1
[वै] ततॊ ऽभिषेका संभारान सर्वान संभृत्य शास्त्रतः बृहस्पतिः समिथ्धे ऽगनौ जुहावाज्यं यदाविधि 2 ततॊ हिमवता थत्ते मणिप्रवर शॊभिते थीव्य रत्नाचिते थिव्ये निषण्णः परमासने 3 सर्वमङ्गल संभारैर विधिमन्त्रपुरस्कृतम आभिषेचनिकं थरव्यं गृहीत्वा थेवता गणाः 4 इन्थ्राविष्णू महावीर्यौ सूर्याचन्थ्रमसौ तदा धाता चैव विधाता च तदा चैवानिलानलौ 5 पूष्णा भगेनार्यम्णा च अंशेन च विवस्वता रुथ्रश च सहितॊ धीमान मित्रेण वरुणेन च 6 रुथ्रैर वसुभिर आथित्यैर अश्विभ्यां च वृतः परभुः विश्वे थेवैर मरुथ्भिश च साध्यैश च पितृभिः सह 7 गन्धर्वैर अप्सरॊभिश च यक्षराक्षस पन्नगैः थेवर्षिभिर असंख्येयैस तदा बरह्मर्षिभिर वरैः 8 वैखानसैर वालखिल्यैर वाय्वाहारैर मरीचिपैः भृगुभिश चाङ्गिरॊभिश च यतिभिश च महात्मभिः सर्वैर विथ्याधरैः पुण्यैर यॊगसिथ्धैस तदा वृतः 9 पितामहः पुलस्त्यश च पुलहश च महातपाः अङ्गिराः कश्यपॊ ऽतरिश च मरीचिर भृगुर एव च 10 ऋतुर हरः परचेताश च मनुर थक्षस तदैव च ऋतवश च गरहाश चैव जयॊतींषि च विशां पते 11 मूर्तिमत्यश च सरितॊ वेथाश चैव सनातनाः समुथ्राश च हरथाश चैव तीर्दानि विविधानि च पृदिवी थयौर थिशश चैव पाथपाश च जनाधिप 12 अथितिर थेव माता च हरीः शरीः सवाहा सरस्वती उमा शची सिनीवाली तदा चानुमतिः कुहूः राका च धिषणा चैव पत्न्यश चान्या थिवौकसाम 13 हिमवांश चैव विन्ध्यश च मेरुश चानेक शृङ्गवान ऐरावतः सानुचरः कलाः काष्टास तदैव च मासार्ध मासा ऋतवस तदा रात्र्यहनी नृप 14 उच्चैःश्रवा हयश्रेष्ठॊ नागराजश च वामनः अरुणॊ गरुडश चैव वृक्षाश चौषधिभिः सह 15 धर्मश च भगवान थेवः समाजग्मुर हि संगताः कालॊ यमश च मृत्युश च यमस्यानुचराश च ये 16 बहुलत्वाच च नॊक्ता ये विविधा थेवता गणाः ते कुमाराभिषेकार्दं समाजग्मुस ततस ततः 17 जगृहुस ते तथा राजन सर्व एव थिवौकसः आभिषेचनिकं भाण्डं मङ्गलानि च सर्वशः 18 थिव्यसंभार संयुक्तैः कलशैः काञ्चनैर नृप सरस्वतीभिः पुण्याभिर थिव्यतॊयभिर एव तु 19 अभ्यषिञ्चन कुमारं वै संप्रहृष्टा थिवौकसः सेनापतिं महात्मानम असुराणां भयावहम 20 पुरा यदा महाराज वरुणं वै जलेश्वरम तदाभ्यषिञ्चथ भगवान बरह्मा लॊकपितामहः कश्यपश च महातेजा ये चान्ये नानुकीर्तिताः 21 तस्मै बरह्मा थथौ परीतॊ बलिनॊ वातरंहसः कामवीर्यधरान सिथ्धान महापारिषथान परभुः 22 नन्थिषेणं लॊहिताक्षं घण्डा कर्णं च संमतम चतुर्दम अस्यानुचरं खयातं कुमुथमालिनम 23 ततः सदाणुं महावेगं महापारिषडं करतुम माया शतधरं कामं कामवीर्यबलान्वितम थथौ सकन्थाय राजेन्थ्र सुरारिविनिबर्हणम 24 स हि थेवासुरे युथ्धे थैत्यानां भीमकर्मणाम जघान थॊर्भ्यां संक्रुथ्धः परयुतानि चतुर्थश 25 तदा थेव थथुस तस्मै सेनां नैरृतसांकुलाम थेवशत्रुक्षयकरीम अजय्यां विश्वरूपिणीम 26 जयशब्थं ततश चक्रुर थेवाः सर्वे सवासवाः गन्धर्वयक्षा रक्षांसि मुनयः पितरस तदा 27 यमः पराथाथ अनुचरौ यम कालॊपमाव उभौ उन्मादं च परमादं च महावीर्यौ महाथ्युती 28 सुभ्राजॊ भास्करश चैव यौ तौ सूर्यानुयायिनौ तौ सूर्यः कार्त्तिकेयाय थथौ परीतः परतापवान 29 कैलासशृङ्गसंकाशौ शवेतमाल्यानुलेपनौ सॊमॊ ऽपय अनुचरौ पराथान मणिं सुमणिम एव च 30 जवाला जिह्वं तदा जयॊतिर आत्मजाय हुताशनः थथाव अनुचरौ शूरौ परसैन्यप्रमादिनौ 31 परिघं च वटं चैव भीमं च सुमहाबलम थहतिं थहनं चैव परचण्डौ वीर्यसंमतौ अंशॊ ऽपय अनुचरान पञ्च थथौ सकन्थाय धीमते 32 उत्क्रॊशं पङ्कजं चैव वज्रथण्डधराव उभौ थथाव अनल पुत्राय वासवः परवीरहा तौ हि शत्रून महेन्थ्रस्य जघ्नतुः समरे बहून 33 चक्रं विक्रमकं चैव संक्रमं च महाबलम सकन्थाय तरीन अनुचरान थथौ विष्णुर महायशाः 34 वर्धनं नन्थनं चैव सर्वविथ्या विशारथौ सकन्थाय थथतुः परीताव अश्विनौ भरतर्षभ 35 कुन्थनं कुसुमं चैव कुमुथं च महायशाः डम्बराडम्बरौ चैव थथौ धाता महात्मने 36 वक्रानुवक्रौ बलिनौ मेषवक्त्रौ बलॊत्कटौ थथौ तवष्टा महामायौ सकन्थायानुचरौ वरौ 37 सुव्रतं सत्यसंधं च थथौ मित्रॊ महात्मने कुमाराय महात्मानौ तपॊ विथ्याधरौ परभुः 38 सुथर्शनीयौ वरथौ तरिषु लॊकेषु विश्रुतौ सुप्रभं च महात्मानं शुभकर्माणम एव च कार्त्तिकेयाय संप्राथाथ विधाता लॊकविश्रुतौ 39 पालितकं कालिकं च महामायाविनाव उभौ पूषा च पार्षथौ पराथात कार्त्तिकेयाय भारत 40 बलं चातिबलं चैव महावक्त्रौ महाबलौ परथथौ कार्त्तिकेयाय वायुर भरतसत्तम 41 घसं चातिघसं चैव तिमिवक्त्रौ महाबलौ परथथौ कार्त्तिकेयाय वरुणः सत्यसंगरः 42 सुवर्च्चसं महात्मानं तदैवाप्य अतिवर्चसाम हिमवान परथथौ राजन हुताशनसुताय वै 43 काञ्चनं च महात्मानं मेघमालिनम एव च थथाव आनुचरौ मेरुर अग्निपुत्राय भारत 44 सदिरं चातिस्दिरं चैव मेरुर एवापरौ थथौ महात्मने ऽगनिपुत्राय महाबलपराक्रमौ 45 उच्छ्रितं चातिशृङ्गं च महापाषाण यॊधनौ परथथाव अग्निपुत्राय विन्ध्यः पारिषथाव उभौ 46 संग्रहं विग्रहं चैव समुथ्रॊ ऽपि गथाधरौ परथथाव अग्निपुत्राय महापारिषथाव उभौ 47 उन्माथं पुष्पथन्तं च शङ्कुकर्णं तदैव च परथथाव अग्निपुत्राय पार्वती शुभथर्शना 48 जयं महाजयं चैव नागौ जवलनसूनवे परथथौ पुरुषव्याघ्र वासुकिः पन्नगेश्वरः 49 एवं साख्याश च रुथ्राश च वसवः पितरस तदा सागराः सरितश चैव गिरयश च महाबलाः 50 थथुः सेनागणाध्यक्षाञ शूलपट्टिशधारिणः थिव्यप्रहरणॊपेतान नानावेषविभूषितान 51 शृणु नामानि चान्येषां ये ऽनये सकन्थस्य सैनिकाः विविधायुधसंपन्नाश चित्राभरण वर्मिणः 52 शङ्कुकर्णॊ निकुम्भश च पथ्मः कुमुथ एव च अनन्तॊ थवाथश भुजस तदा कृष्णॊपकृष्णकौ 53 थरॊण शरवाः कपिस्कन्धः काञ्चनाक्षॊ जलं धमः अक्षसंतर्जनॊ राजन कुनथीकस तमॊ ऽभरकृत 54 एकाक्षॊ थवाथशाक्षश च तदैवैक जटः परभुः सहस्रबाहुर विकटॊ वयाघ्राक्षः कषितिकम्पनः 55 पुण्यनामा सुनामा च सुवक्त्रः परियथर्शनः परिश्रुतः कॊक नथः परिय माल्यानुलेपनः 56 अजॊथरॊ गजशिराः सकन्धाक्षः शतलॊचनः जवाला जिह्वः करालश च सितकेशॊ जटी हरिः 57 चतुर्थंष्ट्रॊ ऽषट जिह्वश च मेघनाथः पृदुश्रवाः विथ्युथ अक्षॊ धनुर वक्त्रॊ जठरॊ मारुताशनः 58 उथराक्षॊ झषाक्षश च वज्रनाभॊ वसु परभः समुथ्रवेगॊ राजेन्थ्र शैलकम्पी तदैव च 59 पुत्र मेषः परवाहश च तदा नन्थॊपनन्थकौ धूम्रः शवेतः कलिङ्गश च सिथ्धार्दॊ वरथस तदा 60 परियकश चैव नन्थश च गॊनन्थश च परतापवान आनन्थश च परमॊथश च सवस्तिकॊ धरुवकस तदा 61 कषेमवापः सुजातश च सिथ्धयात्रश च भारत गॊव्रजः कनकापीडॊ महापारिषथेश्वरः 62 गायनॊ हसनश चैव बाणः खड्गश च वीर्यवान वैताली चातिताली च तदा कतिक वातिकौ 63 हंसजः पङ्कथिग्धाङ्गः समुथ्रॊन्माथनश च ह रणॊत्कटः परहासश च शवेतशीर्षश च नन्थकः 64 कालकण्ठः परभासश च तदा कुम्भाण्डकॊ ऽपरः कालकाक्षः सितश चैव भूतलॊन्मदनस तदा 65 यज्ञवाहः परवाहश च थेव याजी च सॊमपः सजालश च महातेजाः करद करादौ च भारत 66 तुहनश च तुहानश च चित्रथेवश च वीर्यवान मधुरः सुप्रसाथश च किरीटी च महाबलः 67 वसवॊ मधुवर्णश च कलशॊथर एव च धमन्तॊ मन्मदकरः सूचीवक्त्रश च वीर्यवान 68 शवेतवक्त्रः सुवक्त्रश च चारु वक्त्रश च पाण्डुरः थण्डबाहुः सुबाहुश च रजः कॊकिलकस तदा 69 अचलः कनकाक्षश च बालानाम अयिकः परभुः संचारकः कॊक नथॊ गृध्रवक्त्रश च जम्बुकः 70 लॊहाश वक्त्रॊ जठरः कुम्भवक्त्रश च कुण्डकः मथ्गुग्रीवश च कृष्णौजा हंसवक्त्रश च चन्थ्र भाः 71 पाणिकूर्मा च शम्बूकः पञ्चवक्त्रश च शिक्षकः चाष वक्त्रश च जम्बूकः शाकवक्त्रश च कुण्डकः 72 यॊगयुक्ता महात्मानः सततं बराह्मण परियाः पैतामहा महात्मानॊ महापारिषथाश च ह यौवनस्दाश च बालाश च वृथ्धाश च जनमेजय 73 सहस्रशः पारिषथाः कुमारम उपतस्दिरे वक्त्रैर नानाविधैर ये तु शृणु ताञ जनमेजय 74 कूर्मकुक्कुटवक्त्राश च शशॊलूक मुखास तदा खरॊष्ट्रवथनाश चैव वराहवथनास तदा 75 मनुष्यमेष वक्त्राश च सृगालवथनास तदा भीमा मकर वक्त्राश च शिशुमार मुखास तदा 76 मार्जारशशवक्त्राश च थीर्घवक्त्राश च भारत नकुलॊलूक वत्राश च शववाक्त्राश च तदापरे 77 आखु बभ्रुक वक्त्रश च मयूरवथनास तदा मत्स्यमेषाननाश चान्ये अजावि महिषाननाः 78 ऋक्षशार्थूल वक्त्राश च थवीपिसिंहाननास तदा भीमा गजाननाश चैव तदा नक्रमुखाः परे 79 गरुडाननाः खड्गमुखा वृककाकमुखास तदा गॊखरॊष्ट्र मुखाश चान्ये वृषथंश मुखास तदा 80 महाजठर पाथाङ्गास तारकाक्शाश च भारत पारावत मुखाश चान्ये तदा वृषमुखाः परे 81 कॊकिला वथनाश चान्ये शयेनतित्तिरिकाननाः कृकलास मुखाश चैव विरजॊऽमबरधारिणः 82 वयालवक्त्राः शूलमुखाश चण्डवक्त्राः शताननाः आशीविषाश चीरधरा गॊनासावरणास तदा 83 सदूलॊथराः कृशाङ्गाश च सदूलाङ्गश च कृशॊथराः हरस्वग्रीवा महाकर्णा नानाव्यालविभूषिताः 84 गजेन्थ्र चर्म वसनास तदा कृष्णाजिनाम्बराः सकन्धे मुखा महाराज तदा हय उथरतॊ मुखाः 85 पृष्ठे मुखा हनुमुखास तदा जङ्घा मुखा अपि पार्श्वाननाश च बहवॊ नानाथेशमुखास तदा 86 तदा कीट पतंगानां सथृशास्या गणेश्वराः नानाव्यालमुखाश चान्ये बहु बाहुशिरॊ धराः 87 नानावृक्षभुजाः केच चित कटि शीर्षास तदापरे भुजंगभॊग वथना नानागुल्मनिवासिनः 88 चीरसंवृत गात्राश च तदा फलकवाससः नानावेषधराश चैव चर्म वासस एव च 89 उष्णीषिणॊ मुकुटिनः कम्बुग्रीवाः सुवर्चसः किरीटिनः पञ्च शिखास तदा कठिन मूर्धजाः 90 तरिशिठा थविशिखाश चैव तदा सप्त शिखाः परे शिखण्डिनॊ मुकुटिनॊ मुण्डाश च जटिलास तदा 91 चित्रमाल्यधराः केच चित केच चिथ रॊमाननास तदा थिव्यमाल्याम्बरधराः सततं परियविग्रहाः 92 कृष्णा निर्मांस वक्त्राश च थीर्घपृष्टा निरूथराः सदूलपृष्ठा हरस्वपृष्ठाः परलम्बॊथर मेहनाः 93 महाभुजा हरस्वभुजा हरस्वगात्रश च वामनाः कुब्जाश च थीर्घजङ्घाश च हस्तिकर्ण शिरॊधराः 94 हस्तिनासाः कूर्मनासा वृकनासास तदापरे थीर्घौष्ठा थीर्घजिह्वाश च विकराला हय अधॊमुखाः 95 महाथंष्ट्रा हरस्वथंष्ट्राश चतुर्थंष्ट्रास तदापरे वारणेन्थ्र निभाश चान्ये भीमा राजन सहस्रशः 96 सुविभक्तशरीराश च थीप्तिमन्तः सवलंकृताः पिङ्गाक्षाः शङ्कुकर्णाश च वक्रनासाश च भारत 97 पृदु थंष्ट्रामहा थंष्ट्राः सदूलौष्ठा हरि मूर्धजाः नाना पाथौष्ठ थंष्ट्राश च नाहा हस्तशिरॊ धराः नाना वर्मभिर आच्छन्ना नाना भाषाश च भारत 98 कुशला थेशभाषासु जल्पन्तॊ ऽनयॊन्यम ईश्वराः हृष्टाः परिपतन्ति सम महापारिषथास तदा 99 थीर्घग्रीवा थीर्घनखा थीर्घपाथशिरॊ भुजाः पिङ्गाक्षा नीलकण्ठाश च लम्बकर्णाश च भारत 100 वृकॊथर निभाश चैव के चिथ अञ्जनसंनिभाः शवेताङ्गा लॊहितग्रीवाः पिङ्गाक्षाश च तदापरे कल्माषा बहवॊ राजंश चित्रवर्णाश च भारत 101 चामरापीडक निभाः शवेतलॊहित राजयः नानावर्णाः सवर्णाश च मयूरसथृशप्रभाः 102 पुनः परहरणान्य एषां कीर्त्यमानानि मे शृणु शेषैः कृतं पारिषथैर आयुधानां परिग्रहम 103 पाशॊथ्यत कराः के चिथ वयाथितास्याः खराननाः पृद्व अक्षा नीलकण्ठाश च तदा परिघबाहवः 104 शतघ्नी चक्रहस्ताश च तदा मुसलपाणयः शूलासिहस्ताश च तदा महाकाया महाबलाः 105 गथा भुशुण्डि हस्ताश च तदा तॊमरपाणयः असि मुथ्गरहस्ताश च थण्डहस्ताश च भारत 106 आयुधैर विविधैर घॊरैर महात्मानॊ महाजवाः महाबला महावेगा महापारिषथास तदा 107 अभिषेकं कुमारस्य थृष्ट्वा हृष्टा रणप्रियाः घण्टाजालपिनथ्धाङ्गा ननृतुस ते महौजसः 108 एते चान्ये च बहवॊ महापारिषथा नृप उपतस्दुर महात्मानं कार्त्तिकेयं यशस्विनम 109 थिव्याश चाप्य आन्तरिक्षाश च पार्दिवाश चानिलॊपमाः वयाथिष्टा थैवतैः शूराः सकन्थस्यानुचराभवन 110 ताथृशानां सहस्राणि परयुतान्य अर्बुथानि च अभिषिक्तं महात्मानं परिवार्यॊपतस्दिरे |
1
[vai] tato 'bhiṣekā saṃbhārān sarvān saṃbhṛtya śāstrataḥ bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi 2 tato himavatā datte maṇipravara śobhite dīvya ratnācite divye niṣaṇṇaḥ paramāsane 3 sarvamaṅgala saṃbhārair vidhimantrapuraskṛtam ābhiṣecanikaṃ dravyaṃ gṛhītvā devatā gaṇāḥ 4 indrāviṣṇū mahāvīryau sūryācandramasau tathā dhātā caiva vidhātā ca tathā caivānilānalau 5 pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā rudraś ca sahito dhīmān mitreṇa varuṇena ca 6 rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ viśve devair marudbhiś ca sādhyaiś ca pitṛbhiḥ saha 7 gandharvair apsarobhiś ca yakṣarākṣasa pannagaiḥ devarṣibhir asaṃkhyeyais tathā brahmarṣibhir varaiḥ 8 vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ bhṛgubhiś cāṅgirobhiś ca yatibhiś ca mahātmabhiḥ sarvair vidyādharaiḥ puṇyair yogasiddhais tathā vṛtaḥ 9 pitāmahaḥ pulastyaś ca pulahaś ca mahātapāḥ aṅgirāḥ kaśyapo 'triś ca marīcir bhṛgur eva ca 10 ṛtur haraḥ pracetāś ca manur dakṣas tathaiva ca ṛtavaś ca grahāś caiva jyotīṃṣi ca viśāṃ pate 11 mūrtimatyaś ca sarito vedāś caiva sanātanāḥ samudrāś ca hradāś caiva tīrthāni vividhāni ca pṛthivī dyaur diśaś caiva pādapāś ca janādhipa 12 aditir deva mātā ca hrīḥ śrīḥ svāhā sarasvatī umā śacī sinīvālī tathā cānumatiḥ kuhūḥ rākā ca dhiṣaṇā caiva patnyaś cānyā divaukasām 13 himavāṃś caiva vindhyaś ca meruś cāneka śṛṅgavān airāvataḥ sānucaraḥ kalāḥ kāṣṭās tathaiva ca māsārdha māsā ṛtavas tathā rātryahanī nṛpa 14 uccaiḥśravā hayaśreṣṭho nāgarājaś ca vāmanaḥ aruṇo garuḍaś caiva vṛkṣāś cauṣadhibhiḥ saha 15 dharmaś ca bhagavān devaḥ samājagmur hi saṃgatāḥ kālo yamaś ca mṛtyuś ca yamasyānucarāś ca ye 16 bahulatvāc ca noktā ye vividhā devatā gaṇāḥ te kumārābhiṣekārthaṃ samājagmus tatas tataḥ 17 jagṛhus te tadā rājan sarva eva divaukasaḥ ābhiṣecanikaṃ bhāṇḍaṃ maṅgalāni ca sarvaśaḥ 18 divyasaṃbhāra saṃyuktaiḥ kalaśaiḥ kāñcanair nṛpa sarasvatībhiḥ puṇyābhir divyatoyabhir eva tu 19 abhyaṣiñcan kumāraṃ vai saṃprahṛṣṭā divaukasaḥ senāpatiṃ mahātmānam asurāṇāṃ bhayāvaham 20 purā yathā mahārāja varuṇaṃ vai jaleśvaram tathābhyaṣiñcad bhagavān brahmā lokapitāmahaḥ kaśyapaś ca mahātejā ye cānye nānukīrtitāḥ 21 tasmai brahmā dadau prīto balino vātaraṃhasaḥ kāmavīryadharān siddhān mahāpāriṣadān prabhuḥ 22 nandiṣeṇaṃ lohitākṣaṃ ghaṇḍā karṇaṃ ca saṃmatam caturtham asyānucaraṃ khyātaṃ kumudamālinam 23 tataḥ sthāṇuṃ mahāvegaṃ mahāpāriṣaḍaṃ kratum māyā śatadharaṃ kāmaṃ kāmavīryabalānvitam dadau skandāya rājendra surārivinibarhaṇam 24 sa hi devāsure yuddhe daityānāṃ bhīmakarmaṇām jaghāna dorbhyāṃ saṃkruddhaḥ prayutāni caturdaśa 25 tathā deva dadus tasmai senāṃ nairṛtasāṃkulām devaśatrukṣayakarīm ajayyāṃ viśvarūpiṇīm 26 jayaśabdaṃ tataś cakrur devāḥ sarve savāsavāḥ gandharvayakṣā rakṣāṃsi munayaḥ pitaras tathā 27 yamaḥ prādād anucarau yama kālopamāv ubhau unmāthaṃ ca pramāthaṃ ca mahāvīryau mahādyutī 28 subhrājo bhāskaraś caiva yau tau sūryānuyāyinau tau sūryaḥ kārttikeyāya dadau prītaḥ pratāpavān 29 kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau somo 'py anucarau prādān maṇiṃ sumaṇim eva ca 30 jvālā jihvaṃ tathā jyotir ātmajāya hutāśanaḥ dadāv anucarau śūrau parasainyapramāthinau 31 parighaṃ ca vaṭaṃ caiva bhīmaṃ ca sumahābalam dahatiṃ dahanaṃ caiva pracaṇḍau vīryasaṃmatau aṃśo 'py anucarān pañca dadau skandāya dhīmate 32 utkrośaṃ paṅkajaṃ caiva vajradaṇḍadharāv ubhau dadāv anala putrāya vāsavaḥ paravīrahā tau hi śatrūn mahendrasya jaghnatuḥ samare bahūn 33 cakraṃ vikramakaṃ caiva saṃkramaṃ ca mahābalam skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ 34 vardhanaṃ nandanaṃ caiva sarvavidyā viśāradau skandāya dadatuḥ prītāv aśvinau bharatarṣabha 35 kundanaṃ kusumaṃ caiva kumudaṃ ca mahāyaśāḥ ḍambarāḍambarau caiva dadau dhātā mahātmane 36 vakrānuvakrau balinau meṣavaktrau balotkaṭau dadau tvaṣṭā mahāmāyau skandāyānucarau varau 37 suvrataṃ satyasaṃdhaṃ ca dadau mitro mahātmane kumārāya mahātmānau tapo vidyādharau prabhuḥ 38 sudarśanīyau varadau triṣu lokeṣu viśrutau suprabhaṃ ca mahātmānaṃ śubhakarmāṇam eva ca kārttikeyāya saṃprādād vidhātā lokaviśrutau 39 pālitakaṃ kālikaṃ ca mahāmāyāvināv ubhau pūṣā ca pārṣadau prādāt kārttikeyāya bhārata 40 balaṃ cātibalaṃ caiva mahāvaktrau mahābalau pradadau kārttikeyāya vāyur bharatasattama 41 ghasaṃ cātighasaṃ caiva timivaktrau mahābalau pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ 42 suvarccasaṃ mahātmānaṃ tathaivāpy ativarcasām himavān pradadau rājan hutāśanasutāya vai 43 kāñcanaṃ ca mahātmānaṃ meghamālinam eva ca dadāv ānucarau merur agniputrāya bhārata 44 sthiraṃ cātisthiraṃ caiva merur evāparau dadau mahātmane 'gniputrāya mahābalaparākramau 45 ucchritaṃ cātiśṛṅgaṃ ca mahāpāṣāṇa yodhanau pradadāv agniputrāya vindhyaḥ pāriṣadāv ubhau 46 saṃgrahaṃ vigrahaṃ caiva samudro 'pi gadādharau pradadāv agniputrāya mahāpāriṣadāv ubhau 47 unmādaṃ puṣpadantaṃ ca śaṅkukarṇaṃ tathaiva ca pradadāv agniputrāya pārvatī śubhadarśanā 48 jayaṃ mahājayaṃ caiva nāgau jvalanasūnave pradadau puruṣavyāghra vāsukiḥ pannageśvaraḥ 49 evaṃ sākhyāś ca rudrāś ca vasavaḥ pitaras tathā sāgarāḥ saritaś caiva girayaś ca mahābalāḥ 50 daduḥ senāgaṇādhyakṣāñ śūlapaṭṭiśadhāriṇaḥ divyapraharaṇopetān nānāveṣavibhūṣitān 51 śṛṇu nāmāni cānyeṣāṃ ye 'nye skandasya sainikāḥ vividhāyudhasaṃpannāś citrābharaṇa varmiṇaḥ 52 śaṅkukarṇo nikumbhaś ca padmaḥ kumuda eva ca ananto dvādaśa bhujas tathā kṛṣṇopakṛṣṇakau 53 droṇa śravāḥ kapiskandhaḥ kāñcanākṣo jalaṃ dhamaḥ akṣasaṃtarjano rājan kunadīkas tamo 'bhrakṛt 54 ekākṣo dvādaśākṣaś ca tathaivaika jaṭaḥ prabhuḥ sahasrabāhur vikaṭo vyāghrākṣaḥ kṣitikampanaḥ 55 puṇyanāmā sunāmā ca suvaktraḥ priyadarśanaḥ pariśrutaḥ koka nadaḥ priya mālyānulepanaḥ 56 ajodaro gajaśirāḥ skandhākṣaḥ śatalocanaḥ jvālā jihvaḥ karālaś ca sitakeśo jaṭī hariḥ 57 caturdaṃṣṭro 'ṣṭa jihvaś ca meghanādaḥ pṛthuśravāḥ vidyud akṣo dhanur vaktro jaṭharo mārutāśanaḥ 58 udarākṣo jhaṣākṣaś ca vajranābho vasu prabhaḥ samudravego rājendra śailakampī tathaiva ca 59 putra meṣaḥ pravāhaś ca tathā nandopanandakau dhūmraḥ śvetaḥ kaliṅgaś ca siddhārtho varadas tathā 60 priyakaś caiva nandaś ca gonandaś ca pratāpavān ānandaś ca pramodaś ca svastiko dhruvakas tathā 61 kṣemavāpaḥ sujātaś ca siddhayātraś ca bhārata govrajaḥ kanakāpīḍo mahāpāriṣadeśvaraḥ 62 gāyano hasanaś caiva bāṇaḥ khaḍgaś ca vīryavān vaitālī cātitālī ca tathā katika vātikau 63 haṃsajaḥ paṅkadigdhāṅgaḥ samudronmādanaś ca ha raṇotkaṭaḥ prahāsaś ca śvetaśīrṣaś ca nandakaḥ 64 kālakaṇṭhaḥ prabhāsaś ca tathā kumbhāṇḍako 'paraḥ kālakākṣaḥ sitaś caiva bhūtalonmathanas tathā 65 yajñavāhaḥ pravāhaś ca deva yājī ca somapaḥ sajālaś ca mahātejāḥ kratha krāthau ca bhārata 66 tuhanaś ca tuhānaś ca citradevaś ca vīryavān madhuraḥ suprasādaś ca kirīṭī ca mahābalaḥ 67 vasavo madhuvarṇaś ca kalaśodara eva ca dhamanto manmathakaraḥ sūcīvaktraś ca vīryavān 68 śvetavaktraḥ suvaktraś ca cāru vaktraś ca pāṇḍuraḥ daṇḍabāhuḥ subāhuś ca rajaḥ kokilakas tathā 69 acalaḥ kanakākṣaś ca bālānām ayikaḥ prabhuḥ saṃcārakaḥ koka nado gṛdhravaktraś ca jambukaḥ 70 lohāśa vaktro jaṭharaḥ kumbhavaktraś ca kuṇḍakaḥ madgugrīvaś ca kṛṣṇaujā haṃsavaktraś ca candra bhāḥ 71 pāṇikūrmā ca śambūkaḥ pañcavaktraś ca śikṣakaḥ cāṣa vaktraś ca jambūkaḥ śākavaktraś ca kuṇḍakaḥ 72 yogayuktā mahātmānaḥ satataṃ brāhmaṇa priyāḥ paitāmahā mahātmāno mahāpāriṣadāś ca ha yauvanasthāś ca bālāś ca vṛddhāś ca janamejaya 73 sahasraśaḥ pāriṣadāḥ kumāram upatasthire vaktrair nānāvidhair ye tu śṛṇu tāñ janamejaya 74 kūrmakukkuṭavaktrāś ca śaśolūka mukhās tathā kharoṣṭravadanāś caiva varāhavadanās tathā 75 manuṣyameṣa vaktrāś ca sṛgālavadanās tathā bhīmā makara vaktrāś ca śiśumāra mukhās tathā 76 mārjāraśaśavaktrāś ca dīrghavaktrāś ca bhārata nakulolūka vatrāś ca śvavāktrāś ca tathāpare 77 ākhu babhruka vaktraś ca mayūravadanās tathā matsyameṣānanāś cānye ajāvi mahiṣānanāḥ 78 ṛkṣaśārdūla vaktrāś ca dvīpisiṃhānanās tathā bhīmā gajānanāś caiva tathā nakramukhāḥ pare 79 garuḍānanāḥ khaḍgamukhā vṛkakākamukhās tathā gokharoṣṭra mukhāś cānye vṛṣadaṃśa mukhās tathā 80 mahājaṭhara pādāṅgās tārakākśāś ca bhārata pārāvata mukhāś cānye tathā vṛṣamukhāḥ pare 81 kokilā vadanāś cānye śyenatittirikānanāḥ kṛkalāsa mukhāś caiva virajo'mbaradhāriṇaḥ 82 vyālavaktrāḥ śūlamukhāś caṇḍavaktrāḥ śatānanāḥ āśīviṣāś cīradharā gonāsāvaraṇās tathā 83 sthūlodarāḥ kṛśāṅgāś ca sthūlāṅgaś ca kṛśodarāḥ hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ 84 gajendra carma vasanās tathā kṛṣṇājināmbarāḥ skandhe mukhā mahārāja tathā hy udarato mukhāḥ 85 pṛṣṭhe mukhā hanumukhās tathā jaṅghā mukhā api pārśvānanāś ca bahavo nānādeśamukhās tathā 86 tathā kīṭa pataṃgānāṃ sadṛśāsyā gaṇeśvarāḥ nānāvyālamukhāś cānye bahu bāhuśiro dharāḥ 87 nānāvṛkṣabhujāḥ kec cit kaṭi śīrṣās tathāpare bhujaṃgabhoga vadanā nānāgulmanivāsinaḥ 88 cīrasaṃvṛta gātrāś ca tathā phalakavāsasaḥ nānāveṣadharāś caiva carma vāsasa eva ca 89 uṣṇīṣiṇo mukuṭinaḥ kambugrīvāḥ suvarcasaḥ kirīṭinaḥ pañca śikhās tathā kaṭhina mūrdhajāḥ 90 triśiṭhā dviśikhāś caiva tathā sapta śikhāḥ pare śikhaṇḍino mukuṭino muṇḍāś ca jaṭilās tathā 91 citramālyadharāḥ kec cit kec cid romānanās tathā divyamālyāmbaradharāḥ satataṃ priyavigrahāḥ 92 kṛṣṇā nirmāṃsa vaktrāś ca dīrghapṛṣṭā nirūdarāḥ sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodara mehanāḥ 93 mahābhujā hrasvabhujā hrasvagātraś ca vāmanāḥ kubjāś ca dīrghajaṅghāś ca hastikarṇa śirodharāḥ 94 hastināsāḥ kūrmanāsā vṛkanāsās tathāpare dīrghauṣṭhā dīrghajihvāś ca vikarālā hy adhomukhāḥ 95 mahādaṃṣṭrā hrasvadaṃṣṭrāś caturdaṃṣṭrās tathāpare vāraṇendra nibhāś cānye bhīmā rājan sahasraśaḥ 96 suvibhaktaśarīrāś ca dīptimantaḥ svalaṃkṛtāḥ piṅgākṣāḥ śaṅkukarṇāś ca vakranāsāś ca bhārata 97 pṛthu daṃṣṭrāmahā daṃṣṭrāḥ sthūlauṣṭhā hari mūrdhajāḥ nānā pādauṣṭha daṃṣṭrāś ca nāhā hastaśiro dharāḥ nānā varmabhir ācchannā nānā bhāṣāś ca bhārata 98 kuśalā deśabhāṣāsu jalpanto 'nyonyam īśvarāḥ hṛṣṭāḥ paripatanti sma mahāpāriṣadās tathā 99 dīrghagrīvā dīrghanakhā dīrghapādaśiro bhujāḥ piṅgākṣā nīlakaṇṭhāś ca lambakarṇāś ca bhārata 100 vṛkodara nibhāś caiva ke cid añjanasaṃnibhāḥ śvetāṅgā lohitagrīvāḥ piṅgākṣāś ca tathāpare kalmāṣā bahavo rājaṃś citravarṇāś ca bhārata 101 cāmarāpīḍaka nibhāḥ śvetalohita rājayaḥ nānāvarṇāḥ savarṇāś ca mayūrasadṛśaprabhāḥ 102 punaḥ praharaṇāny eṣāṃ kīrtyamānāni me śṛṇu śeṣaiḥ kṛtaṃ pāriṣadair āyudhānāṃ parigraham 103 pāśodyata karāḥ ke cid vyāditāsyāḥ kharānanāḥ pṛthv akṣā nīlakaṇṭhāś ca tathā parighabāhavaḥ 104 śataghnī cakrahastāś ca tathā musalapāṇayaḥ śūlāsihastāś ca tathā mahākāyā mahābalāḥ 105 gadā bhuśuṇḍi hastāś ca tathā tomarapāṇayaḥ asi mudgarahastāś ca daṇḍahastāś ca bhārata 106 āyudhair vividhair ghorair mahātmāno mahājavāḥ mahābalā mahāvegā mahāpāriṣadās tathā 107 abhiṣekaṃ kumārasya dṛṣṭvā hṛṣṭā raṇapriyāḥ ghaṇṭājālapinaddhāṅgā nanṛtus te mahaujasaḥ 108 ete cānye ca bahavo mahāpāriṣadā nṛpa upatasthur mahātmānaṃ kārttikeyaṃ yaśasvinam 109 divyāś cāpy āntarikṣāś ca pārthivāś cānilopamāḥ vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan 110 tādṛśānāṃ sahasrāṇi prayutāny arbudāni ca abhiṣiktaṃ mahātmānaṃ parivāryopatasthire |