sārdham puṇyaṃ prabhāsaṃ samupājagāma; yatroḍu rāḍ yakṣmaṇā kliśyamānaḥ 37 vimuktaśāpaḥ punar āpya tejaḥ; sarvaṃ jagad bhāsayate narendra evaṃ tu tīrthapravaraṃ pṛthivyāṃ; prabhāsanāt tasya tataḥ prabhāsaḥ 38 [j] kimarthaṃ bhagavān somo yakṣmaṇā samagṛhyata kathaṃ ca tīrthapravare tasmiṃś candro nyamajjata 39 katham āplutya tasmiṃs tu punar āpyāyitaḥ śaśī etan me sarvam ācakṣva vistareṇa mahāmune 40 [vai] dakṣasya tanayā yās tāḥ prādurāsan viśāṃ pate sa sapta viṃśatiṃ kanyā dakṣaḥ somāya vai dadau 41 nakṣatrayoganiratāḥ saṃkhyānārthaṃ ca bhārata patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ 42 tās tu sarvā viśālākṣyo rūpeṇāpratimā bhuvi atyaricyata tāsāṃ tu rohiṇī rūpasaṃpadā 43 tatas tasyāṃ sa bhagavān prītiṃ cakre niśākaraḥ sāsya hṛdya babhūvādya tasmāt tāṃ bubhuje sadā 44 purā hi somo rājendra rohiṇyām avasac ciram tato 'sya kupitāny āsan nakṣatrāṇi mahātmanaḥ 45 tā gatvā pitaraṃ prāhuḥ prajāpatim atandritāḥ somo vasati nāsmāsu rohiṇīṃ bhajate sadā 46 tā vayaṃ sahitāḥ sarvās tvatsakāśe prajeśvara vatsyāmo niyatāhārās tapaścaraṇatatparāḥ 47 śrutvā tāsāṃ tu vacanaṃ dakṣaḥ somam athābravīt samaṃ vartasya bhāryāsu mā tvādharmo mahān spṛśet 48 tāś ca sarvābravīd dakṣo gacchadhvaṃ somam antikāt samaṃ vatsyati sarvāsu candramā mama śāsanāt 49 visṛṣṭās tās tadā jagmuḥ śītāṃśubhavanaṃ tadā tathāpi somo bhagavān punar eva mahīpate rohiṇīṃ nivasaty eva prīyamāṇo muhur muhuḥ 50 tatas tāḥ sahitāḥ sarvā bhūyaḥ pitaram abruvan tava śuśrūṣaṇe yuktā vatsyāmo hi tavāśrame somo vasati nāsmāsu nākarod vacanaṃ tava 51 tāsāṃ tad vacanaṃ śrutvā dakṣaḥ somam athābravīt samaṃ vartasva bhāryāsu mā tvāṃ śapsye virocana 52 anādṛtya tu tad vākyaṃ dakṣasya bhagavāñ śaśī rohiṇyā sārdham avasat tatas tāḥ kupitāḥ punaḥ 53 gatvā ca pitaraṃ prāhuḥ praṇamya śirasā tadā somo vasati nāsmāsu tasmān naḥ śaraṇaṃ bhava 54 rohiṇyām eva bhagavan sadā vasati candramāḥ tasmān nas trāhi sarvā vai yathā naḥ soma āviśet 55 tac chrutvā bhagavān kruddho yakṣmāṇaṃ pṛthivīpate sasarva roṣāt somāya sa coḍu patim āviśat 56 sa yakṣmaṇābhibhūtātmākṣīyatāhar ahaḥ śaśī yatnaṃ cāpy akarod rājan mokṣārthaṃ tasya yakṣmaṇaḥ 57 iṣṭveṣṭibhir mahārāja vividhābhir niśākaraḥ na cāmucyata śāpād vai kṣayaṃ caivābhyagacchata 58 kṣīyamāṇe tataḥ some oṣadhyo na prajajñire nirāsvāda rasāḥ sarvā hatavīryāś ca sarvaśaḥ 59 oṣadhīnāṃ kṣaye jāte prāṇinām api saṃkṣayaḥ kṛśāś cāsan prajāḥ sarvāḥ kṣīyamāṇe niśākare 60 tato devāḥ samāgamya somam ūcur mahīpate kim idaṃ bhavato rūpam īdṛśaṃ na prakāśate 61 kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam śrutvā tu vacanaṃ tvatto vidhāsyāmas tato vayam 62 evam uktaḥ pratyuvāca sarvāṃs tāñ śaśalakṣaṇaḥ śāpaṃ ca kāraṇaṃ caiva yakṣmāṇaṃ ca tathātmanaḥ 63 devās tasya vacaḥ śrutvā gatvā dakṣam athābruvan prasīda bhagavan some śāpaś caiṣa nivartyatām 64 asau hi candramāḥ kṣīṇaḥ kiṃ cic cheṣo hi lakṣyate kṣayāc caivāsya deveśa prajāś cāpi gatāḥ kṣayam 65 vīrud oṣadhayaś caiva bījāni vividhāni ca tathā vayaṃ lokaguro prasādaṃ kartum arhasi 66 evam uktas tadā cintya prāha vākyaṃ prajāpatiḥ naitac chakyaṃ mama vaco vyāvartayitum anyathā hetunā tu mahābhāgā nivartiṣyati kena cit 67 samaṃ vartatu sarvāsu śaśī bhāryāsu nityaśaḥ sarasvatyā vare tīrthe unmajjañ śaśalakṣaṇaḥ punar vardhiṣyate devās tad vai satyaṃ vaco mama 68 māsārdhaṃ ca kṣayaṃ somo nityam eva gamiṣyati māsārdhaṃ ca tadā vṛddhiṃ satyam etad vaco mama 69 sarasvatīṃ tataḥ somo jagāma ṛṣiśāsanāt prabhāsaṃ paramaṃ tīrthaṃ sarasvatyā jagāma ha 70 amāvāsyāṃ mahātejās tatronmajjan mahādyutiḥ lokān prabhāsayām āsa śītāṃśutvam avāpa ca 71 devāś ca sarve rājendra prabhāsaṃ prāpya puṣkalam somena sahitā bhūtvā dakṣasya pramukhe 'bhavan 72 tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ somaṃ ca bhagavān prīto bhūyo vacanam abravīt 73 māvamaṃsthāḥ striyaḥ putra mā ca viprān kadā cana gaccha yuktasadā bhūtvā kuru vai śāsanaṃ mama 74 sa visṛṣṭo mahārāja jagāmātha svam ālayam prajāś ca muditā bhūtvā bhojane ca yathā purā 75 etat te sarvam ākhyātaṃ yathā śapto niśākaraḥ prabhāsaṃ ca yathā tīrthaṃ tīrthānāṃ pravaraṃ hy abhūt 76 amāvāsyāṃ mahārāja nityaśaḥ śaśalakṣaṇaḥ snātvā hy āpyāyate śrīmān prabhāse tīrtha uttame 77 ataś cainaṃ prajānanti prabhāsam iti bhūmipa prabhāṃ hi paramāṃ lebhe tasminn unmajjya candramāḥ 78 tatas tu camasodbhedam acyutas tv agamad balī camasodbheda ity evaṃ yaṃ janāḥ kathayanty uta 79 tatra dattvā ca dānāni viśiṣṭāni halāyudhaḥ uṣitvā rajanīm ekāṃ snātvā ca vidhivat tadā 80 udapānam athāgacchat tvarāvān keśavāgrajaḥ ādyaṃ svastyayanaṃ caiva tatrāvāpya mahat phalam 81 snigdhatvād oṣadhīnāṃ ca bhūmeś ca janamejaya jānanti siddhā rājendra naṣṭām api sarasvatīm |