1
[व] थवाःस्दं पराह महाप्राज्ञॊ धृतराष्ट्रॊ महीपतिः विथुरं थरष्टुम इच्छामि तम इहानय माचिरम 2 परहितॊ धृतराष्ट्रेण थूतः कषत्तारम अब्रवीत ईश्वरस तवां महाराजॊ महाप्राज्ञ थिथृक्षति 3 एवम उक्तस तु विथुरः पराप्य राजनिवेशनम अब्रवीथ धृतराष्ट्राय थवाःस्द मां परतिवेथय 4 विथुरॊ ऽयम अनुप्राप्तॊ राजेन्थ्र तव शासनात थरष्टुम इच्छति ते पाथौ किं करॊतु परशाधि माम 5 परवेशय महाप्राज्ञं विथुरं थीर्घथर्शिनम अहं हि विथुरस्यास्य नाकाल्यॊ जातु थर्शने 6 परविशान्तः पुरं कषत्तर महाराजस्य धीमतः न हि ते थर्शने ऽकाल्यॊ जातु राजा बरवीति माम 7 [व] ततः परविश्य विथुरॊ धृतराष्ट्र निवेशनम अब्रवीत पराञ्जलिर वाक्यं चिन्तयानं नराधिपम 8 विथुरॊ ऽहं महाप्राज्ञ संप्राप्तस तव शासनात यथि किं चन कर्तव्यम अयम अस्मि परशाधि माम 9 संजयॊ विथुर पराप्तॊ गर्हयित्वा च मां गतः अजातशत्रॊः शवॊ वाक्यं सभामध्ये स वक्ष्यति 10 तस्याथ्य कुरुवीरस्य न विज्ञातं वचॊ मया तन मे थहति गात्राणि तथ अकार्षीत परजागरम 11 जाग्रतॊ थह्यमानस्य शरेयॊ यथ इह पश्यसि तथ बरूहि तवं हि नस तात धर्मार्दकुशलॊ हय असि 12 यतः पराप्तः संजयः पाण्डवेभ्यॊ; न मे यदावन मनसः परशान्तिः सवेन्थ्रियाण्य अप्रकृतिं गतानि; किं वक्ष्यतीत्य एव हि मे ऽथय चिन्ता 13 अभियुक्तं बलवता थुर्बलं हीनसाधनम हृतस्वं कामिनं चॊरम आविशन्ति परजागराः 14 कच चिथ एतैर महाथॊषैर न सपृष्टॊ ऽसि नराधिप कच चिन न परवित्तेषु गृध्यन विपरितप्यसे 15 शरॊतुम इच्छामि ते धर्म्यं परं नैःश्रेयसं वचः अस्मिन राजर्षिवंशे हि तवम एकः पराज्ञसंमतः 16 निषेवते परशस्तानि निन्थितानि न सेवते अनास्तिकः शरथ्थधान एतत पण्डित लक्षणम 17 करॊधॊ हर्षश च थर्पश च हरीस्तम्भॊ मान्यमानिता यम अर्दान नापकर्षन्ति स वै पण्डित उच्यते 18 यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे कृतम एवास्य जानन्ति स वै पण्डित उच्यते 19 यस्य कृत्यं न विघ्नन्ति शीतम उष्णं भयं रतिः समृथ्धिर असमृथ्धिर वा स वै पण्डित उच्यते 20 यस्य संसारिणी परज्ञा धर्मार्दाव अनुवर्तते कामाथ अर्दं वृणीते यः स वै पण्डित उच्यते 21 यदाशक्ति चिकीर्षन्ति यदाशक्ति च कुर्वते न किं चिथ अवमन्यन्ते पण्डिता भरतर्षभ 22 कषिप्रं विजानाति चिरं शृणॊति; विज्ञाय चार्दं भजते न कामात नासंपृष्टॊ वयौपयुङ्क्ते परार्दे; तत परज्ञानं परदमं पण्डितस्य 23 नाप्राप्यम अभिवाञ्छन्ति नष्टं नेच्छन्ति शॊचितुम आपत्सु च न मुह्यन्ति नराः पण्डित बुथ्धयः 24 निश्चित्य यः परक्रमते नान्तर वसति कर्मणः अवन्ध्य कालॊ वश्यात्मा स वै पण्डित उच्यते 25 आर्य कर्मणि राज्यन्ते भूतिकर्माणि कुर्वते हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ 26 न हृष्यत्य आत्मसंमाने नावमानेन तप्यते गाङ्गॊ हरथ इवाक्षॊभ्यॊ यः स पण्डित उच्यते 27 तत्त्वज्ञः सर्वभूतानां यॊगज्ञः सर्वकर्मणाम उपायज्ञॊ मनुष्याणां नरः पण्डित उच्यते 28 परवृत्त वाक चित्रकद ऊहवान परतिभानवान आशु गरन्दस्य वक्ता च स वै पण्डित उच्यते 29 शरुतं परज्ञानुगं यस्य परज्ञा चैव शरुतानुगा असंभिन्नार्य मर्याथः पण्डिताख्यां लभेत सः 30 अश्रुतश च समुन्नथ्धॊ थरिथ्रश च महामनाः अर्दांश चाकर्मणा परेप्सुर मूढ इत्य उच्यते बुधैः 31 सवम अर्दं यः परित्यज्य परार्दम अनुतिष्ठति मिद्या चरति मित्रार्दे यश च मूढः स उच्यते 32 अकामान कामयति यः कामयानान परिथ्विषन बलवन्तं च यॊ थवेष्टि तम आहुर मूढचेतसम 33 अमित्रं कुरुते मित्रं मित्रं थवेष्टि हिनस्ति च कर्म चारभते थुष्टं तम आहुर मूढचेतसम 34 संसारयति कृत्यानि सर्वत्र विचिकित्सते चिरं करॊति कषिप्रार्दे स मूढॊ भरतर्षभ 35 अनाहूतः परविशति अपृष्टॊ बहु भाषते विश्वसत्य अप्रमत्तेषु मूढ चेता नराधमः 36 परं कषिपति थॊषेण वर्तमानः सवयं तदा यश च करुध्यत्य अनीशः सन स च मूढतमॊ नरः 37 आत्मनॊ बलम आज्ञाय धर्मार्दपरिवर्जितम अलभ्यम इच्छन नैष्कर्म्यान मूढ बुथ्धिर इहॊच्यते 38 अशिष्यं शास्ति यॊ राजन्यश च शून्यम उपासते कथर्यं भजते यश च तम आहुर मूढचेतसम 39 अर्दं महान्तम आसाथ्य विथ्याम ऐश्वर्यम एव वा विचरत्य असमुन्नथ्धॊ यः स पण्डित उच्यते 40 एकः संपन्नम अश्नाति वस ते वासश च शॊभनम यॊ ऽसंविभज्य भृत्येभ्यः कॊ नृशंसतरस ततः 41 एकः पापानि कुरुते फलं भुङ्क्ते महाजनः भॊक्तारॊ विप्रमुच्यन्ते कर्ता थॊषेण लिप्यते 42 एकं हन्यान न वाहन्याथ इषुर मुक्तॊ धनुष्मता बुथ्धिर बुथ्धिमतॊत्सृष्टा हन्याथ राष्ट्रं सराजकम 43 एकया थवे विनिश्चित्य तरींश चतुर्भिर वशे कुरु पञ्च जित्वा विथित्वा षट सप्त हित्वा सुखी भव 44 एकं विषरसॊ हन्ति शस्त्रेणैकश च वध्यते सराष्ट्रं स परजं हन्ति राजानं मन्त्रविस्रवः 45 एकः सवाथु न भुञ्जीत एकश चार्दान न चिन्तयेत एकॊ न गच्छेथ अध्वानं नैकः सुप्तेषु जागृयात 46 एकम एवाथ्वितीयं तथ यथ राजन नावबुध्यसे सत्यं सवर्गस्य सॊपानं पारावारस्य नौर इव 47 एकः कषमावतां थॊषॊ थवितीयॊ नॊपलभ्यते यथ एनं कषमया युक्तम अशक्तं मन्यते जनः 48 एकॊ धर्मः परं शरेयः कषमैका शान्तिर उत्तमा विथ्यैका परमा थृष्टिर अहिंसैका सुखावहा 49 थवाव इमौ गरसते भूमिः सर्पॊ बिलशयान इव राजानं चाविरॊथ्धारं बराह्मणं चाप्रवासिनम 50 थवे कर्मणी नरः कुर्वन्न अस्मिँल लॊके विरॊचते अब्रुवन परुषं किं चिथ असतॊ नार्दयंस तदा 51 थवाव इमौ पुरुषव्याघ्र परप्रत्यय कारिणौ सत्रियः कामित कामिन्यॊ लॊकः पूजित पूजकः 52 थवाव इमौ कण्टकौ तीक्ष्णौ शरीरपरिशॊषणौ यश चाधनः कामयते यश च कुप्यत्य अनीश्वरः 53 थवाव इमौ पुरुषौ राजन सवर्गस्य परि तिष्ठतः परभुश च कषमया युक्तॊ थरिथ्रश च परथानवान 54 नयायागतस्य थरव्यस्य बॊथ्धव्यौ थवाव अतिक्रमौ अपात्रे परतिपत्तिश च पात्रे चाप्रतिपाथनम 55 तरयॊ नयाया मनुष्याणां शरूयन्ते भरतर्षभ कनीयान मध्यमः शरेष्ठ इति वेथविथॊ विथुः 56 तरिविधाः पुरुषा राजन्न उत्तमाधममध्यमाः नियॊजयेथ यदावत तांस तरिविधेष्व एव कर्मसु 57 तरय एवाधना राजन भार्या थासस तदा सुतः यत ते समधिगच्छन्ति यस्य ते तस्य तथ धनम 58 चत्वारि राज्ञा तु महाबलेन; वर्ज्यान्य आहुः पण्डितस तानि विथ्यात अल्पप्रज्ञैः सह मन्त्रं न कुर्यान; न थीर्घसूत्रैर अलसैश चारणैश च 59 चत्वारि ते तात गृहे वसन्तु; शरियाभिजुष्टस्य गृहस्द धर्मे वृथ्धॊ जञातिर अवसन्नः कुलीनः; सखा थरिथ्रॊ भगिनी चानपत्या 60 चत्वार्य आह महाराज सथ्यस्कानि बृहस्पतिः पृच्छते तरिथशेन्थ्राय तानीमानि निबॊध मे 61 थेवतानां च संकल्पम अनुभावं च धीमताम विनयं कृतविथ्यानां विनाशं पापकर्मणाम 62 पञ्चाग्नयॊ मनुष्येण परिचर्याः परयत्नतः पिता माताग्निर आत्मा च गुरुश च भरतर्षभ 63 पञ्चैव पूजयँल लॊके यशः पराप्नॊति केवलम थेवान पितॄन मनुष्यांश च भिक्षून अतिदिपञ्चमान 64 पञ्च तवानुगमिष्यन्ति यत्र यत्र गमिष्यसि मित्राण्य अमित्रा मध्यस्दा उपजीव्यॊपजीविनः 65 पञ्चेन्थ्रियस्य मर्त्यस्य छिथ्रं चेथ एकम इन्थ्रियम ततॊ ऽसय सरवति परज्ञा थृतेः पाथाथ इवॊथकम 66 षड थॊषाः पुरुषेणेह हातव्या भूतिम इच्छता निथ्रा तन्थ्री भयं करॊध आलस्यं थीर्घसूत्रता 67 षड इमान पुरुषॊ जह्याथ भिन्नां नावम इवार्णवे अप्रवक्तारम आचार्यम अनधीयानम ऋत्विजम 68 अरक्षितारं राजानं भार्यां चाप्रिय वाथिनीम गरामकारं च गॊपालं वनकामं च नापितम 69 षड एव तु गुणाः पुंसा न हातव्याः कथा चन सत्यं थानम अनालस्यम अनसूया कषमा धृतिः 70 षण्णाम आत्मनि नित्यानाम ऐश्वर्यं यॊ ऽधिगच्छति न स पापैः कुतॊ ऽनर्दैर युज्यते विजितेन्थ्रियः 71 षड इमे षट्सु जीवन्ति सप्तमॊ नॊपलभ्यते चॊराः परमत्ते जीवन्ति वयाधितेषु चिकित्सकाः 72 परमथाः कामयानेषु यजमानेषु याजकाः राजा विवथमानेषु नित्यं मूर्खेषु पण्डिताः 73 सप्त थॊषाः सथा राज्ञा हातव्या वयसनॊथयाः परायशॊ यैर विनश्यन्ति कृतमूलाश च पार्दिवाः 74 सत्रियॊ ऽकषा मृगया पानं वाक पारुष्यं च पञ्चमम महच च थण्डपारुष्यम अर्दथूषणम एव च 75 अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः बराह्मणान परदमं थवेष्टि बराह्मणैश च विरुध्यते 76 बराह्मण सवानि चाथत्ते बराह्मणांश च जिघांसति रमते निन्थया चैषां परशंसां नाभिनन्थति 77 नैतान समरति कृत्येषु याचितश चाभ्यसूयति एतान थॊषान नरः पराज्ञॊ बुथ्ध्या बुथ्ध्वा विवर्जयेत 78 अष्टाव इमानि हर्षस्य नव नीतानि भारत वर्तमानानि थृश्यन्ते तान्य एव सुसुखान्य अपि 79 समागमश च सखिभिर महांश चैव धनागमः पुत्रेण च परिष्वङ्गः संनिपातश च मैदुने 80 समये च परियालापः सवयूदेषु च संनतिः अभिप्रेतस्य लाभश च पूजा च जनसंसथि 81 नवथ्वारम इथं वेश्म तरिस्दूणं पञ्च साक्षिकम कषेत्रज्ञाधिष्ठितं विथ्वान यॊ वेथ स परः कविः 82 थश धर्मं न जानन्ति धृतराष्ट्र निबॊध तान मत्तः परमत्त उन्मत्तः शरान्तः करुथ्धॊ बुभुक्षितः 83 तवरमाणश च भीरुश च लुब्धः कामी च ते थश तस्माथ एतेषु भावेषु न परसज्जेत पण्डितः 84 अत्रैवॊथाहरन्तीमम इतिहासं पुरातनम पुत्रार्दम असुरेन्थ्रेण गीतं चैव सुधन्वना 85 यः काममन्यू परजहाति राजा; पात्रे परतिष्ठापयते धनं च विशेषविच छरुतवान कषिप्रकारी; तं सर्वलॊकः कुरुते परमाणम 86 जानाति विश्वासयितुं मनुष्यान; विज्ञात थॊषेषु थधाति थण्डम जानाति मात्रां च तदा कषमां च; तं ताथृशं शरीर जुषते समग्रा 87 सुथुर्बलं नावजानाति कं चिथ; युक्तॊ रिपुं सेवते बुथ्धिपूर्वम न विग्रहं रॊचयते बलस्दैः; काले च यॊ विक्रमते स धीरः 88 पराप्यापथं न वयदते कथा चिथ; उथ्यॊगम अन्विच्छति चाप्रमत्तः थुःखं च काले सहते जितात्मा; धुरंधरस तस्य जिताः सपत्नाः 89 अनर्दकं विप्र वासं गृहेभ्यः; पापैः संधिं परथाराभिमर्शम थम्भं सतैन्यं पैशुनं मथ्य पानं; न सेवते यः स सुखी सथैव 90 न संरम्भेणारभते ऽरदवर्गम; आकारितः शंसति तद्यम एव न मात्रार्दे रॊचयते विवाथं; नापूजितः कुप्यति चाप्य अमूढः 91 न यॊ ऽभयसूयत्य अनुकम्पते च; न थुर्बलः परातिभाव्यं करॊति नात्याह किं चित कषमते विवाथं; सर्वत्र ताथृग लभते परशंसाम 92 यॊ नॊथ्धतं कुरुते जातु वेषं; न पौरुषेणापि विकत्दते ऽनयान न मूर्च्छितः कटुकान्य आह किं चित; परियं सथा तं कुरुते जनॊ ऽपि 93 न वैरम उथ्थीपयति परशान्तं; न थर्मम आरॊहति नास्तम एति न थुर्गतॊ ऽसमीति करॊति मन्युं; तम आर्य शीलं परम आहुर अग्र्यम 94 न सवे सुखे वै कुरुते परहर्षं; नान्यस्य थुःखे भवति परतीतः थत्त्वा न पश्चात कुरुते ऽनुतापं; न कत्दते सत्पुरुषार्य शीलः 95 थेशाचारान समयाञ जातिधर्मान; बुभूषते यस तु परावरज्ञः स तत्र तत्राधिगतः सथैव; महाजनस्याधिपत्यं करॊति 96 थम्भं मॊहं मत्सरं पापकृत्यं; राजथ्विष्टं पैशुनं पूगवैरम मत्तॊन्मत्तैर थुर्जनैश चापि वाथं; यः परज्ञावान वर्जयेत स परधानः 97 थमं शौचं थैवतं मङ्गलानि; परायश्चित्तं विविधाँल लॊकवाथान एतानि यः कुरुते नैत्यकानि; तस्यॊत्दानं थेवता राधयन्ति 98 समैर विवाहं कुरुते न हीनैः; समैः सख्यं वयवहारं कदाश च गुणैर विशिष्टांश च पुरॊ थधाति; विपश्चितस तस्य नयाः सुनीताः 99 मितं भुङ्क्ते संविभज्याश्रितेभ्यॊ; मितं सवपित्य अमितं कर्मकृत्वा थथात्य अमित्रेष्व अपि याचितः संस; तम आत्मवन्तं परजहात्य अनर्दाः 100 चिकीर्षितं विप्रकृतं च यस्य; नान्ये जनाः कर्म जानन्ति किं चित मन्त्रे गुप्ते सम्यग अनुष्ठिते च; सवल्पॊ नास्य वयदते कश चिथ अर्दः 101 यः सर्वभूतप्रशमे निविष्टः; सत्यॊ मृथुर थानकृच छुथ्ध भावः अतीव संज्ञायते जञातिमध्ये; महामणिर जात्य इव परसन्नः 102 य आत्मनापत्रपते भृशं नरः; स सर्वलॊकस्य गुरुर भवत्य उत अनन्त तेजाः सुमनाः समाहितः; सवतेजसा सूर्य इवावभासते 103 वने जाताः शापथग्धस्य राज्ञः; पाण्डॊः पुत्राः पञ्च पञ्चेन्थ्र कल्पाः तवयैव बाला वर्धिताः शिक्षिताश च; तवाथेशं पालयन्त्य आम्बिकेय 104 परथायैषाम उचितं तात राज्यं; सुखी पुत्रैः सहितॊ मॊथमानः न थेवानां नापि च मानुषाणां; भविष्यसि तवं तर्कणीयॊ नरेन्थ्र |
1
[v] dvāḥsthaṃ prāha mahāprājño dhṛtarāṣṭro mahīpatiḥ viduraṃ draṣṭum icchāmi tam ihānaya māciram 2 prahito dhṛtarāṣṭreṇa dūtaḥ kṣattāram abravīt īśvaras tvāṃ mahārājo mahāprājña didṛkṣati 3 evam uktas tu viduraḥ prāpya rājaniveśanam abravīd dhṛtarāṣṭrāya dvāḥstha māṃ prativedaya 4 viduro 'yam anuprāpto rājendra tava śāsanāt draṣṭum icchati te pādau kiṃ karotu praśādhi mām 5 praveśaya mahāprājñaṃ viduraṃ dīrghadarśinam ahaṃ hi vidurasyāsya nākālyo jātu darśane 6 praviśāntaḥ puraṃ kṣattar mahārājasya dhīmataḥ na hi te darśane 'kālyo jātu rājā bravīti mām 7 [v] tataḥ praviśya viduro dhṛtarāṣṭra niveśanam abravīt prāñjalir vākyaṃ cintayānaṃ narādhipam 8 viduro 'haṃ mahāprājña saṃprāptas tava śāsanāt yadi kiṃ cana kartavyam ayam asmi praśādhi mām 9 saṃjayo vidura prāpto garhayitvā ca māṃ gataḥ ajātaśatroḥ śvo vākyaṃ sabhāmadhye sa vakṣyati 10 tasyādya kuruvīrasya na vijñātaṃ vaco mayā tan me dahati gātrāṇi tad akārṣīt prajāgaram 11 jāgrato dahyamānasya śreyo yad iha paśyasi tad brūhi tvaṃ hi nas tāta dharmārthakuśalo hy asi 12 yataḥ prāptaḥ saṃjayaḥ pāṇḍavebhyo; na me yathāvan manasaḥ praśāntiḥ savendriyāṇy aprakṛtiṃ gatāni; kiṃ vakṣyatīty eva hi me 'dya cintā 13 abhiyuktaṃ balavatā durbalaṃ hīnasādhanam hṛtasvaṃ kāminaṃ coram āviśanti prajāgarāḥ 14 kac cid etair mahādoṣair na spṛṣṭo 'si narādhipa kac cin na paravitteṣu gṛdhyan viparitapyase 15 śrotum icchāmi te dharmyaṃ paraṃ naiḥśreyasaṃ vacaḥ asmin rājarṣivaṃśe hi tvam ekaḥ prājñasaṃmataḥ 16 niṣevate praśastāni ninditāni na sevate anāstikaḥ śraddadhāna etat paṇḍita lakṣaṇam 17 krodho harṣaś ca darpaś ca hrīstambho mānyamānitā yam arthān nāpakarṣanti sa vai paṇḍita ucyate 18 yasya kṛtyaṃ na jānanti mantraṃ vā mantritaṃ pare kṛtam evāsya jānanti sa vai paṇḍita ucyate 19 yasya kṛtyaṃ na vighnanti śītam uṣṇaṃ bhayaṃ ratiḥ samṛddhir asamṛddhir vā sa vai paṇḍita ucyate 20 yasya saṃsāriṇī prajñā dharmārthāv anuvartate kāmād arthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate 21 yathāśakti cikīrṣanti yathāśakti ca kurvate na kiṃ cid avamanyante paṇḍitā bharatarṣabha 22 kṣipraṃ vijānāti ciraṃ śṛṇoti; vijñāya cārthaṃ bhajate na kāmāt nāsaṃpṛṣṭo vyaupayuṅkte parārthe; tat prajñānaṃ prathamaṃ paṇḍitasya 23 nāprāpyam abhivāñchanti naṣṭaṃ necchanti śocitum āpatsu ca na muhyanti narāḥ paṇḍita buddhayaḥ 24 niścitya yaḥ prakramate nāntar vasati karmaṇaḥ avandhya kālo vaśyātmā sa vai paṇḍita ucyate 25 ārya karmaṇi rājyante bhūtikarmāṇi kurvate hitaṃ ca nābhyasūyanti paṇḍitā bharatarṣabha 26 na hṛṣyaty ātmasaṃmāne nāvamānena tapyate gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate 27 tattvajñaḥ sarvabhūtānāṃ yogajñaḥ sarvakarmaṇām upāyajño manuṣyāṇāṃ naraḥ paṇḍita ucyate 28 pravṛtta vāk citrakatha ūhavān pratibhānavān āśu granthasya vaktā ca sa vai paṇḍita ucyate 29 śrutaṃ prajñānugaṃ yasya prajñā caiva śrutānugā asaṃbhinnārya maryādaḥ paṇḍitākhyāṃ labheta saḥ 30 aśrutaś ca samunnaddho daridraś ca mahāmanāḥ arthāṃś cākarmaṇā prepsur mūḍha ity ucyate budhaiḥ 31 svam arthaṃ yaḥ parityajya parārtham anutiṣṭhati mithyā carati mitrārthe yaś ca mūḍhaḥ sa ucyate 32 akāmān kāmayati yaḥ kāmayānān paridviṣan balavantaṃ ca yo dveṣṭi tam āhur mūḍhacetasam 33 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca karma cārabhate duṣṭaṃ tam āhur mūḍhacetasam 34 saṃsārayati kṛtyāni sarvatra vicikitsate ciraṃ karoti kṣiprārthe sa mūḍho bharatarṣabha 35 anāhūtaḥ praviśati apṛṣṭo bahu bhāṣate viśvasaty apramatteṣu mūḍha cetā narādhamaḥ 36 paraṃ kṣipati doṣeṇa vartamānaḥ svayaṃ tathā yaś ca krudhyaty anīśaḥ san sa ca mūḍhatamo naraḥ 37 ātmano balam ājñāya dharmārthaparivarjitam alabhyam icchan naiṣkarmyān mūḍha buddhir ihocyate 38 aśiṣyaṃ śāsti yo rājanyaś ca śūnyam upāsate kadaryaṃ bhajate yaś ca tam āhur mūḍhacetasam 39 arthaṃ mahāntam āsādya vidyām aiśvaryam eva vā vicaraty asamunnaddho yaḥ sa paṇḍita ucyate 40 ekaḥ saṃpannam aśnāti vas te vāsaś ca śobhanam yo 'saṃvibhajya bhṛtyebhyaḥ ko nṛśaṃsataras tataḥ 41 ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ bhoktāro vipramucyante kartā doṣeṇa lipyate 42 ekaṃ hanyān na vāhanyād iṣur mukto dhanuṣmatā buddhir buddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam 43 ekayā dve viniścitya trīṃś caturbhir vaśe kuru pañca jitvā viditvā ṣaṭ sapta hitvā sukhī bhava 44 ekaṃ viṣaraso hanti śastreṇaikaś ca vadhyate sarāṣṭraṃ sa prajaṃ hanti rājānaṃ mantravisravaḥ 45 ekaḥ svādu na bhuñjīta ekaś cārthān na cintayet eko na gacched adhvānaṃ naikaḥ supteṣu jāgṛyāt 46 ekam evādvitīyaṃ tad yad rājan nāvabudhyase satyaṃ svargasya sopānaṃ pārāvārasya naur iva 47 ekaḥ kṣamāvatāṃ doṣo dvitīyo nopalabhyate yad enaṃ kṣamayā yuktam aśaktaṃ manyate janaḥ 48 eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntir uttamā vidyaikā paramā dṛṣṭir ahiṃsaikā sukhāvahā 49 dvāv imau grasate bhūmiḥ sarpo bilaśayān iva rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam 50 dve karmaṇī naraḥ kurvann asmiṁl loke virocate abruvan paruṣaṃ kiṃ cid asato nārthayaṃs tathā 51 dvāv imau puruṣavyāghra parapratyaya kāriṇau striyaḥ kāmita kāminyo lokaḥ pūjita pūjakaḥ 52 dvāv imau kaṇṭakau tīkṣṇau śarīrapariśoṣaṇau yaś cādhanaḥ kāmayate yaś ca kupyaty anīśvaraḥ 53 dvāv imau puruṣau rājan svargasya pari tiṣṭhataḥ prabhuś ca kṣamayā yukto daridraś ca pradānavān 54 nyāyāgatasya dravyasya boddhavyau dvāv atikramau apātre pratipattiś ca pātre cāpratipādanam 55 trayo nyāyā manuṣyāṇāṃ śrūyante bharatarṣabha kanīyān madhyamaḥ śreṣṭha iti vedavido viduḥ 56 trividhāḥ puruṣā rājann uttamādhamamadhyamāḥ niyojayed yathāvat tāṃs trividheṣv eva karmasu 57 traya evādhanā rājan bhāryā dāsas tathā sutaḥ yat te samadhigacchanti yasya te tasya tad dhanam 58 catvāri rājñā tu mahābalena; varjyāny āhuḥ paṇḍitas tāni vidyāt alpaprajñaiḥ saha mantraṃ na kuryān; na dīrghasūtrair alasaiś cāraṇaiś ca 59 catvāri te tāta gṛhe vasantu; śriyābhijuṣṭasya gṛhastha dharme vṛddho jñātir avasannaḥ kulīnaḥ; sakhā daridro bhaginī cānapatyā 60 catvāry āha mahārāja sadyaskāni bṛhaspatiḥ pṛcchate tridaśendrāya tānīmāni nibodha me 61 devatānāṃ ca saṃkalpam anubhāvaṃ ca dhīmatām vinayaṃ kṛtavidyānāṃ vināśaṃ pāpakarmaṇām 62 pañcāgnayo manuṣyeṇa paricaryāḥ prayatnataḥ pitā mātāgnir ātmā ca guruś ca bharatarṣabha 63 pañcaiva pūjayaṁl loke yaśaḥ prāpnoti kevalam devān pitṝn manuṣyāṃś ca bhikṣūn atithipañcamān 64 pañca tvānugamiṣyanti yatra yatra gamiṣyasi mitrāṇy amitrā madhyasthā upajīvyopajīvinaḥ 65 pañcendriyasya martyasya chidraṃ ced ekam indriyam tato 'sya sravati prajñā dṛteḥ pādād ivodakam 66 ṣaḍ doṣāḥ puruṣeṇeha hātavyā bhūtim icchatā nidrā tandrī bhayaṃ krodha ālasyaṃ dīrghasūtratā 67 ṣaḍ imān puruṣo jahyād bhinnāṃ nāvam ivārṇave apravaktāram ācāryam anadhīyānam ṛtvijam 68 arakṣitāraṃ rājānaṃ bhāryāṃ cāpriya vādinīm grāmakāraṃ ca gopālaṃ vanakāmaṃ ca nāpitam 69 ṣaḍ eva tu guṇāḥ puṃsā na hātavyāḥ kadā cana satyaṃ dānam anālasyam anasūyā kṣamā dhṛtiḥ 70 ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ 71 ṣaḍ ime ṣaṭsu jīvanti saptamo nopalabhyate corāḥ pramatte jīvanti vyādhiteṣu cikitsakāḥ 72 pramadāḥ kāmayāneṣu yajamāneṣu yājakāḥ rājā vivadamāneṣu nityaṃ mūrkheṣu paṇḍitāḥ 73 sapta doṣāḥ sadā rājñā hātavyā vyasanodayāḥ prāyaśo yair vinaśyanti kṛtamūlāś ca pārthivāḥ 74 striyo 'kṣā mṛgayā pānaṃ vāk pāruṣyaṃ ca pañcamam mahac ca daṇḍapāruṣyam arthadūṣaṇam eva ca 75 aṣṭau pūrvanimittāni narasya vinaśiṣyataḥ brāhmaṇān prathamaṃ dveṣṭi brāhmaṇaiś ca virudhyate 76 brāhmaṇa svāni cādatte brāhmaṇāṃś ca jighāṃsati ramate nindayā caiṣāṃ praśaṃsāṃ nābhinandati 77 naitān smarati kṛtyeṣu yācitaś cābhyasūyati etān doṣān naraḥ prājño buddhyā buddhvā vivarjayet 78 aṣṭāv imāni harṣasya nava nītāni bhārata vartamānāni dṛśyante tāny eva susukhāny api 79 samāgamaś ca sakhibhir mahāṃś caiva dhanāgamaḥ putreṇa ca pariṣvaṅgaḥ saṃnipātaś ca maithune 80 samaye ca priyālāpaḥ svayūtheṣu ca saṃnatiḥ abhipretasya lābhaś ca pūjā ca janasaṃsadi 81 navadvāram idaṃ veśma tristhūṇaṃ pañca sākṣikam kṣetrajñādhiṣṭhitaṃ vidvān yo veda sa paraḥ kaviḥ 82 daśa dharmaṃ na jānanti dhṛtarāṣṭra nibodha tān mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ 83 tvaramāṇaś ca bhīruś ca lubdhaḥ kāmī ca te daśa tasmād eteṣu bhāveṣu na prasajjeta paṇḍitaḥ 84 atraivodāharantīmam itihāsaṃ purātanam putrārtham asurendreṇa gītaṃ caiva sudhanvanā 85 yaḥ kāmamanyū prajahāti rājā; pātre pratiṣṭhāpayate dhanaṃ ca viśeṣavic chrutavān kṣiprakārī; taṃ sarvalokaḥ kurute pramāṇam 86 jānāti viśvāsayituṃ manuṣyān; vijñāta doṣeṣu dadhāti daṇḍam jānāti mātrāṃ ca tathā kṣamāṃ ca; taṃ tādṛśaṃ śrīr juṣate samagrā 87 sudurbalaṃ nāvajānāti kaṃ cid; yukto ripuṃ sevate buddhipūrvam na vigrahaṃ rocayate balasthaiḥ; kāle ca yo vikramate sa dhīraḥ 88 prāpyāpadaṃ na vyathate kadā cid; udyogam anvicchati cāpramattaḥ duḥkhaṃ ca kāle sahate jitātmā; dhuraṃdharas tasya jitāḥ sapatnāḥ 89 anarthakaṃ vipra vāsaṃ gṛhebhyaḥ; pāpaiḥ saṃdhiṃ paradārābhimarśam dambhaṃ stainyaṃ paiśunaṃ madya pānaṃ; na sevate yaḥ sa sukhī sadaiva 90 na saṃrambheṇārabhate 'rthavargam; ākāritaḥ śaṃsati tathyam eva na mātrārthe rocayate vivādaṃ; nāpūjitaḥ kupyati cāpy amūḍhaḥ 91 na yo 'bhyasūyaty anukampate ca; na durbalaḥ prātibhāvyaṃ karoti nātyāha kiṃ cit kṣamate vivādaṃ; sarvatra tādṛg labhate praśaṃsām 92 yo noddhataṃ kurute jātu veṣaṃ; na pauruṣeṇāpi vikatthate 'nyān na mūrcchitaḥ kaṭukāny āha kiṃ cit; priyaṃ sadā taṃ kurute jano 'pi 93 na vairam uddīpayati praśāntaṃ; na darmam ārohati nāstam eti na durgato 'smīti karoti manyuṃ; tam ārya śīlaṃ param āhur agryam 94 na sve sukhe vai kurute praharṣaṃ; nānyasya duḥkhe bhavati pratītaḥ dattvā na paścāt kurute 'nutāpaṃ; na katthate satpuruṣārya śīlaḥ 95 deśācārān samayāñ jātidharmān; bubhūṣate yas tu parāvarajñaḥ sa tatra tatrādhigataḥ sadaiva; mahājanasyādhipatyaṃ karoti 96 dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ; rājadviṣṭaṃ paiśunaṃ pūgavairam mattonmattair durjanaiś cāpi vādaṃ; yaḥ prajñāvān varjayet sa pradhānaḥ 97 damaṃ śaucaṃ daivataṃ maṅgalāni; prāyaścittaṃ vividhāṁl lokavādān etāni yaḥ kurute naityakāni; tasyotthānaṃ devatā rādhayanti 98 samair vivāhaṃ kurute na hīnaiḥ; samaiḥ sakhyaṃ vyavahāraṃ kathāś ca guṇair viśiṣṭāṃś ca puro dadhāti; vipaścitas tasya nayāḥ sunītāḥ 99 mitaṃ bhuṅkte saṃvibhajyāśritebhyo; mitaṃ svapity amitaṃ karmakṛtvā dadāty amitreṣv api yācitaḥ saṃs; tam ātmavantaṃ prajahāty anarthāḥ 100 cikīrṣitaṃ viprakṛtaṃ ca yasya; nānye janāḥ karma jānanti kiṃ cit mantre gupte samyag anuṣṭhite ca; svalpo nāsya vyathate kaś cid arthaḥ 101 yaḥ sarvabhūtapraśame niviṣṭaḥ; satyo mṛdur dānakṛc chuddha bhāvaḥ atīva saṃjñāyate jñātimadhye; mahāmaṇir jātya iva prasannaḥ 102 ya ātmanāpatrapate bhṛśaṃ naraḥ; sa sarvalokasya gurur bhavaty uta ananta tejāḥ sumanāḥ samāhitaḥ; svatejasā sūrya ivāvabhāsate 103 vane jātāḥ śāpadagdhasya rājñaḥ; pāṇḍoḥ putrāḥ pañca pañcendra kalpāḥ tvayaiva bālā vardhitāḥ śikṣitāś ca; tavādeśaṃ pālayanty āmbikeya 104 pradāyaiṣām ucitaṃ tāta rājyaṃ; sukhī putraiḥ sahito modamānaḥ na devānāṃ nāpi ca mānuṣāṇāṃ; bhaviṣyasi tvaṃ tarkaṇīyo narendra |