1
[स] वर्तमाने तदा युथ्धे घॊररूपे भयानके अभज्यत बलं तत्र तव पुत्रस्य पाण्डवैः 2 तांस तु यत्नेन महता संनिवार्य महारदान पुत्रस ते यॊधयाम आस पाण्डवानाम अनीकिनीम 3 निवृत्ताः सहसा यॊधास तव पुत्र परियैषिणः संनिवृत्तेषु तेष्व एवं युथ्धम आसीत सुथारुणम 4 तावकानां परेषां च थेवासुररणॊपमम परेषां तव सैन्ये च नासीत कश चित पराङ्मुखः 5 अनुमानेन युध्यन्ते संज्ञाभिश च परस्परम तेषां कषयॊ महान आसीथ युध्यताम इतरेतरम 6 ततॊ युधिष्ठिरॊ राजा करॊधेन महता युतः जिगीषमाणः संग्रामे धार्तराष्ट्रान सराजकान 7 तरिभिः शारथ्वतं विथ्ध्वा रुक्मपुङ्खैः शिलाशितैः चतुर्भिर निजघानाश्वान कल्याणान कृतवर्मणः 8 अश्वत्दामा तु हार्थिक्यम अपॊवाह यशस्विनम अद शारथ्वतॊ ऽषटाभिः परत्यविध्यथ युधिष्ठिरम 9 ततॊ थुर्यॊधनॊ राजा रदान सप्तशतान रणे परेषयथ यत्र राजासौ धर्मपुत्रॊ युधिष्ठिरः 10 ते रदा रदिभिर युक्ता मनॊमारुतरंहसः अभ्यथ्रवन्त संग्रामे कौन्तेयस्य रदं परति 11 ते समन्तान महाराज परिवार्य युधिष्ठिरम अथृश्यं सायकैश चक्रुर मेघा इव थिवाकरम 12 नामृष्यन्त सुसंरब्धाः शिखण्डिप्रमुखा रदाः रदैर अग्र्यजवैर युक्तैः किङ्किणीजालसंवृतैः आजग्मुर अभिरक्षन्तः कुन्तीपुत्रं युधिष्ठिरम 13 तदा परववृते रौथ्रः संग्रामः शॊणितॊथकः पाण्डवानां कुरूणां च यम राष्ट्रविवर्धनः 14 रदान सप्तशतान हत्वा कुरूणाम आततायिनाम पाण्डवाः सह पाञ्चालैः पुनर एवाभ्यवारयन 15 तत्र युथ्धं महच चासीत तव पुत्रस्य पाण्डवैः न च नस ताथृशं थृष्टं नैव चापि परिश्रुतम 16 वर्तमाने तदा युथ्धे निर्मर्याथे समन्ततः वध्यमानेषु यॊधेषु तावकेष्व इतरेषु च 17 निनथत्सु च यॊधेषु शङ्खवर्यैश च पूरितैः उत्कृष्टैः सिंहनाथैश च गर्जितेन च धन्विनाम 18 अतिप्रवृथ्धे युथ्धे च छिथ्यमानेषु मर्मसु धावमानेषु यॊधेषु जय गृथ्धिषु मारिष 19 संहारे सर्वतॊ जाते पृदिव्यां शॊकसंभवे बह्वीनाम उत्तमस्त्रीणां सीमन्तॊथ्धरणे तदा 20 निर्मर्याथे तदा युथ्धे वर्तमाने सुथारुणे पराथुरासन विनाशाय तथॊत्पाताः सुथारुणाः चचाल शब्थं कुर्वाणा सपर्वतवना मही 21 सथण्डाः सॊल्मुका राजञ शीर्यमाणाः समन्ततः उल्काः पेतुर थिवॊ भूमाव आहत्य रविमण्डलम 22 विष्वग वाताः पराथुरासन नीचैः शर्कर वर्षिणः अश्रूणि मुमुचुर नागा वेपदुश चास्पृशथ भृशम 23 एतान घॊरान अनाथृत्य समुत्पातान सुथारुणान पुनर युथ्धाय संमन्त्र्य कषत्रियास तस्दुर अव्यदाः रमणीये कुरुक्षेत्रे पुण्ये सवर्गं यियासवः 24 ततॊ गान्धारराजस्य पुत्रः शकुनिर अब्रवीत युध्यध्वम अग्रतॊ यावत पृष्ठतॊ हन्मि पाण्डवान 25 ततॊ नः संप्रयातानां मथ्रयॊधास तरस्विनः हृष्टाः किलकिला शब्थम अकुर्वन्तापरे तदा 26 अस्मांस तु पुनर आसाथ्य लब्धलक्षा थुरासथाः शरासनानि धुन्वन्तः शरवर्षैर अवाकिरन 27 ततॊ हतं परैस तत्र मथ्रराजबलं तथा थुर्यॊधन बलं थृष्ट्वा पुनर आसीत पराङ्मुखम 28 गान्धारराजस तु पुनर वाक्यम आह ततॊ बली निवर्तध्वम अधर्मज्ञा युध्यध्वं किं सृतेन वः 29 अनीकं थशसाहस्रम अश्वानां भरतर्षभ आसीथ गान्धारराजस्य विमलप्रासयॊधिनाम 30 बलेन तेन विक्रम्य वर्तमाने जनक्षये पृष्ठतः पाण्डवानीकम अभ्यघ्नन निशितैः शरैः 31 तथ अभ्रम इव वातेन कषिप्यमाणं समन्ततः अभज्यत महाराज पाण्डूनां सुमहथ बलम 32 ततॊ युधिष्ठिरः परेक्ष्य भग्नं सवबलम अन्तिकात अभ्यचॊथयथ अव्यग्रः सहथेवं महाबलम 33 असौ सुबल पुत्रॊ नॊ जघनं पीड्य थंशितः सेनां निसूथयन्त्य एष पश्य पाण्डव थुर्मतिम 34 गच्छ तवं थरौपथेयाश च शकुनिं सौबलं जहि रदानीकम अहं रक्ष्ये पाञ्चाल सहितॊ ऽनघ 35 गच्छन्तु कुञ्जराः सर्वे वाजिनश च सह तवया पाथाताश च तरिसाहस्राः शकुनिं सौबलं जहि 36 ततॊ गजाः सप्तशताश चापपाणिभिर आस्दिताः पञ्च चाश्वसहस्राणि सहथेवश च वीर्यवान 37 पाथाताश च तरिसाहस्रा थरौपथेयाश च सर्वशः रणे हय अभ्यथ्रवंस ते तु शकुनिं युथ्धथुर्मथम 38 ततस तु सौबलॊ राजन्न अब्भ्यतिक्रम्य पाण्डवान जघान पृष्ठतः सेनां जय घृध्रः परतापवान 39 अश्वारॊहास तु संरब्धाः पाण्डवानां तरस्विनाम पराविशन सौबलानीकम अभ्यतिक्रम्य तान रदान 40 ते तत्र सथिनः शूराः सौबलस्य महथ बलम गममध्ये ऽवतिष्ठन्तः शरवर्षैर अवाकिरन 41 तथ उथ्यतगथा परासम अकापुरुष सेवितम परावर्तत महथ युथ्धं राजन थुर्मन्त्रिते तव 42 उपारमन्त जयाशब्थाः परेक्षका रदिनॊ ऽभवन न हि सवेषां परेषां वा विशेषः परत्यथृश्यत 43 शूर बाहुविसृष्टानां शक्तीनां भरतर्षभ जयॊतिषाम इव संपातम अपश्यन कुरुपाण्डवाः 44 ऋष्टिभिर विमलाहिश च तत्र तत्र विशां पते संपतन्तीभिर आकाशम आवृतं बह्व अशॊभत 45 परासानाम्पततां राजन रूपम आसीत समन्ततः शलभानाम इवाकाशे तथा भरतसत्तम 46 रुधिरॊक्षितसर्वाङ्गा विप्रविथ्धैर नियन्तृभिः हयाः परिपतन्ति सम शतशॊ ऽद सहस्रशः 47 अन्यॊन्यपरिपिष्टाश च समासाथ्य परस्परम अविक्षताः सम थृश्यन्ते वमन्तॊ रुधिरं मुखैः 48 ततॊ ऽभवत तमॊ घॊरं सैन्येन रजसा वृते तान अपाक्रमतॊ ऽथराक्षं तस्माथ थेशाथ अरिंथमान अश्वान राजन मनुष्यांश च रजसा संवृते सति 49 भूमौ निपतिताश चान्ये वमन्तॊ रुधिरं बहु केशा केशि समालग्ना न शेकुश चेष्टितुं जनाः 50 अन्यॊन्यम अश्वपृष्ठेभ्यॊ विकर्षन्तॊ महाबलाः मल्ला इव समासाथ्य निजघ्नुर इतरेतरम अश्वैश च वयपकृष्यन्त वहवॊ ऽतर गतासवः 51 भूमौ निपतितश चान्ये बहवॊ विजयैषिणः तत्र तत्र वयथृश्यन्त पुरुषाः शूरमानिनः 52 रक्तॊक्षितैश छिन्नभुजैर अपकृष्ट शिरॊरुहैः वयथृश्यत मही कीर्णा शतशॊ ऽद सहस्रशः 53 थूरं न शक्यं तत्रासीथ गन्तुम अश्वेन केन चित साश्वारॊहैर हतैर अश्वैर आवृते वसुधातले 54 रुधिरॊक्षित संनाहैर आत्तशस्त्रैर उथायुधैः नानाप्रहरणैर घॊरैः परस्परवधैषिभिः सुसंनिकृष्टैः संग्रामे हतभूयिष्ठ सैनिकैः 55 स मुहूर्तं ततॊ युथ्ध्वा सौबलॊ ऽद विशां पते षट सहस्रैर हयैः शिष्टैर अपायाच छकुनिस ततः 56 तदैव पाण्डवानीकं रुधिरेण समुक्षितम षट सहस्रैर हयैः शिष्टैर अपायाच छरान्तवाहनम 57 अश्वारॊहास तु पाण्डूनाम अब्रुवन रुधिरॊक्षिताः सुसंनिकृष्टाः संग्रामे भूयिष्ठं तयक्तजीविताः 58 नेह शक्यं रदैर यॊथ्धुं कुत एव महागजैः रदनैव रदा यान्तु कुञ्जराः कुञ्जरान अपि 59 परतियातॊ हि शकुनिः सवम अनीकम अवस्दितः न पुनः सौबलॊ राजा युथ्धम अभ्यागमिष्यति 60 ततस तु थरौपथेयाश च ते च मत्ता महाथ्विपाः परययुर यत्र पाञ्चाल्यॊ धृष्टथ्युम्नॊ महारदः 61 सहथेवॊ ऽपि कौरव्य रजॊमेघे समुत्दिते एकाकी परययौ तत्र यत्र राजा युधिष्ठिरः 62 ततस तेषु परयातेषु शकुनिः सौबलः पुनः पार्श्वतॊ ऽभयहनत करुथ्धॊ धृष्टथ्युम्नस्य वाहिनीम 63 तत पुनस तुमुलं युथ्धं पराणांस तयक्त्वाभ्यवर्तत तावकानां परेषां च परस्परवधैषिणाम 64 ते हय अन्यॊन्यम अवेक्षन्त तस्मिन वीर समागमे यॊधाः पर्यपतन राजञ शतशॊ ऽद सहस्रशः 65 असिभिश छिथ्यमानानां शिरसां लॊकसंक्षये पराथुरासीन महाशब्थस तालानां पतताम इव 66 विमुक्तानां शरीराणां भिन्नानां पततां भुवि सायुधानां च बाहूनाम उरूणां च विशां पते आसीत कटकटा शब्थः सुमहाँल लॊमहर्षणः 67 निघ्नन्तॊ निशितैः शस्त्रैर भरातॄन पुत्रान सखीन अपि यॊधाः परिपतन्ति सम यदामिष कृते खगाः 68 अन्यॊन्यं परतिसंरब्धाः समासाथ्य परस्परम अहं पूर्वम अहं पूर्वम इति नयघ्नन सहस्रशः 69 संघातैर आसनभ्रष्टैर अश्वारॊहैर गतासुभिः हयाः परिपतन्ति सम शतशॊ ऽद सहस्रशः 70 सफुरतां परतिपिष्टानाम अश्वानां शीघ्रसारिणाम सतनतां च मनुष्याणां संनथ्धानां विशां पते 71 शक्त्यृष्टि परासशब्थश च तुमुलः समजायत भिन्थतां परमर्माणि राजन थुर्मन्त्रिते तव 72 शरमाभिभूताः संरब्धाः शरान्तवाहाः पिपासिताः विक्षताश च शितैः शस्त्रैर अभ्यवर्तन्त तावकाः 73 मत्ता रुधिरगन्धेन बहवॊ ऽतर विचेतसः जघ्नुः परान सवकांश चैव पराप्तान पराप्तान अनन्तरान 74 बहवश च गतप्राणाः कषत्रिया जय गृथ्धिनः भूमाव अभ्यपतन राजञ शरवृष्टिभिर आवृताः 75 वृकगृध्रशृगालानां तुमुले मॊथने ऽहनि आसीथ बलक्षयॊ घॊरस तव पुत्रस्य पश्यतः 76 नर अश्वकायसंछन्ना भूमिर आसीथ विशां पते रुधिरौथक चित्रा च भीरूणां भयवर्धिनी 77 असिभिः पट्टिशैः शूरैस तक्षमाणाः पुनः पुनः तावकाः पाण्डवाश चैव नाभ्यवर्तन्त भारत 78 परहरन्तॊ यदाशक्ति यावत पराणस्य धारणम यॊधाः परिपतन्ति सम वमन्तॊ रुधिरं वरणैः 79 शिरॊ गृहीत्वा केशेषु कबन्धः समथृश्यत उथ्यम्य निशितं खड्गं रुधिरेण समुक्षितम 80 अदॊत्दितेषु बहुषु कबन्धेषु जनाधिप तदा रुधिरगन्धेन यॊधाः कश्मलम आविशन 81 मन्थी भूते ततः शब्थे पाण्डवानां महथ बलम अल्पावशिष्टैस तुरगैर अभ्यवर्तत सौबलः 82 ततॊ ऽभयधावंस तवरिताः पाण्डवा जय गृथ्धिनः पथातयश च नागाश च साथिनश चॊथ्यतायुधाः 83 कॊष्टकी कृत्यचाप्य एनं परिक्षिप्य च सर्वशः शस्त्रैर नानाविधैर जघ्नुर युथ्धपारं तितीर्षवः 84 तवथीयास तांस तु संप्रेक्ष्य सर्वतः समभिथ्रुतान साश्वपत्तिथ्विपरदाः पाण्डवान अभिथुथ्रुवुः 85 के चित पथातयः पथ्भिर मुष्टिभिश च परस्परम निजघ्नुः समरे शूराः कषीणशस्त्रास ततॊ ऽपतन 86 रदेभ्यॊ रदिनः पेतुर थविपेभ्यॊ हस्तिसाथिनः विमानेभ्य इव भरष्टाः सिथ्धाः पुण्यक्षयाथ यदा 87 एवम अन्यॊन्यम आयस्ता यॊधा जघ्नुर महामृधे पितॄन भरातॄन वयस्यांश च पुत्रान अपि तदापरे 88 एवम आसीथ अमर्याथं युथ्धं भरतसत्तम परासासिबाणकलिले वर्तमाने सुथारुणे |
1
[s] vartamāne tathā yuddhe ghorarūpe bhayānake abhajyata balaṃ tatra tava putrasya pāṇḍavaiḥ 2 tāṃs tu yatnena mahatā saṃnivārya mahārathān putras te yodhayām āsa pāṇḍavānām anīkinīm 3 nivṛttāḥ sahasā yodhās tava putra priyaiṣiṇaḥ saṃnivṛtteṣu teṣv evaṃ yuddham āsīt sudāruṇam 4 tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam pareṣāṃ tava sainye ca nāsīt kaś cit parāṅmukhaḥ 5 anumānena yudhyante saṃjñābhiś ca parasparam teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram 6 tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ jigīṣamāṇaḥ saṃgrāme dhārtarāṣṭrān sarājakān 7 tribhiḥ śāradvataṃ viddhvā rukmapuṅkhaiḥ śilāśitaiḥ caturbhir nijaghānāśvān kalyāṇān kṛtavarmaṇaḥ 8 aśvatthāmā tu hārdikyam apovāha yaśasvinam atha śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram 9 tato duryodhano rājā rathān saptaśatān raṇe preṣayad yatra rājāsau dharmaputro yudhiṣṭhiraḥ 10 te rathā rathibhir yuktā manomārutaraṃhasaḥ abhyadravanta saṃgrāme kaunteyasya rathaṃ prati 11 te samantān mahārāja parivārya yudhiṣṭhiram adṛśyaṃ sāyakaiś cakrur meghā iva divākaram 12 nāmṛṣyanta susaṃrabdhāḥ śikhaṇḍipramukhā rathāḥ rathair agryajavair yuktaiḥ kiṅkiṇījālasaṃvṛtaiḥ ājagmur abhirakṣantaḥ kuntīputraṃ yudhiṣṭhiram 13 tathā pravavṛte raudraḥ saṃgrāmaḥ śoṇitodakaḥ pāṇḍavānāṃ kurūṇāṃ ca yama rāṣṭravivardhanaḥ 14 rathān saptaśatān hatvā kurūṇām ātatāyinām pāṇḍavāḥ saha pāñcālaiḥ punar evābhyavārayan 15 tatra yuddhaṃ mahac cāsīt tava putrasya pāṇḍavaiḥ na ca nas tādṛśaṃ dṛṣṭaṃ naiva cāpi pariśrutam 16 vartamāne tathā yuddhe nirmaryāde samantataḥ vadhyamāneṣu yodheṣu tāvakeṣv itareṣu ca 17 ninadatsu ca yodheṣu śaṅkhavaryaiś ca pūritaiḥ utkṛṣṭaiḥ siṃhanādaiś ca garjitena ca dhanvinām 18 atipravṛddhe yuddhe ca chidyamāneṣu marmasu dhāvamāneṣu yodheṣu jaya gṛddhiṣu māriṣa 19 saṃhāre sarvato jāte pṛthivyāṃ śokasaṃbhave bahvīnām uttamastrīṇāṃ sīmantoddharaṇe tathā 20 nirmaryāde tathā yuddhe vartamāne sudāruṇe prādurāsan vināśāya tadotpātāḥ sudāruṇāḥ cacāla śabdaṃ kurvāṇā saparvatavanā mahī 21 sadaṇḍāḥ solmukā rājañ śīryamāṇāḥ samantataḥ ulkāḥ petur divo bhūmāv āhatya ravimaṇḍalam 22 viṣvag vātāḥ prādurāsan nīcaiḥ śarkara varṣiṇaḥ aśrūṇi mumucur nāgā vepathuś cāspṛśad bhṛśam 23 etān ghorān anādṛtya samutpātān sudāruṇān punar yuddhāya saṃmantrya kṣatriyās tasthur avyathāḥ ramaṇīye kurukṣetre puṇye svargaṃ yiyāsavaḥ 24 tato gāndhārarājasya putraḥ śakunir abravīt yudhyadhvam agrato yāvat pṛṣṭhato hanmi pāṇḍavān 25 tato naḥ saṃprayātānāṃ madrayodhās tarasvinaḥ hṛṣṭāḥ kilakilā śabdam akurvantāpare tathā 26 asmāṃs tu punar āsādya labdhalakṣā durāsadāḥ śarāsanāni dhunvantaḥ śaravarṣair avākiran 27 tato hataṃ parais tatra madrarājabalaṃ tadā duryodhana balaṃ dṛṣṭvā punar āsīt parāṅmukham 28 gāndhārarājas tu punar vākyam āha tato balī nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ 29 anīkaṃ daśasāhasram aśvānāṃ bharatarṣabha āsīd gāndhārarājasya vimalaprāsayodhinām 30 balena tena vikramya vartamāne janakṣaye pṛṣṭhataḥ pāṇḍavānīkam abhyaghnan niśitaiḥ śaraiḥ 31 tad abhram iva vātena kṣipyamāṇaṃ samantataḥ abhajyata mahārāja pāṇḍūnāṃ sumahad balam 32 tato yudhiṣṭhiraḥ prekṣya bhagnaṃ svabalam antikāt abhyacodayad avyagraḥ sahadevaṃ mahābalam 33 asau subala putro no jaghanaṃ pīḍya daṃśitaḥ senāṃ nisūdayanty eṣa paśya pāṇḍava durmatim 34 gaccha tvaṃ draupadeyāś ca śakuniṃ saubalaṃ jahi rathānīkam ahaṃ rakṣye pāñcāla sahito 'nagha 35 gacchantu kuñjarāḥ sarve vājinaś ca saha tvayā pādātāś ca trisāhasrāḥ śakuniṃ saubalaṃ jahi 36 tato gajāḥ saptaśatāś cāpapāṇibhir āsthitāḥ pañca cāśvasahasrāṇi sahadevaś ca vīryavān 37 pādātāś ca trisāhasrā draupadeyāś ca sarvaśaḥ raṇe hy abhyadravaṃs te tu śakuniṃ yuddhadurmadam 38 tatas tu saubalo rājann abbhyatikramya pāṇḍavān jaghāna pṛṣṭhataḥ senāṃ jaya ghṛdhraḥ pratāpavān 39 aśvārohās tu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām prāviśan saubalānīkam abhyatikramya tān rathān 40 te tatra sadinaḥ śūrāḥ saubalasya mahad balam gamamadhye 'vatiṣṭhantaḥ śaravarṣair avākiran 41 tad udyatagadā prāsam akāpuruṣa sevitam prāvartata mahad yuddhaṃ rājan durmantrite tava 42 upāramanta jyāśabdāḥ prekṣakā rathino 'bhavan na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata 43 śūra bāhuvisṛṣṭānāṃ śaktīnāṃ bharatarṣabha jyotiṣām iva saṃpātam apaśyan kurupāṇḍavāḥ 44 ṛṣṭibhir vimalāhiś ca tatra tatra viśāṃ pate saṃpatantībhir ākāśam āvṛtaṃ bahv aśobhata 45 prāsānāmpatatāṃ rājan rūpam āsīt samantataḥ śalabhānām ivākāśe tadā bharatasattama 46 rudhirokṣitasarvāṅgā vipraviddhair niyantṛbhiḥ hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ 47 anyonyaparipiṣṭāś ca samāsādya parasparam avikṣatāḥ sma dṛśyante vamanto rudhiraṃ mukhaiḥ 48 tato 'bhavat tamo ghoraṃ sainyena rajasā vṛte tān apākramato 'drākṣaṃ tasmād deśād ariṃdamān aśvān rājan manuṣyāṃś ca rajasā saṃvṛte sati 49 bhūmau nipatitāś cānye vamanto rudhiraṃ bahu keśā keśi samālagnā na śekuś ceṣṭituṃ janāḥ 50 anyonyam aśvapṛṣṭhebhyo vikarṣanto mahābalāḥ mallā iva samāsādya nijaghnur itaretaram aśvaiś ca vyapakṛṣyanta vahavo 'tra gatāsavaḥ 51 bhūmau nipatitaś cānye bahavo vijayaiṣiṇaḥ tatra tatra vyadṛśyanta puruṣāḥ śūramāninaḥ 52 raktokṣitaiś chinnabhujair apakṛṣṭa śiroruhaiḥ vyadṛśyata mahī kīrṇā śataśo 'tha sahasraśaḥ 53 dūraṃ na śakyaṃ tatrāsīd gantum aśvena kena cit sāśvārohair hatair aśvair āvṛte vasudhātale 54 rudhirokṣita saṃnāhair āttaśastrair udāyudhaiḥ nānāpraharaṇair ghoraiḥ parasparavadhaiṣibhiḥ susaṃnikṛṣṭaiḥ saṃgrāme hatabhūyiṣṭha sainikaiḥ 55 sa muhūrtaṃ tato yuddhvā saubalo 'tha viśāṃ pate ṣaṭ sahasrair hayaiḥ śiṣṭair apāyāc chakunis tataḥ 56 tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam ṣaṭ sahasrair hayaiḥ śiṣṭair apāyāc chrāntavāhanam 57 aśvārohās tu pāṇḍūnām abruvan rudhirokṣitāḥ susaṃnikṛṣṭāḥ saṃgrāme bhūyiṣṭhaṃ tyaktajīvitāḥ 58 neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ rathanaiva rathā yāntu kuñjarāḥ kuñjarān api 59 pratiyāto hi śakuniḥ svam anīkam avasthitaḥ na punaḥ saubalo rājā yuddham abhyāgamiṣyati 60 tatas tu draupadeyāś ca te ca mattā mahādvipāḥ prayayur yatra pāñcālyo dhṛṣṭadyumno mahārathaḥ 61 sahadevo 'pi kauravya rajomeghe samutthite ekākī prayayau tatra yatra rājā yudhiṣṭhiraḥ 62 tatas teṣu prayāteṣu śakuniḥ saubalaḥ punaḥ pārśvato 'bhyahanat kruddho dhṛṣṭadyumnasya vāhinīm 63 tat punas tumulaṃ yuddhaṃ prāṇāṃs tyaktvābhyavartata tāvakānāṃ pareṣāṃ ca parasparavadhaiṣiṇām 64 te hy anyonyam avekṣanta tasmin vīra samāgame yodhāḥ paryapatan rājañ śataśo 'tha sahasraśaḥ 65 asibhiś chidyamānānāṃ śirasāṃ lokasaṃkṣaye prādurāsīn mahāśabdas tālānāṃ patatām iva 66 vimuktānāṃ śarīrāṇāṃ bhinnānāṃ patatāṃ bhuvi sāyudhānāṃ ca bāhūnām urūṇāṃ ca viśāṃ pate āsīt kaṭakaṭā śabdaḥ sumahāṁl lomaharṣaṇaḥ 67 nighnanto niśitaiḥ śastrair bhrātṝn putrān sakhīn api yodhāḥ paripatanti sma yathāmiṣa kṛte khagāḥ 68 anyonyaṃ pratisaṃrabdhāḥ samāsādya parasparam ahaṃ pūrvam ahaṃ pūrvam iti nyaghnan sahasraśaḥ 69 saṃghātair āsanabhraṣṭair aśvārohair gatāsubhiḥ hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ 70 sphuratāṃ pratipiṣṭānām aśvānāṃ śīghrasāriṇām stanatāṃ ca manuṣyāṇāṃ saṃnaddhānāṃ viśāṃ pate 71 śaktyṛṣṭi prāsaśabdaś ca tumulaḥ samajāyata bhindatāṃ paramarmāṇi rājan durmantrite tava 72 śramābhibhūtāḥ saṃrabdhāḥ śrāntavāhāḥ pipāsitāḥ vikṣatāś ca śitaiḥ śastrair abhyavartanta tāvakāḥ 73 mattā rudhiragandhena bahavo 'tra vicetasaḥ jaghnuḥ parān svakāṃś caiva prāptān prāptān anantarān 74 bahavaś ca gataprāṇāḥ kṣatriyā jaya gṛddhinaḥ bhūmāv abhyapatan rājañ śaravṛṣṭibhir āvṛtāḥ 75 vṛkagṛdhraśṛgālānāṃ tumule modane 'hani āsīd balakṣayo ghoras tava putrasya paśyataḥ 76 nar aśvakāyasaṃchannā bhūmir āsīd viśāṃ pate rudhiraudaka citrā ca bhīrūṇāṃ bhayavardhinī 77 asibhiḥ paṭṭiśaiḥ śūrais takṣamāṇāḥ punaḥ punaḥ tāvakāḥ pāṇḍavāś caiva nābhyavartanta bhārata 78 praharanto yathāśakti yāvat prāṇasya dhāraṇam yodhāḥ paripatanti sma vamanto rudhiraṃ vraṇaiḥ 79 śiro gṛhītvā keśeṣu kabandhaḥ samadṛśyata udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam 80 athotthiteṣu bahuṣu kabandheṣu janādhipa tathā rudhiragandhena yodhāḥ kaśmalam āviśan 81 mandī bhūte tataḥ śabde pāṇḍavānāṃ mahad balam alpāvaśiṣṭais turagair abhyavartata saubalaḥ 82 tato 'bhyadhāvaṃs tvaritāḥ pāṇḍavā jaya gṛddhinaḥ padātayaś ca nāgāś ca sādinaś codyatāyudhāḥ 83 koṣṭakī kṛtyacāpy enaṃ parikṣipya ca sarvaśaḥ śastrair nānāvidhair jaghnur yuddhapāraṃ titīrṣavaḥ 84 tvadīyās tāṃs tu saṃprekṣya sarvataḥ samabhidrutān sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ 85 ke cit padātayaḥ padbhir muṣṭibhiś ca parasparam nijaghnuḥ samare śūrāḥ kṣīṇaśastrās tato 'patan 86 rathebhyo rathinaḥ petur dvipebhyo hastisādinaḥ vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā 87 evam anyonyam āyastā yodhā jaghnur mahāmṛdhe pitṝn bhrātṝn vayasyāṃś ca putrān api tathāpare 88 evam āsīd amaryādaṃ yuddhaṃ bharatasattama prāsāsibāṇakalile vartamāne sudāruṇe |