1
[स] वयूहेष्व आलॊड्यमानेषु पाण्डवानां ततस ततः सुथूरम अन्वयुः पार्दाः पाञ्चालाः सह सॊमकैः 2 वर्तमाने तदा रौथ्रे संग्रामे लॊमहर्षणे परक्षये जगतस तीव्रे युगान्त इव भारत 3 थरॊणे युधि पराक्राने नर्थमाने मुहुर मुहुः पाञ्चालेषु च कषीणेषु वध्यमानेषु पाण्डुषु 4 नापश्यच छरणं किं चिथ धर्मराजॊ युधिष्ठिरः चिन्तयाम आस राजेन्थ्र कदम एतथ भविष्यति 5 तत्रावेक्ष्य थिशः सर्वाः सव्यसाचि थिथृष्ट्कया युधिष्ठिरॊ थथर्शाद नैव पार्द न माधवम 6 सॊ ऽपश्यन नरशार्थूलं वानरर्षभ लक्षणम गाण्डीवस्य च निर्घॊषम अशृण्वन वयदितेन्थ्रियः 7 अपश्यन सात्यकिं चापि वृष्णीनां परवरं रदम चिन्तयाभिपरीताङ्गॊ धर्मराजॊ युधिष्ठिरः नाध्यगच्छत तथा शान्तिं ताव अपश्यन नरर्षभौ 8 लॊकॊपक्रॊश भीरुत्वाथ धर्मराजॊ महायशाः अचिन्तयन महाबाहुः शैनेयस्य रदं परति 9 पथवीं परेषितश चैव फल्गुनस्य मया रणे शैनेयः सात्यकिः सत्यॊ मित्राणाम अभयंकरः 10 तथ इथं हय एकम एवासीथ थविधा जातं ममाथ्य वै सात्यकिश च हि मे जञेयः पाण्डवश च धनंजयः 11 सात्यकिं परेषयित्वा तु पाण्डवस्य पथानुगम सात्वतस्यापि किं युथ्धे परेषयिष्ये पथानुगम 12 करिष्यामि परयत्नेन भरातुर अन्वेषणं यथि युयुधानम अनन्विष्य लॊकॊ मां गर्हयिष्यति 13 भरातुर अन्वेषणं कृत्वा धर्मराजॊ युधिष्ठिरः परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम 14 लॊकापवाथभीरुत्वात सॊ ऽहं पार्दं वृकॊथरम पथवीं परेषयिष्यामि माधवस्य महात्मनः 15 यदैव च मम परीतिर अर्जुने शत्रुसूथने तदैव वृष्णिवीरे ऽपि सात्वते युथ्धथुर्मथे 16 अतिभारे नियुक्तश च मया शैनेयनन्थनः स तु मित्रॊपरॊधेन गौरवाच च महाबलः परविष्टॊ भरतीं सेनां मकरः सागरं यदा 17 असौ हि शरूयते शब्थः शूराणाम अनिवर्तिनाम मिदः संयुध्यमानानां वृष्णिवीरेण धीमता 18 पराप्तकालं सुबलवन निश्चित्य बहुधा हि मे तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः गमनं रॊचते मह्यं यत्र यातौ महारदौ 19 न चाप्य असह्यं भीमस्य विथ्यते भुवि किं चन शक्तॊ हय एष रणे यत्तान पृदिव्यां सर्वधन्विनः सवबाहुबलम आस्दाय परतिव्यूहितुम अञ्जसा 20 यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः वनवासान निवृत्ताः सम न च युथ्धेषु निर्जिताः 21 इतॊ गते भीमसेने सात्वतं परति पाण्डवे स नादौ भवितारौ हि युधि सात्वत फल्गुनौ 22 कामं तव अशॊचनीयौ तौ रणे सात्वत फल्गुनौ रक्षितौ वासुथेवेन सवयं चास्त्रविशारथौ 23 अवश्यं तु मया कार्यम आत्मनः शॊकनाशनम तस्माथ भीमं नियॊक्ष्यामि सात्वतस्य पथानुगम ततः परतिकृतं मन्ये विधानं सात्यकिं परति 24 एवं निश्चित्य मनसा धर्मपुत्रॊ युधिष्ठिरः यन्तारम अब्रवीथ राजन भीमं परति नयस्व माम 25 धर्मराज वचः शरुत्वा सारदिर हयकॊविथः रदं हेमपरिष्कारं भीमान्तिकम उपानयत 26 भीमसेनम अनुप्राप्य पराप्तकालम अनुस्मरन कश्मलं पराविशथ राजा बहु तत्र समाथिशन 27 यः स थेवान स गन्धर्वान थैत्यांश चैकरदॊ ऽजयत तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते 28 ततॊ ऽबरवीथ धर्मराजं भीमसेनस तदागतम नैवाथ्राक्षं न चाश्रौषं तव कश्मलम ईथृशम 29 पुरा हि थुःखथीर्णानां भवान गतिर अभूथ धि नः उत्तिष्ठॊत्तिष्ठ राजेन्थ्र शाधि किं करवाणि ते 30 न हय असाध्यम अकार्यं वा विथ्यते मम मानथ आज्ञापय कुरुश्रेष्ठ मा च शॊके मनः कृदाः 31 तम अब्रवीथ अश्रुपूर्णः कृष्णसर्प इव शवसन भीमसेनम इथं वाक्यं परम्लान वथनॊ नृपः 32 यदा शङ्खस्य निर्घॊषः पाञ्चजन्यस्य शरूयते परेरितॊ वासुथेवेन संरब्धेन यशस्विना नूनम अथ्य हतः शेते तव भराता धनंजयः 33 तस्मिन विनिहते नूनं युध्यते ऽसौ जनार्थनः यस्य सत्त्ववतॊ वीर्यम उपजीवन्ति पाण्डवाः 34 यं भयेष्व अभिगच्छन्ति सहस्राक्षम इवामराः स शूरः सैन्धव परेप्सुर अन्वयाथ भारतीं चमूम 35 तस्य वै गमनं विथ्मॊ भीम नावर्तनं पुनः शयामॊ युवा गुडाकेशॊ थर्शनीयॊ महाभुजः 36 वयूढॊरस्कॊ महास्कन्धॊ मत्तथ्विरथविक्रमः चकॊर नेत्रस ताम्राक्षॊ थविषताम अघवर्धनः 37 तथ इथं मम भथ्रं ते शॊकस्दानम अरिंथम अर्जुनार्दं महाबाहॊ सात्वतस्य च कारणात 38 वर्धते हविषेवाग्निर इध्यमानः पुनः पुनः तस्य लक्ष्म न पश्यामि तेन विन्थामि कश्मलम 39 तं विथ्धि पुरुषव्याघ्रं सात्वतं च महारदम स तं महारदं पश्चाथ अनुयातस तवानुजम तम अपश्यन महाबाहुम अहं विन्थामि कश्मलम 40 तस्मात कृष्णॊ रणे नूनं युध्यते युथ्धकॊविथः यस्य वीर्यवतॊ वीर्यम उपजीवन्ति पाण्डवाः 41 स तत्र गच्छ कौनेय यत्र यातॊ धनंजयः सात्यकिश च महावीर्यः कर्तव्यं यथि मन्यसे वचनं मम धर्मज्ञ जयेष्ठॊ भराता भवामि ते 42 न ते ऽरजुनस तदा जञेयॊ जञातव्यः सात्यकिर यदा चिकीर्षुर मत्प्रियं पार्द परयातः सव्यसाचिनः पथवीं थुर्गमां घॊराम अगम्याम अकृतात्मभिः 43 [भम] बरह्मेषानेन्थ्र वरुणान अवहथ यः पुरा रदः तम आस्दाय गतौ कृष्णौ न तयॊर विथ्यते भयम 44 आज्ञां तु शिरसा बिभ्रथ एष गच्छामि मा शुचः समेत्य तान नरव्याघ्रांस तव थास्यामि संविथम 45 [स] एतावथ उक्त्वा परययौ परिथाय युधिष्ठिरम धृष्टथ्युम्नाय बलवान सुहृथ्भ्यश च पुनः पुनः धृष्टथ्युम्नं चेथम आह भीमसेनॊ महाबलः 46 विथितं ते महाबाहॊ यदा थरॊणॊ महारदः गरहणे धर्मराजस्य सर्वॊपायेन वर्तते 47 न च मे गमने कृत्यं ताथृक पार्षत विथ्यते याथृशं रक्षणे राज्ञः कार्यम आत्ययिकं हि नः 48 एवम उक्तॊ ऽसमि पार्देन परतिवक्तुं सम नॊत्सहे परयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः सदितः धर्मराजस्य वचने सदातव्यम अविशङ्कया 49 सॊ ऽथय यत्तॊ रणे पार्दं परिरक्ष युधिष्ठिरम एतथ धि सर्वकार्याणां परमं कृत्यम आहवे 50 तम अब्रवीन महाराज धृष्टथ्युम्नॊ वृकॊथरम ईप्सितेन महाबाहॊ गच्छ पार्दाविचारयन 51 नाहत्वा समरे थरॊणॊ धृष्टथ्युम्नं कदं चन निग्रहं धर्मराजस्य परकरिष्यति संयुगे 52 ततॊ निक्षिप्य राजानं धृष्टथ्युम्नाय पाण्डवः अभिवाथ्य गुरुं जयेष्ठं परययौ यत्र फल्गुनः 53 परिष्वक्तस तु कौन्तेयॊ धर्मराजेन भारत आघ्रातश च तदा मूर्ध्नि शरावितश चाशिषः शुभाः 54 भीमसेनॊ महाबाहुः कवची शुभकुण्डली साङ्गथः स तनुत्राणः स शरी रदिनां वरः 55 तस्य कार्ण्षायसं वर्म हेमचित्रं महर्थ्धिमत विबभौ पर्वत शलिष्टः स विथ्युथ इव तॊयथः 56 पीतरक्तासित सितैर वासॊभिश च सुवेष्टितः कण्ठत्राणेन च बभौ सेन्थ्रायुध इवाम्बुथः 57 परयाते भीमसेने तु तव सैन्यं युयुत्सया पाञ्चजन्य रवॊ घॊरः पुनर आसीथ विशां पते 58 तं शरुत्वा निनथं घॊरं तरैलॊक्यत्रासनं महत पुनर भीमं महाबाहुर धर्मपुत्रॊ ऽभयभाषत 59 एष वृष्णिप्रवीरेण धमातः सलिलजॊ भृशम पृदिवीं चान्तरिक्षं च विनाथयति शङ्खराट 60 नूनं वयसनम आपन्ने सुमहत सव्यसाचिनि कुरुभिर युध्यते सार्धं सर्वैश चक्रगथाधरः 61 नूनम आर्या महत कुन्ती पापम अथ्य निथर्शनम थरौपथी तु सुभथ्रा च पश्यन्ति सह बन्धुभिः 62 स भीमस तवरया युक्तॊ याहि यत्र धनंजयः मुह्यन्तीव हि मे सर्वा धनंजय थिथृक्षया थिशः स परथिशः पार्द सात्वतस्य च कारणात 63 गच्छ गच्छेति च पुनर भीमसेनम अभाषत भृशं स परहितॊ भरात्रा भराता भरातुः परियं करः आहत्य थुन्थुभिं भीमः शङ्खं परध्माय चासकृत 64 विनथ्य सिंहनाथं च जयां विकर्षन पुनः पुनः थर्शयन घॊरम आत्मानम अमित्रान सहसाभ्ययात 65 तम ऊहुर जवना थान्ता विकुर्वाणा हयॊत्तमाः विशॊकेनाभिसंयत्ता मनॊमारुतरंहसः 66 आरुजन विरुजन पार्दॊ जयां विकर्षंश च पाणिना सॊ ऽवकर्षन विकर्षंश च सेनाग्रं समलॊडयत 67 तं परयान्तं महाबाहुं पाञ्चालाः सह सॊमकाः पृष्ठतॊ ऽनुययुः शूरा मघवन्तम इवामराः 68 तं स सेना महाराज सॊथर्याः पर्यवारयन थुःशलश चित्रसेनश च कुण्ड भेथी विविंशतिः 69 थुर्मुखॊ थुःसहश चैव विकर्णश च शलस तदा विन्थानुविन्थौ सुमुखॊ थीर्घबाहुः सुथर्शनः 70 वृन्थारकः सुहस्तश च सुषेणॊ थीर्घलॊचनः अभयॊ रौथ्रकर्मा च सुवर्मा थुर्विमॊचनः 71 विविधै रदिनां शरेष्ठाः सह सैन्यैः सहानुगैः संयत्ताः समरे शूरा भीमसेनम उपाथ्रवन 72 तान समीक्ष्य तु कौन्तेयॊ भीमसेनः पराक्रमी अभ्यवर्तत वेगेन सिंहः कषुथ्रमृगान इव 73 ते महास्त्राणि थिव्यानि तत्र वीरा अथर्शयन वारयन्तः शरैर भीमं मेघाः सूर्यम इवॊथितम 74 स तान अतीत्य वेगेन थरॊणानीकम उपाथ्रवत अग्रतश च गजानीकं शरवर्षैर अवाकिरत 75 सॊ ऽचिरेणैव कालेन तथ गजानीकम आशुगैः थिशः सर्वाः समभ्यस्य वयधमत पवनात्मजः 76 तरासिताः शरभस्येव गर्जितेन वने मृगाः परथ्रवन थविरथाः सर्वे नथन्तॊ भैरवान रवान 77 पुनश चातीत्य वेगेन थरॊणानीकम उपाथ्रवत तम अवारयथ आचार्यॊ वेलेवॊथ्वृत्तम अर्णवम 78 ललाटे ऽताडयच चैनं नाराचेन समयन्न इव ऊर्ध्वरश्मिर इवाथित्यॊ विबभौ तत्र पाण्डवः 79 स मन्यमानस तव आचार्यॊ ममायं फल्गुनॊ यदा भीमः करिष्यते पूजाम इत्य उवाच वृकॊथरम 80 भीमसेन न ते शक्यं परवेष्टुम अरिवाहिनीम माम अनिर्जित्य समरे शत्रुमध्ये महाबल 81 यथि ते सॊ ऽनुजः कृष्णः परविष्टॊ ऽनुमते मम अनीकं न तु शक्यं भॊः परवेष्टुम इह वै तवया 82 अद भीमस तु तच छरुत्वा गुरॊर वाक्यम अपेतभीः करुथ्धः परॊवाच वै थरॊणं रक्तताम्रेक्षणः शवसन 83 तवार्जुनॊ नानुमते बरह्म बन्धॊ रणाजिरम परविष्टः स हि थुर्धर्षः शक्रस्यापि विशेथ बलम 84 येन वै परमां पूजां कुर्वता मानितॊ हय असि नार्जुनॊ ऽहं घृणी थरॊण भीमसेनॊ ऽसमि ते रिपुः 85 पिता नस तवं गुरुर बन्धुस तदा पुत्रा हि ते वयम इति मन्यामहे सर्वे भवन्तं परणताः सदिताः 86 अथ्य तथ विपरीतं ते वथतॊ ऽसमासु थृश्यते यथि शत्रुं तवम आत्मानं मन्यसे तत तदास्त्व इह एष ते सथृशं शत्रॊः कर्म भीमः करॊम्य अहम 87 अदॊथ्भ्राम्य गथां भीमः कालथण्डम इवान्तकः थरॊणायावसृजथ राजन स रदाथ अवपुप्लुवे 88 साश्वसूत धवजं यानं थरॊणस्यापॊदयत तथा परामृथ्नाच च बहून यॊधान वायुर कृष्णान इवौजसा 89 तं पुनः परिवव्रुस ते तव पुत्रा रदॊत्तमम अन्यं च रदम आस्दाय थरॊणः परहरतां वरः 90 ततः करुथ्थॊर महाराज भीमसेनः पराक्रमी अग्रतः सयन्थनानीकं शरवर्षैर अवाकिरत 91 ते वध्यमानाः समरे तव पुत्रा महारदाः भीमं भीमबलं युथ्धे ऽयॊधयंस तु जयैषिणः 92 ततॊ थुःशासनः करुथ्धॊ रदशक्तिं समाक्षिपन सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्थनम 93 आपतन्तीं महाशक्तिं तव पुत्र परचॊथिताम थविधा चिच्छेथ तां भीमस तथ अथ्भुतम इवाभवत 94 अदान्यैर निशितैर बाणैः संक्रुथ्धः कुण्ड भेथिनम सुषेणं थीर्घनेत्रं च तरिभिस तरीन अवधीथ बली 95 ततॊ वृन्थारकं वीरं कुरूणां कीर्तिवर्धनम पुत्राणां तव वीराणां युध्यताम अवधीत पुनः 96 अभयं रौथ्रकर्माणं थुर्विमॊचनम एव च तरिभिस तरीन अवधीथ भीमः पुनर एव सुतांस तव 97 वध्यमाना महाराज पुत्रास तव बलीयसा भीमं परहरतां शरेष्ठं समन्तात पर्यवारयन 98 विन्थानुविन्थौ सहितौ सुवर्माणं च ते सुतम परहसन्न इव कौनेयः शरैर निन्ये यमक्षयम 99 ततः सुथर्शनं वीरं पुत्रं ते भरतर्षभ विव्याध समरे तूर्णं स पपात ममार च 100 सॊ चिरेणैव कालेन तथ्रदानीकम आशुगैः थिशः सर्वाः समभ्यस्य वयधमत पाणुनन्थनः 101 ततॊ वै रदगॊषेण गर्जितेन मृगा इव वध्यमानाश च समरे पुत्रास तव विशां पते पराथ्रवन स रदाः सर्वे भीमसेनभयार्थिताः 102 अनुयाय तु कौनेयः पुत्राणां ते महथ बलम विव्याध समरे राजन कौरवेयान समन्ततः 103 वध्यमाना महाराज भीमसेनेन तावकाः तयक्त्वा भीमं रणे यन्ति चॊथयन्तॊ हयॊत्तमान 104 तांस तु निर्जित्य समरे भीमसेनॊ महाबलः सिंहनाथ रवं चक्रे बाहुशब्थं च पाण्डवः 105 तलशब्थं च सुमहत कृत्वा भीमॊ महाबलः वयतीत्य रदिनश चापि थरॊणानीकम उपाथ्रवत |
1
[s] vyūheṣv āloḍyamāneṣu pāṇḍavānāṃ tatas tataḥ sudūram anvayuḥ pārthāḥ pāñcālāḥ saha somakaiḥ 2 vartamāne tathā raudre saṃgrāme lomaharṣaṇe prakṣaye jagatas tīvre yugānta iva bhārata 3 droṇe yudhi parākrāne nardamāne muhur muhuḥ pāñcāleṣu ca kṣīṇeṣu vadhyamāneṣu pāṇḍuṣu 4 nāpaśyac charaṇaṃ kiṃ cid dharmarājo yudhiṣṭhiraḥ cintayām āsa rājendra katham etad bhaviṣyati 5 tatrāvekṣya diśaḥ sarvāḥ savyasāci didṛṣṭkayā yudhiṣṭhiro dadarśātha naiva pārtha na mādhavam 6 so 'paśyan naraśārdūlaṃ vānararṣabha lakṣaṇam gāṇḍīvasya ca nirghoṣam aśṛṇvan vyathitendriyaḥ 7 apaśyan sātyakiṃ cāpi vṛṣṇīnāṃ pravaraṃ ratham cintayābhiparītāṅgo dharmarājo yudhiṣṭhiraḥ nādhyagacchat tadā śāntiṃ tāv apaśyan nararṣabhau 8 lokopakrośa bhīrutvād dharmarājo mahāyaśāḥ acintayan mahābāhuḥ śaineyasya rathaṃ prati 9 padavīṃ preṣitaś caiva phalgunasya mayā raṇe śaineyaḥ sātyakiḥ satyo mitrāṇām abhayaṃkaraḥ 10 tad idaṃ hy ekam evāsīd dvidhā jātaṃ mamādya vai sātyakiś ca hi me jñeyaḥ pāṇḍavaś ca dhanaṃjayaḥ 11 sātyakiṃ preṣayitvā tu pāṇḍavasya padānugam sātvatasyāpi kiṃ yuddhe preṣayiṣye padānugam 12 kariṣyāmi prayatnena bhrātur anveṣaṇaṃ yadi yuyudhānam ananviṣya loko māṃ garhayiṣyati 13 bhrātur anveṣaṇaṃ kṛtvā dharmarājo yudhiṣṭhiraḥ parityajati vārṣṇeyaṃ sātyakiṃ satyavikramam 14 lokāpavādabhīrutvāt so 'haṃ pārthaṃ vṛkodaram padavīṃ preṣayiṣyāmi mādhavasya mahātmanaḥ 15 yathaiva ca mama prītir arjune śatrusūdane tathaiva vṛṣṇivīre 'pi sātvate yuddhadurmade 16 atibhāre niyuktaś ca mayā śaineyanandanaḥ sa tu mitroparodhena gauravāc ca mahābalaḥ praviṣṭo bharatīṃ senāṃ makaraḥ sāgaraṃ yathā 17 asau hi śrūyate śabdaḥ śūrāṇām anivartinām mithaḥ saṃyudhyamānānāṃ vṛṣṇivīreṇa dhīmatā 18 prāptakālaṃ subalavan niścitya bahudhā hi me tatraiva pāṇḍaveyasya bhīmasenasya dhanvinaḥ gamanaṃ rocate mahyaṃ yatra yātau mahārathau 19 na cāpy asahyaṃ bhīmasya vidyate bhuvi kiṃ cana śakto hy eṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ svabāhubalam āsthāya prativyūhitum añjasā 20 yasya bāhubalaṃ sarve samāśritya mahātmanaḥ vanavāsān nivṛttāḥ sma na ca yuddheṣu nirjitāḥ 21 ito gate bhīmasene sātvataṃ prati pāṇḍave sa nāthau bhavitārau hi yudhi sātvata phalgunau 22 kāmaṃ tv aśocanīyau tau raṇe sātvata phalgunau rakṣitau vāsudevena svayaṃ cāstraviśāradau 23 avaśyaṃ tu mayā kāryam ātmanaḥ śokanāśanam tasmād bhīmaṃ niyokṣyāmi sātvatasya padānugam tataḥ pratikṛtaṃ manye vidhānaṃ sātyakiṃ prati 24 evaṃ niścitya manasā dharmaputro yudhiṣṭhiraḥ yantāram abravīd rājan bhīmaṃ prati nayasva mām 25 dharmarāja vacaḥ śrutvā sārathir hayakovidaḥ rathaṃ hemapariṣkāraṃ bhīmāntikam upānayat 26 bhīmasenam anuprāpya prāptakālam anusmaran kaśmalaṃ prāviśad rājā bahu tatra samādiśan 27 yaḥ sa devān sa gandharvān daityāṃś caikaratho 'jayat tasya lakṣma na paśyāmi bhīmasenānujasya te 28 tato 'bravīd dharmarājaṃ bhīmasenas tathāgatam naivādrākṣaṃ na cāśrauṣaṃ tava kaśmalam īdṛśam 29 purā hi duḥkhadīrṇānāṃ bhavān gatir abhūd dhi naḥ uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te 30 na hy asādhyam akāryaṃ vā vidyate mama mānada ājñāpaya kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ 31 tam abravīd aśrupūrṇaḥ kṛṣṇasarpa iva śvasan bhīmasenam idaṃ vākyaṃ pramlāna vadano nṛpaḥ 32 yathā śaṅkhasya nirghoṣaḥ pāñcajanyasya śrūyate prerito vāsudevena saṃrabdhena yaśasvinā nūnam adya hataḥ śete tava bhrātā dhanaṃjayaḥ 33 tasmin vinihate nūnaṃ yudhyate 'sau janārdanaḥ yasya sattvavato vīryam upajīvanti pāṇḍavāḥ 34 yaṃ bhayeṣv abhigacchanti sahasrākṣam ivāmarāḥ sa śūraḥ saindhava prepsur anvayād bhāratīṃ camūm 35 tasya vai gamanaṃ vidmo bhīma nāvartanaṃ punaḥ śyāmo yuvā guḍākeśo darśanīyo mahābhujaḥ 36 vyūḍhorasko mahāskandho mattadviradavikramaḥ cakora netras tāmrākṣo dviṣatām aghavardhanaḥ 37 tad idaṃ mama bhadraṃ te śokasthānam ariṃdama arjunārthaṃ mahābāho sātvatasya ca kāraṇāt 38 vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ tasya lakṣma na paśyāmi tena vindāmi kaśmalam 39 taṃ viddhi puruṣavyāghraṃ sātvataṃ ca mahāratham sa taṃ mahārathaṃ paścād anuyātas tavānujam tam apaśyan mahābāhum ahaṃ vindāmi kaśmalam 40 tasmāt kṛṣṇo raṇe nūnaṃ yudhyate yuddhakovidaḥ yasya vīryavato vīryam upajīvanti pāṇḍavāḥ 41 sa tatra gaccha kauneya yatra yāto dhanaṃjayaḥ sātyakiś ca mahāvīryaḥ kartavyaṃ yadi manyase vacanaṃ mama dharmajña jyeṣṭho bhrātā bhavāmi te 42 na te 'rjunas tathā jñeyo jñātavyaḥ sātyakir yathā cikīrṣur matpriyaṃ pārtha prayātaḥ savyasācinaḥ padavīṃ durgamāṃ ghorām agamyām akṛtātmabhiḥ 43 [bhm] brahmeṣānendra varuṇān avahad yaḥ purā rathaḥ tam āsthāya gatau kṛṣṇau na tayor vidyate bhayam 44 ājñāṃ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ sametya tān naravyāghrāṃs tava dāsyāmi saṃvidam 45 [s] etāvad uktvā prayayau paridāya yudhiṣṭhiram dhṛṣṭadyumnāya balavān suhṛdbhyaś ca punaḥ punaḥ dhṛṣṭadyumnaṃ cedam āha bhīmaseno mahābalaḥ 46 viditaṃ te mahābāho yathā droṇo mahārathaḥ grahaṇe dharmarājasya sarvopāyena vartate 47 na ca me gamane kṛtyaṃ tādṛk pārṣata vidyate yādṛśaṃ rakṣaṇe rājñaḥ kāryam ātyayikaṃ hi naḥ 48 evam ukto 'smi pārthena prativaktuṃ sma notsahe prayāsye tatra yatrāsau mumūrṣuḥ saindhavaḥ sthitaḥ dharmarājasya vacane sthātavyam aviśaṅkayā 49 so 'dya yatto raṇe pārthaṃ parirakṣa yudhiṣṭhiram etad dhi sarvakāryāṇāṃ paramaṃ kṛtyam āhave 50 tam abravīn mahārāja dhṛṣṭadyumno vṛkodaram īpsitena mahābāho gaccha pārthāvicārayan 51 nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃ cana nigrahaṃ dharmarājasya prakariṣyati saṃyuge 52 tato nikṣipya rājānaṃ dhṛṣṭadyumnāya pāṇḍavaḥ abhivādya guruṃ jyeṣṭhaṃ prayayau yatra phalgunaḥ 53 pariṣvaktas tu kaunteyo dharmarājena bhārata āghrātaś ca tathā mūrdhni śrāvitaś cāśiṣaḥ śubhāḥ 54 bhīmaseno mahābāhuḥ kavacī śubhakuṇḍalī sāṅgadaḥ sa tanutrāṇaḥ sa śarī rathināṃ varaḥ 55 tasya kārṇṣāyasaṃ varma hemacitraṃ maharddhimat vibabhau parvata śliṣṭaḥ sa vidyud iva toyadaḥ 56 pītaraktāsita sitair vāsobhiś ca suveṣṭitaḥ kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ 57 prayāte bhīmasene tu tava sainyaṃ yuyutsayā pāñcajanya ravo ghoraḥ punar āsīd viśāṃ pate 58 taṃ śrutvā ninadaṃ ghoraṃ trailokyatrāsanaṃ mahat punar bhīmaṃ mahābāhur dharmaputro 'bhyabhāṣata 59 eṣa vṛṣṇipravīreṇa dhmātaḥ salilajo bhṛśam pṛthivīṃ cāntarikṣaṃ ca vinādayati śaṅkharāṭ 60 nūnaṃ vyasanam āpanne sumahat savyasācini kurubhir yudhyate sārdhaṃ sarvaiś cakragadādharaḥ 61 nūnam āryā mahat kuntī pāpam adya nidarśanam draupadī tu subhadrā ca paśyanti saha bandhubhiḥ 62 sa bhīmas tvarayā yukto yāhi yatra dhanaṃjayaḥ muhyantīva hi me sarvā dhanaṃjaya didṛkṣayā diśaḥ sa pradiśaḥ pārtha sātvatasya ca kāraṇāt 63 gaccha gaccheti ca punar bhīmasenam abhāṣata bhṛśaṃ sa prahito bhrātrā bhrātā bhrātuḥ priyaṃ karaḥ āhatya dundubhiṃ bhīmaḥ śaṅkhaṃ pradhmāya cāsakṛt 64 vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ darśayan ghoram ātmānam amitrān sahasābhyayāt 65 tam ūhur javanā dāntā vikurvāṇā hayottamāḥ viśokenābhisaṃyattā manomārutaraṃhasaḥ 66 ārujan virujan pārtho jyāṃ vikarṣaṃś ca pāṇinā so 'vakarṣan vikarṣaṃś ca senāgraṃ samaloḍayat 67 taṃ prayāntaṃ mahābāhuṃ pāñcālāḥ saha somakāḥ pṛṣṭhato 'nuyayuḥ śūrā maghavantam ivāmarāḥ 68 taṃ sa senā mahārāja sodaryāḥ paryavārayan duḥśalaś citrasenaś ca kuṇḍa bhedī viviṃśatiḥ 69 durmukho duḥsahaś caiva vikarṇaś ca śalas tathā vindānuvindau sumukho dīrghabāhuḥ sudarśanaḥ 70 vṛndārakaḥ suhastaś ca suṣeṇo dīrghalocanaḥ abhayo raudrakarmā ca suvarmā durvimocanaḥ 71 vividhai rathināṃ śreṣṭhāḥ saha sainyaiḥ sahānugaiḥ saṃyattāḥ samare śūrā bhīmasenam upādravan 72 tān samīkṣya tu kaunteyo bhīmasenaḥ parākramī abhyavartata vegena siṃhaḥ kṣudramṛgān iva 73 te mahāstrāṇi divyāni tatra vīrā adarśayan vārayantaḥ śarair bhīmaṃ meghāḥ sūryam ivoditam 74 sa tān atītya vegena droṇānīkam upādravat agrataś ca gajānīkaṃ śaravarṣair avākirat 75 so 'cireṇaiva kālena tad gajānīkam āśugaiḥ diśaḥ sarvāḥ samabhyasya vyadhamat pavanātmajaḥ 76 trāsitāḥ śarabhasyeva garjitena vane mṛgāḥ pradravan dviradāḥ sarve nadanto bhairavān ravān 77 punaś cātītya vegena droṇānīkam upādravat tam avārayad ācāryo velevodvṛttam arṇavam 78 lalāṭe 'tāḍayac cainaṃ nārācena smayann iva ūrdhvaraśmir ivādityo vibabhau tatra pāṇḍavaḥ 79 sa manyamānas tv ācāryo mamāyaṃ phalguno yathā bhīmaḥ kariṣyate pūjām ity uvāca vṛkodaram 80 bhīmasena na te śakyaṃ praveṣṭum arivāhinīm mām anirjitya samare śatrumadhye mahābala 81 yadi te so 'nujaḥ kṛṣṇaḥ praviṣṭo 'numate mama anīkaṃ na tu śakyaṃ bhoḥ praveṣṭum iha vai tvayā 82 atha bhīmas tu tac chrutvā guror vākyam apetabhīḥ kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan 83 tavārjuno nānumate brahma bandho raṇājiram praviṣṭaḥ sa hi durdharṣaḥ śakrasyāpi viśed balam 84 yena vai paramāṃ pūjāṃ kurvatā mānito hy asi nārjuno 'haṃ ghṛṇī droṇa bhīmaseno 'smi te ripuḥ 85 pitā nas tvaṃ gurur bandhus tathā putrā hi te vayam iti manyāmahe sarve bhavantaṃ praṇatāḥ sthitāḥ 86 adya tad viparītaṃ te vadato 'smāsu dṛśyate yadi śatruṃ tvam ātmānaṃ manyase tat tathāstv iha eṣa te sadṛśaṃ śatroḥ karma bhīmaḥ karomy aham 87 athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ droṇāyāvasṛjad rājan sa rathād avapupluve 88 sāśvasūta dhvajaṃ yānaṃ droṇasyāpothayat tadā prāmṛdnāc ca bahūn yodhān vāyur kṛṣṇān ivaujasā 89 taṃ punaḥ parivavrus te tava putrā rathottamam anyaṃ ca ratham āsthāya droṇaḥ praharatāṃ varaḥ 90 tataḥ kruddor mahārāja bhīmasenaḥ parākramī agrataḥ syandanānīkaṃ śaravarṣair avākirat 91 te vadhyamānāḥ samare tava putrā mahārathāḥ bhīmaṃ bhīmabalaṃ yuddhe 'yodhayaṃs tu jayaiṣiṇaḥ 92 tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipan sarvapāraśavīṃ tīkṣṇāṃ jighāṃsuḥ pāṇḍunandanam 93 āpatantīṃ mahāśaktiṃ tava putra pracoditām dvidhā ciccheda tāṃ bhīmas tad adbhutam ivābhavat 94 athānyair niśitair bāṇaiḥ saṃkruddhaḥ kuṇḍa bhedinam suṣeṇaṃ dīrghanetraṃ ca tribhis trīn avadhīd balī 95 tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam putrāṇāṃ tava vīrāṇāṃ yudhyatām avadhīt punaḥ 96 abhayaṃ raudrakarmāṇaṃ durvimocanam eva ca tribhis trīn avadhīd bhīmaḥ punar eva sutāṃs tava 97 vadhyamānā mahārāja putrās tava balīyasā bhīmaṃ praharatāṃ śreṣṭhaṃ samantāt paryavārayan 98 vindānuvindau sahitau suvarmāṇaṃ ca te sutam prahasann iva kauneyaḥ śarair ninye yamakṣayam 99 tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha vivyādha samare tūrṇaṃ sa papāta mamāra ca 100 so cireṇaiva kālena tadrathānīkam āśugaiḥ diśaḥ sarvāḥ samabhyasya vyadhamat pāṇunandanaḥ 101 tato vai rathagoṣeṇa garjitena mṛgā iva vadhyamānāś ca samare putrās tava viśāṃ pate prādravan sa rathāḥ sarve bhīmasenabhayārditāḥ 102 anuyāya tu kauneyaḥ putrāṇāṃ te mahad balam vivyādha samare rājan kauraveyān samantataḥ 103 vadhyamānā mahārāja bhīmasenena tāvakāḥ tyaktvā bhīmaṃ raṇe yanti codayanto hayottamān 104 tāṃs tu nirjitya samare bhīmaseno mahābalaḥ siṃhanāda ravaṃ cakre bāhuśabdaṃ ca pāṇḍavaḥ 105 talaśabdaṃ ca sumahat kṛtvā bhīmo mahābalaḥ vyatītya rathinaś cāpi droṇānīkam upādravat |