1
[स] अदान्यथ धनुर आथाय बलवथ वेगवत्तरम युधिष्ठिरं मथ्रपतिर विथ्ध्वा सिंह इवानथत 2 ततः स शरवर्षेण पर्जन्य इव वृष्टिमान अभ्यवर्षथ अमेयात्मा कषत्रियान कषत्रियर्षभः 3 सात्यकिं थशभिर विथ्ध्वा भीमसेनं तरिभिः शरैः सहथेवं तरिभिर विथ्ध्वा युधिष्ठिरम अपीडयत 4 तांस तान अन्यान महेष्वासान साश्वान सरद कुञ्जरान कुञ्जरान कुञ्जरारॊहान अश्वान अश्वप्रयायिनः रदांश च रदिभिः सार्धं जघान रदिनां वरः 5 बाहूंश चिच्छेथ च तदा सायुधान केतनानि च चकार च महीं यॊधैस तीर्णां वेथीं कुशैर इव 6 तदा तम अरिसैन्यानि घनन्तं मृत्युम इवान्तकम परिवव्रुर भृशं करुथ्धाः पाण्डुपाञ्चाल सॊमकाः 7 तं भीमसेनश च शिनेश च नप्ता; माध्र्याश च पुत्रौ पुरुषप्रवीरौ समागतं भीमबलेन राज्ञा; पर्यापुर अन्यॊन्यम अदाह्वयन्तः 8 ततस तु शूराः समरे नरेन्थ्रं; मथ्रेश्वरं पराप्य युधां वरिष्ठम आवार्या चैनं समरे नृवीरा; जघ्नुः शरैः पत्रिभिर उग्रवेगैः 9 संरक्षितॊ भीमसेनेन राजा; माथ्री सुताभ्याम अद माधवेन मथ्राधिपं पत्रिभिर उग्रवेगैः; सतनान्तरे धार्म सुतॊ निजघ्ने 10 ततॊ रणे तावकनां रदौघाः; सामीक्ष्य मथ्राधिपतिं शरार्तम पर्यावव्रुः परवराः सर्वशश च; थुर्यॊधनस्यानुमते समन्तात 11 ततॊ थरुतं मथ्रजनाधिपॊ रणे; युधिष्ठिरं सप्तभिर अभ्यविध्यत तं चापि पार्दॊ नवभिः पृषत्कैर; विव्याध राजंस तुमुले महात्मा 12 आकर्णपूर्णायत संप्रयुक्तैः; शरैस तथा संयति तैलधौतैः अन्यॊन्यम आच्छाथयतां महारदौ; मथ्राधिपश चापि युधिष्ठिरश च 13 ततस तु तूर्णं समरे महारदौ; परस्परस्यान्तरम ईक्षमाणौ शरैर भृशं विव्यधतुर नृपॊत्तमौ; महाबलौ शत्रुभिर अप्रधृष्यौ 14 तयॊर धनुर्ज्यातलनिस्वनॊ महान; महेन्थ्रवज्राशनितुल्यनिस्वनः परस्परं बाणगणैर महात्मनॊः; परवर्षतॊर मथ्रप पाण्डुवीरयॊः 15 तौ चेरतुर वयाघ्रशिशु परकाशौ; महावनेष्व आमिष गृथ्धिनाव इव विषाणिनौ नागवराव इवॊभौ; ततक्षतुः संयुगजातथर्पौ 16 ततस तु मथ्राधिपतिर महात्मा; युधिष्ठिरं भीमबलं परसह्य विव्याध वीरं हृथये ऽतिवेगं; शरेण सूर्याग्निसमप्रभेण 17 ततॊ ऽतिविथ्धॊ ऽद युधिष्ठिरॊ ऽपि; सुसंप्रयुक्तेन शरेण राजन जघान मथ्राधिपतिं महात्मा; मुथं च लेभे ऋषभः कुरूणाम 18 ततॊ मुहूर्ताथ इव पार्दिवेन्थ्रॊ; लब्ध्वा संज्ञां करॊधा संरक्तनेत्रः शतेन पार्दं तवरितॊ जघान; सहस्रनेत्र परतिमप्रभावः 19 तवरंस ततॊ धर्मसुतॊ महात्मा; शल्यस्य करुथ्धॊ नवभिः पृषत्कैः भित्त्वा हय उरस तपनीयं च वर्म; जघान षड्भिस तव अपरैः पृषात्कैः 20 ततस तु मथ्राधिपतिः परहृष्टॊ; धनुर विकृष्य वयसृजत पृषत्कान थवाभ्यां कषुराभ्यां च तदैव राज्ञश; चिच्छेथ चापं कुरुपुंगवस्य 21 नवं ततॊ ऽनयत सामरे परगृह्य; राजा धनुर घॊरतरं महात्मा शल्यं तु विथ्ध्वा निशितैः समन्तथ; यदा महेन्थ्रॊ नमुचिं शिताग्रैः 22 ततस तु शल्यॊ नवभिः पृषत्कैर; भीमस्य राज्ञश च युधिष्ठिरस्य निकृत्य रौक्मे पटु वर्मणी तयॊर; विथारयाम आस भुजौ महात्मा 23 ततॊ ऽपरेण जवलितार्क तेजसा; कषुरेण राज्ञॊ धनुर उन्ममाद कृपश च तस्यैव जघान सूतं; षड्भिः शरैः सॊ ऽभिमुखं पपात 24 मथ्राधिपश चापि युधिष्ठिरस्य; शरैश चतुर्भिर निजघान वाहान वाहांश च हत्वा वयकरॊन महात्मा; यॊधक्षयं धर्मसुतस्य राज्ञः 25 तदा कृते राजनि भीमसेनॊ; मथ्राधिपस्याशु ततॊ महात्मा छित्त्वा धनुर वेगवता शरेण; थवाभ्याम अविध्यत सुभृशं नरेन्थ्रम 26 अदापरेणास्य जहार यन्तुः; कायाच छिरः संनहनीयमध्यात जघान चाश्वांश चतुरः स शीघ्रं; तदा भृशं कुपितॊ भीमसेनः 27 तम अग्रणीः सर्वधनुर्धराणाम; एकं चरन्तं सामरे ऽतिवेगम भीमः शतेन वयकिरच छराणां; माथ्रीपुत्रः सहथेवस तदैव 28 तैः सायकैर मॊहितं वीक्ष्य शल्यं; भीमः शरैर अस्य चकर्त वर्म स भीमसेनेन निकृत्तवर्मा; मथ्राधिपश चर्म सहस्रतारम 29 परगृह्य खड्गं च रदान महात्मा; परस्कन्थ्य कुन्तीसुतम अभ्यधावत छित्त्व रदेषां नकुलस्य सॊ ऽद; युधिष्ठिरं भीमबलॊ ऽबभ्यधावत 30 तं चापि राजानम अदॊत्पतन्तं; करुथ्धां यदैवान्तकम आपतन्तम धृष्टथ्युम्नॊ थरौपथेयाः शिखण्डी; शिनेश च नप्ता सहसा परीयुः 31 अदास्य चर्माप्रतिमं नयकृन्तथ; भीमॊ महात्मा थशभिः पृषत्कः खड्गं च भल्लैर निचकर्त मुष्टौ; नथन परहृष्टस तव सिन्यमध्ये 32 तत कर्म भीमस्य समीक्ष्य हृष्टास; ते पाण्डवानां परवरा रदौघाः नाथं च चक्रुर भृशम उत्स्मयन्तः; शङ्खांश च थध्मुः शशिसंनिकाशान 33 तेनाद शब्थेन विभीषणेन; तवाभितप्तं बलम अप्रहृष्टम सवेथाभिभूतं रुधिरॊक्षिताङ्गं; विसंज्ञकल्पं च तदा विषाण्णम 34 स मथ्रराजः सहसावकीर्णॊ; भीमाग्रगैः पाण्डव यॊधमुख्यैः युधिष्ठिरस्याभिमुखं जवेन; सिंहॊ यदा मृगहेतॊः परयातः 35 स धर्मराजॊ निहताश्वसूतं; करॊधेन थीप्तज्वलन परकाशम थृष्ट्वा तु मथ्राधिपतिं स तूर्णं; समभ्यधावत तम अरिं बलेन 36 गॊविन्थ वाक्यं तवरितं विचिन्त्य; थध्रे मतिं शल्य विनाशनाय स धर्मराजॊ निहताश्वसूते; रदे तिष्ठञ शक्तिम एवाभिकाङ्क्षन 37 तच चापि शल्यस्या निशम्य कर्म; महात्मनॊ भगम अदावशिष्टम समृत्वा मानः शल्य वधे यतात्मा; यदॊक्तम इन्थ्रावरजस्य चक्रे 38 स धर्मराजॊ मणिहेमथण्डां; जग्राह शक्तिं कनकप्रकाशाम नेत्रे च थीप्ते सहसा विवृत्य; मथ्राधिपं करुथ्धा मना निरैक्षत 39 निरीक्षितॊ वै नरथेव राज्ञा; पूतात्मना निर्हृत कल्मषेण अभून न यथ भस्मसान मथ्रराजस; तथ अथ्भुतं मे परतिभाति राजन 40 ततस तु शक्तिं रुचिरॊग्र थण्डां; मणिप्रवलॊज्ज्वलितां परथीप्ताम चिक्षेप वेगात सुभृशं महात्मा; मथ्राधिपाय परवरः कुरूणाम 41 थीप्ताम अदैनां महता बलेन; सविस्फु लिङ्गां सहसा पतन्तीम परैक्षन्त सर्वे कुरवः समेता; यदा युगान्ते महतीम इवॊल्काम 42 तां कालरात्रीम इव पाशहस्तां; यमस्य धत्रीम इव चॊग्ररूपाम सब्रह्म थण्डप्रतिमाम अमॊघां; ससर्ज यत्तॊ युधि धर्मराजः 43 गन्धस्रग अग्र्यासन पानभॊजनैर; अभ्यर्चितां पाण्डुसुतैः परयत्नात संवर्तकाग्निप्रतिमां जवलन्तीं; कृत्याम अदर्वाङ्गिरसीम इवॊग्राम 44 ईशान हेतॊः परतिनिर्मितां तां; तवष्टा रिपूणाम असुथेह भक्षाम भूम्यन्तरिक्षाथि जलाशयानि; परसह्य भूतानि निहन्तुम ईशाम 45 घण्टा पताका मणिवज्र भाजं; वैडूर्य चित्रां तपनीयथण्डाम तवष्ट्रा परयत्नान नियमेन कॢप्तां; बरह्म थविषाम अन्तकरीम अमॊघाम 46 बलप्रयत्नाथ अधिरूढ वेगां; मन्त्रैश च घॊरैर अभिमन्त्रयित्वा ससर्ज मार्गेण च तां परेण; वधाय मथ्राधिपतेर तथानीम 47 हतॊ ऽसय असाव इत्य अभिगर्जमानॊ; रुथ्रॊ ऽनतकायान्त करं यदेषुम परसार्य बाहुं सुथृढं सुपाणिं; करॊधेन नृत्यन्न इवा धार्म राजः 48 तां सर्वशक्त्या परहितां स शक्तिं; युधिष्ठिरेणाप्रति वार्य वीर्याम परतिग्रहायाभिननर्थ शल्यः; सम्यग घुताम अग्निर इवाज्य धाराम 49 सा तस्य मर्माणि विथार्य शुभ्रम; उरॊ विशालं च तदैव वर्म विवेश गां तॊयम इवाप्रसक्ता; यशॊ विशालं नृपतेर थहन्ती 50 नासाक्षि कर्णास्य विनिःसृतेन; परस्यन्थता च वरणसंभवेन संसिक्त गात्रॊ रुधिरेण सॊ ऽभूत; करौञ्चॊ यदा सकन्थ हतॊ महाथ्रिः 51 परसार्य बाहू स रदाथ गतॊ गां; संछिन्नवर्मा कुरुनन्थनेन महेन्थ्र वाहप्रतिमॊ महात्मा; वज्राहतं शृङ्गम इवाचलस्य 52 बाहू परसार्याभिमुखॊ धर्मराजस्य मथ्रराट ततॊ निपतितॊ भूमाव इन्थ्रध्वज इवॊच्छ्रितः 53 स तदा भिन्नसर्वाङ्गॊ रुधिरेण समुक्षितः परत्युथ्गत इव परेम्णा भूम्या सा नरपुंगवः 54 परियया कान्तया कान्तः पतमान इवॊरसि चिरं भुक्त्वा वसुमतीं परियां कान्ताम इव परभुः सर्वैर अङ्गैः समाश्लिष्य परसुप्त इव सॊ ऽभवत 55 धर्म्ये धर्मात्मना युथ्धे निहतॊ धर्मसूनुना सम्यग घुत इव सविष्टः परशान्तॊ ऽगनिर इवाध्वरे 56 शक्त्या विभिन्नहृथयं विप्र विथ्धायुध धवजम संशान्तम अपि मथ्रेशं लक्ष्मीर नैव वयमुञ्चत 57 ततॊ युधिष्ठिरश चापम आथायेन्थ्र धनुष्प्रभम वयधमथ थविषतः संख्ये खग राड इव पन्नगान थेहासून निशितैर भल्लै रिपूणां नाशयन कषणात 58 ततः परार्दस्य बाणौघैर आवृताः सैनिकास तव निमीलिताक्षाः कषिण्वन्तॊ भृशम अन्यॊन्यम अर्थिताः संन्यस्तकवचा थेहैर विपत्रायुध जीविताः 59 ततः शल्ये निपतिते मथ्रराजानुजॊ युवा भरातुः सर्वैर गुणैस तुल्यॊ रदी पाण्डवम अभ्ययात 60 विव्याध च नरश्रेष्ठॊ नाराचैर बहुभिस तवरन हतस्यापचितिं भरातुश चिकीर्षुर युथ्धथुर्मथः 61 तं विव्याधाशुगैः षड्भिर धर्मराजस तवरन्न इव कार्मुकं चास्य चिच्छेथ कषुराभ्यां धवजम एव च 62 ततॊ ऽसय थीप्यमानेन सुथृढेन शितेन च परमुखे वर्तमानस्य भल्लेनापाहरच छिरः 63 सुकुण्डलं तथ थथृशे पतमानं शिरॊ रदात पुण्यक्षयम इव पराप्य पतन्तं सवर्गवासिनम 64 तस्यापकृष्ट शीर्षं तच छरीरं पतितं रदात रुधिरेणावसिक्ताङ्गं थृष्ट्वा सैन्यम अभज्यत 65 विचित्रकवचे तस्मिन हते मथ्रनृपानुजे हाहाकारं विकुर्वाणाः कुरवॊ विप्रथुथ्रुवुः 66 शल्यानुजं हतं थृष्ट्वा तावकास तयक्तजीविताः वित्रेसुः पाण्डव भयाथ रजॊध्वस्तास्स तदा भृषम 67 तांस तदा भज्यतस तरस्तान कौरवान भरतर्षभ शिनेर नप्ता किरन बाणैर अभ्यवर्तत सात्यकिः 68 तम आयान्तं महेष्वासम अप्रसह्यं थुरासथम हार्थिक्यस तवरितॊ राजन परत्यगृह्णाथ अभीतवत 69 तौ समेतौ महात्मानौ वार्ष्णेयाव अपराजितौ हार्थिक्यः सात्यकिश चैव सिंहाव इव मथॊत्कटौ 70 इषुभिर विमलाभासैश छाथयन्तौ परस्परम अर्चिर्हिर इव सूर्यस्य थिवाकरसमप्रभौ 71 चापमार्गबलॊथ्धूतान मार्गणान वृष्णिसिंहयॊः आकाशे समपश्याम पतंगान इव शीघ्रगान 72 सात्यकिं थशभिर विथ्ध्वा हयांश चास्य तरिभिः शरैः चापम एकेन चिच्छेथ हार्थिक्यॊ नतपर्वणा 73 तन निकृत्तं धनुःश्रेष्ठम अपास्य शिनिपुंगवः अन्यथ आथत्त वेगेन वेगवत्तरम आयुधम 74 तथ आथाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम हार्थिक्यं थशभिर बाणैः परत्यविध्यत सतनान्तरे 75 ततॊ रदं युगेषां च छित्त्वा भल्लैः सुसंयतैः अश्वांस तस्यावधीत तूर्णम उभौ च पार्ष्णिसारदी 76 मथ्रराजे हते राजन्विरदे कृतवर्मणि थुर्यॊधन बलं सर्वं पुनर आसीत पराङ्मुखम 77 तत्परे नावबुध्यन्त सैन्येन रजसा वृते बलं तु हतभूयिष्ठं तत तथासीत पराङ्मुखम 78 ततॊ मुहूर्तात ते ऽपश्यन रजॊ भौमं समुत्दितम विविधैः शॊणितस्रावैः परशान्तं पुरुषर्षभ 79 ततॊ थुर्यॊधनॊ थृष्ट्वा भग्नं सवबलम अन्तिकात जवेनापततः पार्दान एकः सर्वान अवारयत 80 पाण्डवान सरदान थृष्ट्वा धृष्टथ्युम्नं च पार्षतम आनर्तं च थुराधर्षं शितैर बाणैर अवाकिरत 81 तं परे नाभ्यवर्तन्त मर्त्या मृत्युम इव आगतम अदान्यं रदम आस्दाय हार्थिक्यॊ ऽपि नयवर्तत 82 ततॊ युधिष्ठिरॊ राजा तवरमाणॊ महारदः चतुर्भिर निजघानाश्वान पत्रिभिः कृतवर्मणः विव्याध गौतमं चापि षड्भिर भल्लैः सुतेजनैः 83 अश्वत्दामा ततॊ राज्ञा हताश्वं विरदी कृतम समपॊवाह हार्थिक्यं सवरदेन युधिष्ठिरात 84 ततः शारथ्वतॊ ऽषटाभिः परत्यविध्यथ युधिष्ठिरम विव्याध चाश्वान निशितैस तस्याष्टाभिः शिलीमुखैः 85 एवम एतन महाराज युथ्धशेषम अवर्तत तव थुर्मन्त्रिते राजन सहपुत्रस्य भारत 86 तस्मिन महेष्वास वरे विशस्ते; संग्राममध्ये कुरुपुंगवेन पर्दाः समेताः परमप्रहृष्टाः; शङ्खान परथध्मुर हतम ईक्ष्य शल्यम 87 युधिष्ठिरं च परशशंसुर आजौ; पुरा सुरा वृत्रवधे यदेन्थ्रम चक्रुश च नानाविध वाथ्य शब्थान; निनाथयन्तॊ वसुधां समन्तात |
1
[s] athānyad dhanur ādāya balavad vegavattaram yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat 2 tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān abhyavarṣad ameyātmā kṣatriyān kṣatriyarṣabhaḥ 3 sātyakiṃ daśabhir viddhvā bhīmasenaṃ tribhiḥ śaraiḥ sahadevaṃ tribhir viddhvā yudhiṣṭhiram apīḍayat 4 tāṃs tān anyān maheṣvāsān sāśvān saratha kuñjarān kuñjarān kuñjarārohān aśvān aśvaprayāyinaḥ rathāṃś ca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ 5 bāhūṃś ciccheda ca tathā sāyudhān ketanāni ca cakāra ca mahīṃ yodhais tīrṇāṃ vedīṃ kuśair iva 6 tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam parivavrur bhṛśaṃ kruddhāḥ pāṇḍupāñcāla somakāḥ 7 taṃ bhīmasenaś ca śineś ca naptā; mādhryāś ca putrau puruṣapravīrau samāgataṃ bhīmabalena rājñā; paryāpur anyonyam athāhvayantaḥ 8 tatas tu śūrāḥ samare narendraṃ; madreśvaraṃ prāpya yudhāṃ variṣṭham āvāryā cainaṃ samare nṛvīrā; jaghnuḥ śaraiḥ patribhir ugravegaiḥ 9 saṃrakṣito bhīmasenena rājā; mādrī sutābhyām atha mādhavena madrādhipaṃ patribhir ugravegaiḥ; stanāntare dhārma suto nijaghne 10 tato raṇe tāvakanāṃ rathaughāḥ; sāmīkṣya madrādhipatiṃ śarārtam paryāvavruḥ pravarāḥ sarvaśaś ca; duryodhanasyānumate samantāt 11 tato drutaṃ madrajanādhipo raṇe; yudhiṣṭhiraṃ saptabhir abhyavidhyat taṃ cāpi pārtho navabhiḥ pṛṣatkair; vivyādha rājaṃs tumule mahātmā 12 ākarṇapūrṇāyata saṃprayuktaiḥ; śarais tadā saṃyati tailadhautaiḥ anyonyam ācchādayatāṃ mahārathau; madrādhipaś cāpi yudhiṣṭhiraś ca 13 tatas tu tūrṇaṃ samare mahārathau; parasparasyāntaram īkṣamāṇau śarair bhṛśaṃ vivyadhatur nṛpottamau; mahābalau śatrubhir apradhṛṣyau 14 tayor dhanurjyātalanisvano mahān; mahendravajrāśanitulyanisvanaḥ parasparaṃ bāṇagaṇair mahātmanoḥ; pravarṣator madrapa pāṇḍuvīrayoḥ 15 tau ceratur vyāghraśiśu prakāśau; mahāvaneṣv āmiṣa gṛddhināv iva viṣāṇinau nāgavarāv ivobhau; tatakṣatuḥ saṃyugajātadarpau 16 tatas tu madrādhipatir mahātmā; yudhiṣṭhiraṃ bhīmabalaṃ prasahya vivyādha vīraṃ hṛdaye 'tivegaṃ; śareṇa sūryāgnisamaprabheṇa 17 tato 'tividdho 'tha yudhiṣṭhiro 'pi; susaṃprayuktena śareṇa rājan jaghāna madrādhipatiṃ mahātmā; mudaṃ ca lebhe ṛṣabhaḥ kurūṇām 18 tato muhūrtād iva pārthivendro; labdhvā saṃjñāṃ krodhā saṃraktanetraḥ śatena pārthaṃ tvarito jaghāna; sahasranetra pratimaprabhāvaḥ 19 tvaraṃs tato dharmasuto mahātmā; śalyasya kruddho navabhiḥ pṛṣatkaiḥ bhittvā hy uras tapanīyaṃ ca varma; jaghāna ṣaḍbhis tv aparaiḥ pṛṣātkaiḥ 20 tatas tu madrādhipatiḥ prahṛṣṭo; dhanur vikṛṣya vyasṛjat pṛṣatkān dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś; ciccheda cāpaṃ kurupuṃgavasya 21 navaṃ tato 'nyat sāmare pragṛhya; rājā dhanur ghorataraṃ mahātmā śalyaṃ tu viddhvā niśitaiḥ samantad; yathā mahendro namuciṃ śitāgraiḥ 22 tatas tu śalyo navabhiḥ pṛṣatkair; bhīmasya rājñaś ca yudhiṣṭhirasya nikṛtya raukme paṭu varmaṇī tayor; vidārayām āsa bhujau mahātmā 23 tato 'pareṇa jvalitārka tejasā; kṣureṇa rājño dhanur unmamātha kṛpaś ca tasyaiva jaghāna sūtaṃ; ṣaḍbhiḥ śaraiḥ so 'bhimukhaṃ papāta 24 madrādhipaś cāpi yudhiṣṭhirasya; śaraiś caturbhir nijaghāna vāhān vāhāṃś ca hatvā vyakaron mahātmā; yodhakṣayaṃ dharmasutasya rājñaḥ 25 tathā kṛte rājani bhīmaseno; madrādhipasyāśu tato mahātmā chittvā dhanur vegavatā śareṇa; dvābhyām avidhyat subhṛśaṃ narendram 26 athāpareṇāsya jahāra yantuḥ; kāyāc chiraḥ saṃnahanīyamadhyāt jaghāna cāśvāṃś caturaḥ sa śīghraṃ; tathā bhṛśaṃ kupito bhīmasenaḥ 27 tam agraṇīḥ sarvadhanurdharāṇām; ekaṃ carantaṃ sāmare 'tivegam bhīmaḥ śatena vyakirac charāṇāṃ; mādrīputraḥ sahadevas tathaiva 28 taiḥ sāyakair mohitaṃ vīkṣya śalyaṃ; bhīmaḥ śarair asya cakarta varma sa bhīmasenena nikṛttavarmā; madrādhipaś carma sahasratāram 29 pragṛhya khaḍgaṃ ca rathān mahātmā; praskandya kuntīsutam abhyadhāvat chittva ratheṣāṃ nakulasya so 'tha; yudhiṣṭhiraṃ bhīmabalo 'bbhyadhāvat 30 taṃ cāpi rājānam athotpatantaṃ; kruddhāṃ yathaivāntakam āpatantam dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī; śineś ca naptā sahasā parīyuḥ 31 athāsya carmāpratimaṃ nyakṛntad; bhīmo mahātmā daśabhiḥ pṛṣatkaḥ khaḍgaṃ ca bhallair nicakarta muṣṭau; nadan prahṛṣṭas tava sinyamadhye 32 tat karma bhīmasya samīkṣya hṛṣṭās; te pāṇḍavānāṃ pravarā rathaughāḥ nādaṃ ca cakrur bhṛśam utsmayantaḥ; śaṅkhāṃś ca dadhmuḥ śaśisaṃnikāśān 33 tenātha śabdena vibhīṣaṇena; tavābhitaptaṃ balam aprahṛṣṭam svedābhibhūtaṃ rudhirokṣitāṅgaṃ; visaṃjñakalpaṃ ca tathā viṣāṇṇam 34 sa madrarājaḥ sahasāvakīrṇo; bhīmāgragaiḥ pāṇḍava yodhamukhyaiḥ yudhiṣṭhirasyābhimukhaṃ javena; siṃho yathā mṛgahetoḥ prayātaḥ 35 sa dharmarājo nihatāśvasūtaṃ; krodhena dīptajvalana prakāśam dṛṣṭvā tu madrādhipatiṃ sa tūrṇaṃ; samabhyadhāvat tam ariṃ balena 36 govinda vākyaṃ tvaritaṃ vicintya; dadhre matiṃ śalya vināśanāya sa dharmarājo nihatāśvasūte; rathe tiṣṭhañ śaktim evābhikāṅkṣan 37 tac cāpi śalyasyā niśamya karma; mahātmano bhagam athāvaśiṣṭam smṛtvā mānaḥ śalya vadhe yatātmā; yathoktam indrāvarajasya cakre 38 sa dharmarājo maṇihemadaṇḍāṃ; jagrāha śaktiṃ kanakaprakāśām netre ca dīpte sahasā vivṛtya; madrādhipaṃ kruddhā manā niraikṣat 39 nirīkṣito vai naradeva rājñā; pūtātmanā nirhṛta kalmaṣeṇa abhūn na yad bhasmasān madrarājas; tad adbhutaṃ me pratibhāti rājan 40 tatas tu śaktiṃ rucirogra daṇḍāṃ; maṇipravalojjvalitāṃ pradīptām cikṣepa vegāt subhṛśaṃ mahātmā; madrādhipāya pravaraḥ kurūṇām 41 dīptām athaināṃ mahatā balena; savisphu liṅgāṃ sahasā patantīm praikṣanta sarve kuravaḥ sametā; yathā yugānte mahatīm ivolkām 42 tāṃ kālarātrīm iva pāśahastāṃ; yamasya dhatrīm iva cograrūpām sabrahma daṇḍapratimām amoghāṃ; sasarja yatto yudhi dharmarājaḥ 43 gandhasrag agryāsana pānabhojanair; abhyarcitāṃ pāṇḍusutaiḥ prayatnāt saṃvartakāgnipratimāṃ jvalantīṃ; kṛtyām atharvāṅgirasīm ivogrām 44 īśāna hetoḥ pratinirmitāṃ tāṃ; tvaṣṭā ripūṇām asudeha bhakṣām bhūmyantarikṣādi jalāśayāni; prasahya bhūtāni nihantum īśām 45 ghaṇṭā patākā maṇivajra bhājaṃ; vaiḍūrya citrāṃ tapanīyadaṇḍām tvaṣṭrā prayatnān niyamena kḷptāṃ; brahma dviṣām antakarīm amoghām 46 balaprayatnād adhirūḍha vegāṃ; mantraiś ca ghorair abhimantrayitvā sasarja mārgeṇa ca tāṃ pareṇa; vadhāya madrādhipater tadānīm 47 hato 'sy asāv ity abhigarjamāno; rudro 'ntakāyānta karaṃ yatheṣum prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ; krodhena nṛtyann ivā dhārma rājaḥ 48 tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ; yudhiṣṭhireṇāprati vārya vīryām pratigrahāyābhinanarda śalyaḥ; samyag ghutām agnir ivājya dhārām 49 sā tasya marmāṇi vidārya śubhram; uro viśālaṃ ca tathaiva varma viveśa gāṃ toyam ivāprasaktā; yaśo viśālaṃ nṛpater dahantī 50 nāsākṣi karṇāsya viniḥsṛtena; prasyandatā ca vraṇasaṃbhavena saṃsikta gātro rudhireṇa so 'bhūt; krauñco yathā skanda hato mahādriḥ 51 prasārya bāhū sa rathād gato gāṃ; saṃchinnavarmā kurunandanena mahendra vāhapratimo mahātmā; vajrāhataṃ śṛṅgam ivācalasya 52 bāhū prasāryābhimukho dharmarājasya madrarāṭ tato nipatito bhūmāv indradhvaja ivocchritaḥ 53 sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ pratyudgata iva premṇā bhūmyā sā narapuṃgavaḥ 54 priyayā kāntayā kāntaḥ patamāna ivorasi ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ sarvair aṅgaiḥ samāśliṣya prasupta iva so 'bhavat 55 dharmye dharmātmanā yuddhe nihato dharmasūnunā samyag ghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare 56 śaktyā vibhinnahṛdayaṃ vipra viddhāyudha dhvajam saṃśāntam api madreśaṃ lakṣmīr naiva vyamuñcata 57 tato yudhiṣṭhiraś cāpam ādāyendra dhanuṣprabham vyadhamad dviṣataḥ saṃkhye khaga rāḍ iva pannagān dehāsūn niśitair bhallai ripūṇāṃ nāśayan kṣaṇāt 58 tataḥ prārthasya bāṇaughair āvṛtāḥ sainikās tava nimīlitākṣāḥ kṣiṇvanto bhṛśam anyonyam arditāḥ saṃnyastakavacā dehair vipatrāyudha jīvitāḥ 59 tataḥ śalye nipatite madrarājānujo yuvā bhrātuḥ sarvair guṇais tulyo rathī pāṇḍavam abhyayāt 60 vivyādha ca naraśreṣṭho nārācair bahubhis tvaran hatasyāpacitiṃ bhrātuś cikīrṣur yuddhadurmadaḥ 61 taṃ vivyādhāśugaiḥ ṣaḍbhir dharmarājas tvarann iva kārmukaṃ cāsya ciccheda kṣurābhyāṃ dhvajam eva ca 62 tato 'sya dīpyamānena sudṛḍhena śitena ca pramukhe vartamānasya bhallenāpāharac chiraḥ 63 sukuṇḍalaṃ tad dadṛśe patamānaṃ śiro rathāt puṇyakṣayam iva prāpya patantaṃ svargavāsinam 64 tasyāpakṛṣṭa śīrṣaṃ tac charīraṃ patitaṃ rathāt rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyam abhajyata 65 vicitrakavace tasmin hate madranṛpānuje hāhākāraṃ vikurvāṇāḥ kuravo vipradudruvuḥ 66 śalyānujaṃ hataṃ dṛṣṭvā tāvakās tyaktajīvitāḥ vitresuḥ pāṇḍava bhayād rajodhvastāss tathā bhṛṣam 67 tāṃs tathā bhajyatas trastān kauravān bharatarṣabha śiner naptā kiran bāṇair abhyavartata sātyakiḥ 68 tam āyāntaṃ maheṣvāsam aprasahyaṃ durāsadam hārdikyas tvarito rājan pratyagṛhṇād abhītavat 69 tau sametau mahātmānau vārṣṇeyāv aparājitau hārdikyaḥ sātyakiś caiva siṃhāv iva madotkaṭau 70 iṣubhir vimalābhāsaiś chādayantau parasparam arcirhir iva sūryasya divākarasamaprabhau 71 cāpamārgabaloddhūtān mārgaṇān vṛṣṇisiṃhayoḥ ākāśe samapaśyāma pataṃgān iva śīghragān 72 sātyakiṃ daśabhir viddhvā hayāṃś cāsya tribhiḥ śaraiḥ cāpam ekena ciccheda hārdikyo nataparvaṇā 73 tan nikṛttaṃ dhanuḥśreṣṭham apāsya śinipuṃgavaḥ anyad ādatta vegena vegavattaram āyudham 74 tad ādāya dhanuḥśreṣṭhaṃ variṣṭhaḥ sarvadhanvinām hārdikyaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare 75 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ aśvāṃs tasyāvadhīt tūrṇam ubhau ca pārṣṇisārathī 76 madrarāje hate rājanvirathe kṛtavarmaṇi duryodhana balaṃ sarvaṃ punar āsīt parāṅmukham 77 tatpare nāvabudhyanta sainyena rajasā vṛte balaṃ tu hatabhūyiṣṭhaṃ tat tadāsīt parāṅmukham 78 tato muhūrtāt te 'paśyan rajo bhaumaṃ samutthitam vividhaiḥ śoṇitasrāvaiḥ praśāntaṃ puruṣarṣabha 79 tato duryodhano dṛṣṭvā bhagnaṃ svabalam antikāt javenāpatataḥ pārthān ekaḥ sarvān avārayat 80 pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam ānartaṃ ca durādharṣaṃ śitair bāṇair avākirat 81 taṃ pare nābhyavartanta martyā mṛtyum iv āgatam athānyaṃ ratham āsthāya hārdikyo 'pi nyavartata 82 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ caturbhir nijaghānāśvān patribhiḥ kṛtavarmaṇaḥ vivyādha gautamaṃ cāpi ṣaḍbhir bhallaiḥ sutejanaiḥ 83 aśvatthāmā tato rājñā hatāśvaṃ virathī kṛtam samapovāha hārdikyaṃ svarathena yudhiṣṭhirāt 84 tataḥ śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram vivyādha cāśvān niśitais tasyāṣṭābhiḥ śilīmukhaiḥ 85 evam etan mahārāja yuddhaśeṣam avartata tava durmantrite rājan sahaputrasya bhārata 86 tasmin maheṣvāsa vare viśaste; saṃgrāmamadhye kurupuṃgavena parthāḥ sametāḥ paramaprahṛṣṭāḥ; śaṅkhān pradadhmur hatam īkṣya śalyam 87 yudhiṣṭhiraṃ ca praśaśaṃsur ājau; purā surā vṛtravadhe yathendram cakruś ca nānāvidha vādya śabdān; ninādayanto vasudhāṃ samantāt |