1
[धृ] भारथ्वाजं कदें युथ्धे युयुधानॊ ऽभयवारयत संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे 2 [स] शृणु राजन महाप्राज्ञ संग्रामं लॊमहर्षणम थरॊणस्य पाण्डवैः सार्धं युयुधान पुरॊगमैः 3 वध्यमानं बलं थृष्ट्वा युयुधानेन मारिष अभ्यथ्रवत सवयं थरॊणः सात्यकिं सत्यविक्रमम 4 तम आपतन्तं सहसा भारथ्वाजं महारदम सात्यकिः पञ्चविंशत्या कषुथ्रकाणां समार्पयत 5 थरॊणॊ ऽपि युधि विक्रान्तॊ युयुधानं समाहितः अविध्यत पञ्चभिस तूर्णंहेम पुङ्खैः शिलाशितैः 6 ते वर्म भित्त्वा सुथृढं थविषत पिशित भॊजनाः अभ्यगुर धरणीं राजञ शवसन्त इव पन्नगाः 7 थीर्घबाहुर अभिक्रुथ्धस तॊत्त्रार्थित इव थविपः थरॊणं पञ्चाशताविध्यन नाराचैर अग्निसंनिभैः 8 भारथ्वाजॊ रणे विथ्धॊ युयुधानेन स तवरम सात्यकिं बहुभिर बाणैर यतमानम अविध्यत 9 ततः करुथ्धॊ महेष्वासॊ भूय एव महाबलः सात्वतं पीडयाम आस शतेन नतपर्वणा 10 स वध्यमानः समरे भारथ्वाजेन सात्यकिः नाभ्यपथ्यत कर्तव्यं किं चिथ एव विशां पते 11 विषण्णवथनश चापि युयुधानॊ ऽभवन नृप भारथ्वाजं रणे थृष्ट्वा विसृजन्तं शिताञ शरान 12 तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश च विशां पते परहृष्टमनसॊ भूत्वा सिंहवथ वयनथन मुहुः 13 तं शरुत्वा निनथं घॊरं पीड्यमानं च माधवम युधिष्टिरॊ ऽबरवीथ राजन सर्वसैन्यानि भारत 14 एष वृष्णिवरॊ वीरः सात्यकिः सत्यकर्मकृत गरस्यते युधि वीरेण भानुमान इव राहुणा अभिथ्रवत गच्छध्वं सात्यकिर यत्र युध्यते 15 धृष्टथ्युम्नं च पाञ्चाल्यम इथम आह जनाधिप अभिथ्रव थरुतं थरॊणं किं नु तिष्ठसि पार्षत न पश्यसि भयं घॊरं थरॊणान नः समुपस्दितम 16 असौ थरॊणॊ महेष्वासॊ युयुधानेन संयुगे करीडते सूत्रबथ्धेन पक्षिणा बालकॊ यदा 17 तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रदाः तवयैव सहिता यत्ता युयुधान रदं परति 18 पृष्ठतॊ ऽनुगमिष्यामि तवाम अहं सह सैनिकः सात्यकिं मॊक्षयस्वाथ्य यम थंष्ट्रान्तरं गतम 19 एवम उक्त्वा ततॊ राजा सर्वसैन्येन पाण्डवः अभ्यथ्रवथ रणे थरॊणं युयुधानस्य कारणात 20 तत्रारावॊ महान आसीथ थरॊणम एकं युयुत्सताम पाण्डवानां च भथ्रं ते सृञ्जयानां च सर्वशः 21 ते समेत्य नरव्याघ्रा भारथ्वाजं महारदम अभ्यवर्षञ शरैस तीक्ष्णैः कङ्कबर्हिण वाजितः 22 समयन्न एव तु तान वीरान थरॊणः परत्यग्रहीत सवयम अतिदीन आगतान यथ्वत सलिलेनासनेन च 23 तर्पितास ते शरैस तस्य भारथ्वाजस्य धन्विनः आतिदेय गृहं पराप्य नृपते ऽतिदयॊ यदा 24 भारथ्वाजं च ते सर्वे न शेकुः परतिवीक्षितुम मध्यं थिनम अनुप्राप्तं सहस्रांशुम इव परभॊ 25 तांस तु सर्वान महेष्वासान थरॊणः शस्त्रभृतां वरः अतापयच छरव्रातैर गभस्तिभिर इवांशुमान 26 वध्यमाना रणे राजन पाण्डवाः सृञ्जयास तदा तरातारं नाध्यगच्छन्त पङ्कमग्ना इव थविपाः 27 थरॊणस्य च वयथृश्यन्त विसर्पन्तॊ महाशराः घभस्तय इवार्कस्य परतपन्तः समन्ततः 28 तस्मिन थरॊणेन निहताः पाञ्चालाः पञ्चविंशतिः महारदसमाख्याता धृष्टथ्युम्नस्य संमताः 29 पाण्डूनां सर्वसैन्येषु पाञ्चालानां तदैव च थरॊणं सम थथृशुः शूरं विनिघ्नन्तं वरान वरान 30 केकयानां शतं हत्वा विथ्राव्य च समन्ततः थरॊणस तस्दौ महाराज वयाथितास्य इवान्तकः 31 पाञ्चालान सृञ्जयान मत्स्यान केकयान पाण्डवान अपि थरॊणॊ ऽजयन महाबाहुः शतशॊ ऽद सहस्रशः 32 तेषां समभवच छब्थॊ वध्यतां थरॊण सायकैः वनौकसाम इवारण्ये थह्यतां धूमकेतुना 33 तत्र थेवाः स गन्धर्वाः पितरश चाब्रुवन नृप एते थरवन्ति पाञ्चालाः पाण्डवाश च स सैनिकाः 34 तं तदा समरे थरॊणं निघ्नन्तं सॊमकान रणे न चाप्य अभिययुः के चिथ अपरे नैव विव्यधुः 35 वर्तमाने तदा रौथ्रे तस्मिन वीरवरक्षये अशृणॊत सहसा पार्दः पाञ्चजन्यस्य निस्वनम 36 पूरितॊ वासुथेवेन शङ्खराट सवनते भृशम युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु नथत्सु धार्तराष्ट्रेषु विजयस्य रदं परति 37 गाण्डीवस्य च निर्घॊषे विप्रनष्टे समन्ततः कश्मलाभिहतॊ राजा चिन्तयाम आस पाण्डवः 38 न नूनं सवस्ति पार्दस्य यदा नथति शङ्खराट कौरवाश च यदा हृष्टा विनथन्ति मुहुर मुहुः 39 एवं संचिन्तयित्वा तु वयाकुलेनान्तर आत्मना अजातशत्रुः कौन्तेयः सात्वतं परत्यभाषत 40 बाष्पगथ्गथया वाचा मुह्यमानॊ मुहुर मुहुः कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुंगवम 41 यः स धर्मः पुरा थृष्टः सथ्भिः शैनेय शाश्वतः साम्पराये सुहृत कृत्ये तस्य कालॊ ऽयम आगतः 42 सर्वेष्व अपि च यॊधेषु चिन्तयञ शिनिपुंगव तवत्तः सुहृत्तमं कं चिन नाभिजानामि सात्यके 43 यॊ हि परीतमना नित्यं यश च नित्यम अनुव्रतः स कार्ये साम्पराये तु नियॊज्य इति मे मतिः 44 यदा च केशवॊ नित्यं पाण्डवानां परायणम तदा तवम अपि वार्ष्णेय कृष्ण तुल्यपराक्रमः 45 सॊ ऽहं भारं समाधास्ये तवयि तं वॊढुम अर्हसि अभिप्रायं च मे नित्यं न वृदा कर्तुम अर्हसि 46 स तवं भरातुर वयस्यस्य गुरॊर अपि च संयुगे कुरु कृच्छ्रसहायार्दम अर्जुनस्य नरर्षभ 47 तवं हि सत्यव्रतः शूरॊ मित्राणाम अभयंकरः लॊके विख्यायसे वीरकर्मभिः सत्यवाग इति 48 यॊ हि शैनेय मित्रार्दे युध्यमानस तयजेत तनुम पृदिवीं वा थविजातिभ्यॊ यॊ थथ्यात समम एव तत 49 शरुताश च बहवॊ ऽसमाभी राजानॊ ये थिवं गताः थत्त्वेमां पृदिवीं कृत्स्नां बराह्मणेभ्यॊ यदाविधि 50 एवं तवाम अपि धर्मात्मन परयाचे ऽहं कृताञ्जलिः पृदिवी थानतुल्यं सयाथ अधिकं वा फलं विभॊ 51 एक एव सथा कृष्णॊ मित्राणाम अभयंकरः रणे संत्यजति पराणान थवितीयस तवं च सात्यके 52 विक्रान्तस्य च वीरस्य युथ्धे परार्दयते यशः शूर एव सहायः सयान नेतरः पराकृतॊ जनः 53 ईथृशे तु परामर्थे वर्तमानस्य माधव तवथन्यॊ हि रणे गॊप्ता विजयस्य न विथ्यते 54 शलाघन्न एव हि कर्माणि शतशस तव पाण्डवः मम संजनयन हर्षं पुनः पुनर अकीर्तयत 55 लघ्व अस्त्रश चित्रयॊधी च तदा लघुपराक्रमः पराज्ञः सर्वास्त्रविच छूरॊ मुह्यते न च संयुगे 56 महास्कन्धॊ महॊरस्कॊ महाबाहुर महाधनुः महाबलॊ महावीर्यः स महात्मा महारदः 57 शिष्यॊ मम सखा चैव परियॊ ऽसयाहं परियश च मे युयुधानः सहायॊ मे परमदिष्यति कौरवान 58 अस्मथर्दं च राजेन्थ्र संनह्येथ यथि केशवः रामॊ वाप्य अनिरुथ्धॊ वा परथ्युम्नॊ वा महारदः 59 गथॊ वा सारणॊ वापि साम्बॊ वा सह वृष्णिभिः सहायार्दं महाराज संग्रामॊत्तम मूर्धनि 60 तदाप्य अहं नरव्याघ्रं शैनेयं सत्यविक्रमम साहाय्ये विनियॊक्ष्यामि नासिन मे ऽनयॊ हि तत समः 61 इति थवैतवने तात माम उवाच धनंजयः परॊक्षं तवथ गुणांस तद्यान कदयन्न आर्य संसथि 62 तस्य तवम एवं संकल्पं न वृदा कर्तुम अर्हसि धनंजयस्य वार्ष्णेय मम भीमस्य चॊभयॊः 63 यच चापि तीर्दानि चरन्न अगच्छं थवारकां परति तत्राहम अपि ते भक्तिम अर्जुनं परति थृष्टवान 64 न तत सौहृथम अन्येषु मया शैनेय लक्षितम यदा तम अस्मान भजसे वर्तमानान उपप्लवे 65 सॊ ऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च सौहृथस्य च वीर्यस्य कुलीनत्वस्य माधव 66 सत्यस्य च महाबाहॊ अनुकम्पार्दम एव च अनुरूपं महेष्वास कर्म तवं कर्तुम अर्हसि 67 सॊयॊधनॊ हि सहसा गतॊ थरॊणेन थंशितः पूर्वम एव तु यातास ते कौरवाणां महारदाः 68 सुमहान निनथंश चैव शरूयते विजयं परति स शैनेय जवेनात्र गन्तुम अर्हसि माधव 69 भीमसेनॊ वयं चैव संयत्ताः सह सैनिकाः थरॊणम आवारयिष्यामॊ यथि तवां परति यास्यति 70 पश्य शैनेय सैन्यानि थरवमाणानि संयुगे महान्तं च रणे शब्थं थीर्यमाणां च भारतीम 71 महामारुत वेगेन समुथ्रम इव पर्वसु धार्तराष्ट्र बलं तात विक्षिप्तं सव्यसाचिना 72 रदैर विपरिधावथ्भिर मनुष्यैश च हयैश च ह सैन्यं रजः समुथ्धूतम एत संपरिवर्तते 73 संवृतः सिन्धुसौवीरैर नखरप्रासयॊधिभि अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा 74 नैतथ बलम असंवार्य शक्यॊ हन्तुं जयथ्रदः एते हि सैन्धवस्यार्दे सर्वे संत्यक्तजीविताः 75 शरशक्तिध्वजवनं हयनागसमाकुलम पश्यैतथ धार्तराष्ट्राणाम अनीकं सुथुरासथम 76 शृणु थुन्थुभिनिर्घॊषं शङ्खशब्थांश च पुष्कलान सिंहनाथ रवांश चैव रदनेमि सवनांस तदा 77 नागानां शृणु शब्थं च पत्तीनां च सहस्रशः साथिनां थरवतां चैव शृणु कम्पयतां महीम 78 पुरस्तात सौन्धवानीकं थरॊणानीकस्य पृष्ठतः बहुत्वाथ धि नरव्याघ्र थेवेन्थ्रम अपि पीडयेत 79 अपर्यन्ते बले मग्नॊ जह्याथ अपि च जीवितम तस्मिंश च निहते युथ्धे कदं जीवेत माथृशः सर्वदाहम अनुप्राप्तः सुकृच्छ्रं बलजीवितम 80 शयामॊ युवा गुडाकेशॊ थर्शनीयश च पाण्डवः लघ्व अस्त्रश चित्रयॊधी च परविष्टस तात भारतीम 81 सूर्यॊथये महाबाहुर थिवसश चातिवर्तते तन्न जानामि वार्ष्णेय यथि जीवति वा न वा कुरूणां चापि तत सैन्यं सागरप्रतिमं महत 82 एक एव च बीभत्सुः परविष्टस तात भारतीम अविषह्यां महाबाहुः सुरैर अपि महामृधे 83 न च मे वर्तते बुथ्धिर अथ्य युथ्धे कदं चन थरॊणॊ ऽपि रभसॊ युथ्धे मम पीडयते बलम परत्यक्षं ते महाबाहॊ यदासौ चरति थविजः 84 युगपच च समेतानां कार्याणां तवं विचक्षणः महार्दं लघु संयुक्तं कर्तुम अर्हसि माधव 85 तस्य मे सर्वकार्येषु कार्यम एतन मतं सथा अर्जुनस्य परित्राणं कर्तव्यम इति संयुगे 86 नाहं शॊचामि थाशार्हं गॊप्तारं जगतः परभुम स हि शक्तॊ रणे तात तरीँल लॊकान अपि संगतान 87 विजेतुं पुरुषव्याघ्र सत्यम एतथ बरवीमि ते किं पुनर धार्तराष्ट्रस्य बलम एतत सुथुर्बलम 88 अर्जुनस तव एव बार्ष्णेय पीडितॊ बहुभिर युधि परजह्यात समरे पराणांस तस्माथ विन्थामि कश्मलम 89 तस्य तवं पथवीं गच्छ गच्छेयुस तवाथृशा यदा तवाथृशस्येथृशे काले माथृशेनाभिचॊथितः 90 रणे वृष्णिप्रवीराणां थवाव एवातिरदौ समृतौ परथ्युम्नश च महाबाहुस तवं च सात्वत विश्रुतः 91 अस्त्रे नारायण समः संकर्षण समॊ बले वीरतायां नरव्याघ्र धनंजय समॊ हय असि 92 भीष्मथ्रॊणाव अतिक्रम्य सर्वयुथ्धविशारथम तवाम अथ्य पुरुषव्याघ्रं लॊके सन्तः परचक्षते 93 नासाध्यं विथ्यते लॊके सात्यकेर इति माधव तत तवां यथ अभिवक्ष्यामि तत कुरुष्व महाबल 94 संभावना हि लॊकस्य तव पार्दस्य चॊभयॊः नान्यदा तां महाबाहॊ संप्रकर्तुम इहार्हसि 95 परित्यज्य परियान पराणान रणे विचर वीरवत न हि शैनेय थाशार्हा रणे रक्षन्ति जीवितम 96 अयुथ्धम अनवस्दानं संग्रामे च पलायनम भीरूणाम असतां मार्गॊ नैष थाशार्ह सेवितः 97 तवार्जुनॊ गुरुस तात धर्मात्मा शिनिपुंगव वासुथेवॊ गुरुश चापि तव पार्दस्य धीमतः 98 कारणथ्वयम एतथ धि जानानस तवाहम अब्रुवम मावमंस्दा वचॊ मह्यं गुरुस तव गुरॊर हय अहम 99 वासुथेव मतं चैतन मम चैवार्जुनस्य च सत्यम एतन मयॊक्तं ते याहि यत्र धनंजयः 100 एतथ वचनम आज्ञाय मम सत्यपराक्रम परविशैतथ बलं तात धार्तराष्ट्रस्य थुर्मतेः 101 परविश्य च यदान्यायं संगम्य च महारदैः यदार्हम आत्मनः कर्म रणे सात्वत थर्शय |
1
[dhṛ] bhāradvājaṃ katheṃ yuddhe yuyudhāno 'bhyavārayat saṃjayācakṣva tattvena paraṃ kautūhalaṃ hi me 2 [s] śṛṇu rājan mahāprājña saṃgrāmaṃ lomaharṣaṇam droṇasya pāṇḍavaiḥ sārdhaṃ yuyudhāna purogamaiḥ 3 vadhyamānaṃ balaṃ dṛṣṭvā yuyudhānena māriṣa abhyadravat svayaṃ droṇaḥ sātyakiṃ satyavikramam 4 tam āpatantaṃ sahasā bhāradvājaṃ mahāratham sātyakiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat 5 droṇo 'pi yudhi vikrānto yuyudhānaṃ samāhitaḥ avidhyat pañcabhis tūrṇaṃhema puṅkhaiḥ śilāśitaiḥ 6 te varma bhittvā sudṛḍhaṃ dviṣat piśita bhojanāḥ abhyagur dharaṇīṃ rājañ śvasanta iva pannagāḥ 7 dīrghabāhur abhikruddhas tottrārdita iva dvipaḥ droṇaṃ pañcāśatāvidhyan nārācair agnisaṃnibhaiḥ 8 bhāradvājo raṇe viddho yuyudhānena sa tvaram sātyakiṃ bahubhir bāṇair yatamānam avidhyata 9 tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ sātvataṃ pīḍayām āsa śatena nataparvaṇā 10 sa vadhyamānaḥ samare bhāradvājena sātyakiḥ nābhyapadyata kartavyaṃ kiṃ cid eva viśāṃ pate 11 viṣaṇṇavadanaś cāpi yuyudhāno 'bhavan nṛpa bhāradvājaṃ raṇe dṛṣṭvā visṛjantaṃ śitāñ śarān 12 taṃ tu saṃprekṣya te putrāḥ sainikāś ca viśāṃ pate prahṛṣṭamanaso bhūtvā siṃhavad vyanadan muhuḥ 13 taṃ śrutvā ninadaṃ ghoraṃ pīḍyamānaṃ ca mādhavam yudhiṣṭiro 'bravīd rājan sarvasainyāni bhārata 14 eṣa vṛṣṇivaro vīraḥ sātyakiḥ satyakarmakṛt grasyate yudhi vīreṇa bhānumān iva rāhuṇā abhidravata gacchadhvaṃ sātyakir yatra yudhyate 15 dhṛṣṭadyumnaṃ ca pāñcālyam idam āha janādhipa abhidrava drutaṃ droṇaṃ kiṃ nu tiṣṭhasi pārṣata na paśyasi bhayaṃ ghoraṃ droṇān naḥ samupasthitam 16 asau droṇo maheṣvāso yuyudhānena saṃyuge krīḍate sūtrabaddhena pakṣiṇā bālako yathā 17 tatraiva sarve gacchantu bhīmasenamukhā rathāḥ tvayaiva sahitā yattā yuyudhāna rathaṃ prati 18 pṛṣṭhato 'nugamiṣyāmi tvām ahaṃ saha sainikaḥ sātyakiṃ mokṣayasvādya yama daṃṣṭrāntaraṃ gatam 19 evam uktvā tato rājā sarvasainyena pāṇḍavaḥ abhyadravad raṇe droṇaṃ yuyudhānasya kāraṇāt 20 tatrārāvo mahān āsīd droṇam ekaṃ yuyutsatām pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ 21 te sametya naravyāghrā bhāradvājaṃ mahāratham abhyavarṣañ śarais tīkṣṇaiḥ kaṅkabarhiṇa vājitaḥ 22 smayann eva tu tān vīrān droṇaḥ pratyagrahīt svayam atithīn āgatān yadvat salilenāsanena ca 23 tarpitās te śarais tasya bhāradvājasya dhanvinaḥ ātitheya gṛhaṃ prāpya nṛpate 'tithayo yathā 24 bhāradvājaṃ ca te sarve na śekuḥ prativīkṣitum madhyaṃ dinam anuprāptaṃ sahasrāṃśum iva prabho 25 tāṃs tu sarvān maheṣvāsān droṇaḥ śastrabhṛtāṃ varaḥ atāpayac charavrātair gabhastibhir ivāṃśumān 26 vadhyamānā raṇe rājan pāṇḍavāḥ sṛñjayās tathā trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ 27 droṇasya ca vyadṛśyanta visarpanto mahāśarāḥ ghabhastaya ivārkasya pratapantaḥ samantataḥ 28 tasmin droṇena nihatāḥ pāñcālāḥ pañcaviṃśatiḥ mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ 29 pāṇḍūnāṃ sarvasainyeṣu pāñcālānāṃ tathaiva ca droṇaṃ sma dadṛśuḥ śūraṃ vinighnantaṃ varān varān 30 kekayānāṃ śataṃ hatvā vidrāvya ca samantataḥ droṇas tasthau mahārāja vyāditāsya ivāntakaḥ 31 pāñcālān sṛñjayān matsyān kekayān pāṇḍavān api droṇo 'jayan mahābāhuḥ śataśo 'tha sahasraśaḥ 32 teṣāṃ samabhavac chabdo vadhyatāṃ droṇa sāyakaiḥ vanaukasām ivāraṇye dahyatāṃ dhūmaketunā 33 tatra devāḥ sa gandharvāḥ pitaraś cābruvan nṛpa ete dravanti pāñcālāḥ pāṇḍavāś ca sa sainikāḥ 34 taṃ tathā samare droṇaṃ nighnantaṃ somakān raṇe na cāpy abhiyayuḥ ke cid apare naiva vivyadhuḥ 35 vartamāne tathā raudre tasmin vīravarakṣaye aśṛṇot sahasā pārthaḥ pāñcajanyasya nisvanam 36 pūrito vāsudevena śaṅkharāṭ svanate bhṛśam yudhyamāneṣu vīreṣu saindhavasyābhirakṣiṣu nadatsu dhārtarāṣṭreṣu vijayasya rathaṃ prati 37 gāṇḍīvasya ca nirghoṣe vipranaṣṭe samantataḥ kaśmalābhihato rājā cintayām āsa pāṇḍavaḥ 38 na nūnaṃ svasti pārthasya yathā nadati śaṅkharāṭ kauravāś ca yathā hṛṣṭā vinadanti muhur muhuḥ 39 evaṃ saṃcintayitvā tu vyākulenāntar ātmanā ajātaśatruḥ kaunteyaḥ sātvataṃ pratyabhāṣata 40 bāṣpagadgadayā vācā muhyamāno muhur muhuḥ kṛtyasyānantarāpekṣī śaineyaṃ śinipuṃgavam 41 yaḥ sa dharmaḥ purā dṛṣṭaḥ sadbhiḥ śaineya śāśvataḥ sāmparāye suhṛt kṛtye tasya kālo 'yam āgataḥ 42 sarveṣv api ca yodheṣu cintayañ śinipuṃgava tvattaḥ suhṛttamaṃ kaṃ cin nābhijānāmi sātyake 43 yo hi prītamanā nityaṃ yaś ca nityam anuvrataḥ sa kārye sāmparāye tu niyojya iti me matiḥ 44 yathā ca keśavo nityaṃ pāṇḍavānāṃ parāyaṇam tathā tvam api vārṣṇeya kṛṣṇa tulyaparākramaḥ 45 so 'haṃ bhāraṃ samādhāsye tvayi taṃ voḍhum arhasi abhiprāyaṃ ca me nityaṃ na vṛthā kartum arhasi 46 sa tvaṃ bhrātur vayasyasya guror api ca saṃyuge kuru kṛcchrasahāyārtham arjunasya nararṣabha 47 tvaṃ hi satyavrataḥ śūro mitrāṇām abhayaṃkaraḥ loke vikhyāyase vīrakarmabhiḥ satyavāg iti 48 yo hi śaineya mitrārthe yudhyamānas tyajet tanum pṛthivīṃ vā dvijātibhyo yo dadyāt samam eva tat 49 śrutāś ca bahavo 'smābhī rājāno ye divaṃ gatāḥ dattvemāṃ pṛthivīṃ kṛtsnāṃ brāhmaṇebhyo yathāvidhi 50 evaṃ tvām api dharmātman prayāce 'haṃ kṛtāñjaliḥ pṛthivī dānatulyaṃ syād adhikaṃ vā phalaṃ vibho 51 eka eva sadā kṛṣṇo mitrāṇām abhayaṃkaraḥ raṇe saṃtyajati prāṇān dvitīyas tvaṃ ca sātyake 52 vikrāntasya ca vīrasya yuddhe prārthayate yaśaḥ śūra eva sahāyaḥ syān netaraḥ prākṛto janaḥ 53 īdṛśe tu parāmarde vartamānasya mādhava tvadanyo hi raṇe goptā vijayasya na vidyate 54 ślāghann eva hi karmāṇi śataśas tava pāṇḍavaḥ mama saṃjanayan harṣaṃ punaḥ punar akīrtayat 55 laghv astraś citrayodhī ca tathā laghuparākramaḥ prājñaḥ sarvāstravic chūro muhyate na ca saṃyuge 56 mahāskandho mahorasko mahābāhur mahādhanuḥ mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ 57 śiṣyo mama sakhā caiva priyo 'syāhaṃ priyaś ca me yuyudhānaḥ sahāyo me pramathiṣyati kauravān 58 asmadarthaṃ ca rājendra saṃnahyed yadi keśavaḥ rāmo vāpy aniruddho vā pradyumno vā mahārathaḥ 59 gado vā sāraṇo vāpi sāmbo vā saha vṛṣṇibhiḥ sahāyārthaṃ mahārāja saṃgrāmottama mūrdhani 60 tathāpy ahaṃ naravyāghraṃ śaineyaṃ satyavikramam sāhāyye viniyokṣyāmi nāsin me 'nyo hi tat samaḥ 61 iti dvaitavane tāta mām uvāca dhanaṃjayaḥ parokṣaṃ tvad guṇāṃs tathyān kathayann ārya saṃsadi 62 tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi dhanaṃjayasya vārṣṇeya mama bhīmasya cobhayoḥ 63 yac cāpi tīrthāni carann agacchaṃ dvārakāṃ prati tatrāham api te bhaktim arjunaṃ prati dṛṣṭavān 64 na tat sauhṛdam anyeṣu mayā śaineya lakṣitam yathā tam asmān bhajase vartamānān upaplave 65 so 'bhijātyā ca bhaktyā ca sakhyasyācāryakasya ca sauhṛdasya ca vīryasya kulīnatvasya mādhava 66 satyasya ca mahābāho anukampārtham eva ca anurūpaṃ maheṣvāsa karma tvaṃ kartum arhasi 67 soyodhano hi sahasā gato droṇena daṃśitaḥ pūrvam eva tu yātās te kauravāṇāṃ mahārathāḥ 68 sumahān ninadaṃś caiva śrūyate vijayaṃ prati sa śaineya javenātra gantum arhasi mādhava 69 bhīmaseno vayaṃ caiva saṃyattāḥ saha sainikāḥ droṇam āvārayiṣyāmo yadi tvāṃ prati yāsyati 70 paśya śaineya sainyāni dravamāṇāni saṃyuge mahāntaṃ ca raṇe śabdaṃ dīryamāṇāṃ ca bhāratīm 71 mahāmāruta vegena samudram iva parvasu dhārtarāṣṭra balaṃ tāta vikṣiptaṃ savyasācinā 72 rathair viparidhāvadbhir manuṣyaiś ca hayaiś ca ha sainyaṃ rajaḥ samuddhūtam eta saṃparivartate 73 saṃvṛtaḥ sindhusauvīrair nakharaprāsayodhibhi atyantāpacitaiḥ śūraiḥ phalgunaḥ paravīrahā 74 naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ ete hi saindhavasyārthe sarve saṃtyaktajīvitāḥ 75 śaraśaktidhvajavanaṃ hayanāgasamākulam paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam 76 śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃś ca puṣkalān siṃhanāda ravāṃś caiva rathanemi svanāṃs tathā 77 nāgānāṃ śṛṇu śabdaṃ ca pattīnāṃ ca sahasraśaḥ sādināṃ dravatāṃ caiva śṛṇu kampayatāṃ mahīm 78 purastāt saundhavānīkaṃ droṇānīkasya pṛṣṭhataḥ bahutvād dhi naravyāghra devendram api pīḍayet 79 aparyante bale magno jahyād api ca jīvitam tasmiṃś ca nihate yuddhe kathaṃ jīveta mādṛśaḥ sarvathāham anuprāptaḥ sukṛcchraṃ balajīvitam 80 śyāmo yuvā guḍākeśo darśanīyaś ca pāṇḍavaḥ laghv astraś citrayodhī ca praviṣṭas tāta bhāratīm 81 sūryodaye mahābāhur divasaś cātivartate tanna jānāmi vārṣṇeya yadi jīvati vā na vā kurūṇāṃ cāpi tat sainyaṃ sāgarapratimaṃ mahat 82 eka eva ca bībhatsuḥ praviṣṭas tāta bhāratīm aviṣahyāṃ mahābāhuḥ surair api mahāmṛdhe 83 na ca me vartate buddhir adya yuddhe kathaṃ cana droṇo 'pi rabhaso yuddhe mama pīḍayate balam pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ 84 yugapac ca sametānāṃ kāryāṇāṃ tvaṃ vicakṣaṇaḥ mahārthaṃ laghu saṃyuktaṃ kartum arhasi mādhava 85 tasya me sarvakāryeṣu kāryam etan mataṃ sadā arjunasya paritrāṇaṃ kartavyam iti saṃyuge 86 nāhaṃ śocāmi dāśārhaṃ goptāraṃ jagataḥ prabhum sa hi śakto raṇe tāta trīṁl lokān api saṃgatān 87 vijetuṃ puruṣavyāghra satyam etad bravīmi te kiṃ punar dhārtarāṣṭrasya balam etat sudurbalam 88 arjunas tv eva bārṣṇeya pīḍito bahubhir yudhi prajahyāt samare prāṇāṃs tasmād vindāmi kaśmalam 89 tasya tvaṃ padavīṃ gaccha gaccheyus tvādṛśā yathā tvādṛśasyedṛśe kāle mādṛśenābhicoditaḥ 90 raṇe vṛṣṇipravīrāṇāṃ dvāv evātirathau smṛtau pradyumnaś ca mahābāhus tvaṃ ca sātvata viśrutaḥ 91 astre nārāyaṇa samaḥ saṃkarṣaṇa samo bale vīratāyāṃ naravyāghra dhanaṃjaya samo hy asi 92 bhīṣmadroṇāv atikramya sarvayuddhaviśāradam tvām adya puruṣavyāghraṃ loke santaḥ pracakṣate 93 nāsādhyaṃ vidyate loke sātyaker iti mādhava tat tvāṃ yad abhivakṣyāmi tat kuruṣva mahābala 94 saṃbhāvanā hi lokasya tava pārthasya cobhayoḥ nānyathā tāṃ mahābāho saṃprakartum ihārhasi 95 parityajya priyān prāṇān raṇe vicara vīravat na hi śaineya dāśārhā raṇe rakṣanti jīvitam 96 ayuddham anavasthānaṃ saṃgrāme ca palāyanam bhīrūṇām asatāṃ mārgo naiṣa dāśārha sevitaḥ 97 tavārjuno gurus tāta dharmātmā śinipuṃgava vāsudevo guruś cāpi tava pārthasya dhīmataḥ 98 kāraṇadvayam etad dhi jānānas tvāham abruvam māvamaṃsthā vaco mahyaṃ gurus tava guror hy aham 99 vāsudeva mataṃ caitan mama caivārjunasya ca satyam etan mayoktaṃ te yāhi yatra dhanaṃjayaḥ 100 etad vacanam ājñāya mama satyaparākrama praviśaitad balaṃ tāta dhārtarāṣṭrasya durmateḥ 101 praviśya ca yathānyāyaṃ saṃgamya ca mahārathaiḥ yathārham ātmanaḥ karma raṇe sātvata darśaya |