1
[स] ततः करुथ्धा महाराज सौबलस्या पथानुगाः तयक्त्वा जीवितम आक्रन्थे पाण्डवान पर्यवारयन 2 तान अर्जुनः परत्यगृह्णात सहथेव जये धृतः भीमसेनश च तेजस्वी करुथ्धाशीविषथर्शनः 3 शक्त्यृष्टि परासहस्तानां सहसेवं जिघांसताम संकल्पम अकरॊन मॊघं गाण्डीवेन धनंजयः 4 परगृहीतायुधान बाहून यॊधानाम अभिधावताम भल्लैश चिच्च्छेथ बीभत्सुः शिरांस्य अपि हयान अपि 5 ते हता रप्त्यपथ्यन्त वसुधां विगतासवः तवरिता लॊकवीरेण परहताः सव्यसाचिना 6 ततॊ थुर्यॊधनॊ राजा थृष्ट्वा सवबलसंक्षयम हतशेषान समानीय करॊथ्धॊ रदशतान विभॊ 7 कुञ्जरांश च हयांश चैव पाथातंश च परंतप उवाच सहितान सर्वान धार्तराष्ट्र इथं वचः 8 समासाथ्य रणे सर्वान पाण्डवान ससुहृथ गणान पाञ्चाल्यं चापि सबलं हत्वा शीघ्रं निवर्तत 9 तस्य ते शिरसा गृह्य वचनं युथ्धथुर्मथाः परत्युथ्ययू रणे पार्दांस तव पुत्रस्य शासनात 10 तान अभ्यापततः शीघ्रं हतशेषान महारणे शरैर आशीविषाकारैः पाण्डवाः समवाकिरन 11 तत सैन्यं भरतश्रेष्ठ मुहूर्तेन महात्मभिः अवध्यत रणं पराप्य तरातारं नाभ्यविन्थत परतिष्ठमानं तु भयान नावतिष्ठत थंशितम 12 अश्वैर विपरिधावथ्भिः सैन्येन रजसा वृते न पराज्ञायन्त समरे थिशश च परथिशस तदा 13 ततस तु पाण्डवानीकान निःसृत्य बहवॊ जनाः अभ्यघ्नंस तावकान युथ्धे मुहूर्ताथ इव भारत ततॊ निःशेषम अभवत तत सैन्यं तव भारत 14 अक्षौहिण्यः समेतास तु तव पुत्रस्य भारत एकाथश हता युथ्धे ताः परभॊ पाण्डुसृञ्जयैः 15 तेषु राजसहस्रेषु तावकेषु महात्मसु एकॊ थुर्यॊधनॊ राजन्न अथृश्यत भृशं कषतः 16 ततॊ वीक्ष्य थिशः सर्वा थृष्ट्वा शून्यां च मेथिनीम विहीनः सर्वयॊधैश च पाण्डवान वीक्ष्य संयुगे 17 मुथितान सर्वसिथ्धार्दान नर्थमानान समन्ततः बाणशब्थरवांश चैव शरुत्वा तेषां महात्मनाम 18 थुर्यॊधनॊ महाराज कश्मलेनाभिसंवृतः अपयाने मनश चक्रे विहीनबलवाहनः 19 [धृ] निहते मामके सैन्ये निःशेषे शिबिरे कृते पाण्डवानां बलं सूत किं नु शेषम अभूत तथा एतन मे पृच्छतॊ बरूहि कुशलॊ हय असि संजय 20 यच च थुर्यॊधनॊ मन्थः कृतवांस तनयॊ मम बलक्षयं तदा थृष्ट्वा स एकः पृदिवीपतिः 21 [स] रदानां थवे सहस्रे तु सप्त नागशतानि च पञ्च चाश्वसहस्राणि पत्तीनां च शतं शताः 22 एतच छेषम अभूथ राजन पाण्डवानां महथ बलम परिगृह्य हि यथ युथ्धे धृष्टथ्युम्नॊ वयवस्दितः 23 एकाकी भरतश्रेष्ठ ततॊ थुर्यॊधनॊ नृपः नापश्यत समरे कं चित सहायं रदिनां वरः 24 नर्थमानान परांश चैव सवबलस्य च संक्षयम हतं सवहयम उत्सृज्य पराङ्मुखः पराथ्रवथ भयात 25 एकाथश चमू भर्ता पुत्रॊ थुर्यॊधनस तव गथाम आथाय तेजस्वी पथातिः परदितॊ हरथम 26 नातिथूरं ततॊ गत्वा पथ्भ्याम एव नराधिपः सस्मार वचनं कषत्तुर धर्मशीलस्य धीमतः 27 इथं नूनं महाप्राज्ञॊ विथुरॊ थृष्टवान पुरा महथ वैशसम अस्माकं कषत्रियाणां च संयुगे 28 एवं विचिन्तयानस तु परविविक्षुर हरथं नृपः थुःखसंतप्त हृथयॊ थृष्ट्वा राजन बलक्षयम 29 पाण्डवाश च महाराज धृष्टथ्युम्नपुरॊगमाः अभ्यधावन्त संक्रुथ्धास तव राजन बलं परति 30 शक्त्यृष्टि परासहस्तानां बलानाम अभिगर्जताम संकल्पम अकरॊन मॊघं गाण्डीवेन धनंजयः 31 तान हत्व निशितैर बाणैः सामात्यान सह बन्धुभिः रदे शवेतहये तिष्ठन्न अर्जुनॊ बह्व अशॊभत 32 सुबलस्या हते पुत्रे सवाजिरदकुञ्जरे महावनम इव छिन्नम अभवत तावकं बलम 33 अनेकशतसाहस्रे बले थुर्यॊधनस्य ह नान्यॊ महारदॊ राजञ जीवमानॊ वयथृश्यत 34 थरॊणपुत्राथ ऋते वीरात तदैव कृतवर्मणः कृपाच च गौतमाथ राजन पार्दिवाच च तवात्मजात 35 धृष्टथ्युम्नस तु मां थृष्ट्वा हसन सात्यकिम अब्रवीत किम अनेन गृहीतेन नानेनार्दॊ ऽसति जीवता 36 धृष्टथ्युम्न वचः शरुत्वा शिनेर नप्ता महारदः उथ्यम्य निशितं खड्गं हन्तुं मामुथ्यतस तथा 37 तम आगम्य महाप्राज्ञः कृष्णथ्वैपायनॊ ऽबरवीत मुच्यतां संजयॊ जीवन न हन्तव्यः कदं चन 38 थवैपायन वचः शरुत्वा शिनेर नप्ता कृताञ्जलिः ततॊ माम अब्रवीन मुक्त्वा सवस्ति संजय साधय 39 अनुज्ञातस तव अहं तेन नयस्तवर्मा निरायुधः परातिष्ठं येन नगरं सायाह्ने रुधिरॊक्षितः 40 करॊशमात्रम अपक्रान्तं गथापाणिम अवस्दितम एकं थुर्यॊधनं राजन्न अपश्यं भृशविक्षतम 41 स तु माम अश्रुपूर्णाक्षॊ नाशक्नॊथ अभिवीक्षितुम उपप्रैक्षत मां थृष्ट्वा तथा थीनम अवस्दितम 42 तं चाहम अपि शॊचन्तं थृष्ट्वैकाकिनम आहवे मुहूर्तं नाशकं वक्तुं किं चिथ थुःखपरिप्लुतः 43 ततॊ ऽसमै तथ अहं सर्वम उक्तवान गरहणं तथा थवैपायन परसाथाच च जीवतॊ मॊक्षम आहवे 44 मुहूर्तम इव च धयात्वा परतिलभ्य च चेतनाम भरातॄंश च सर्वसैन्यानि पर्यपृच्छत मां ततः 45 तस्मै तथ अहम आचक्षं सर्वं परत्यक्षथर्शिवान भरातॄंश च निहतान सर्वान सैन्यं च विनिपातितम 46 तरयः किल रदाः शिष्टास तावकानां नराधिप इति परस्दान काले मां कृष्णथ्वैपायनॊ ऽबरवीत 47 स थीर्घम इव निःश्वस्य विप्रेक्ष्य च पुनः पुनः अंसे मां पाणिना सपृष्ट्वा पुत्रस ते पर्यभाषत 48 तवथन्यॊ नेह संग्रामे कश चिज जीवति संजय थवितीयं नेह पश्यामि ससहायाश च पाण्डवाः 49 बरूयाः संजय राजानं परज्ञा चक्षुषम ईश्वरम थुर्यॊधनस तव सुतः परविष्टॊ हरथम इत्य उत 50 सुहृथ्भिस ताथृशैर हीनः पुत्रैर भरातृभिर एव च पाण्डवैश च हृते राज्ये कॊ नु जीवति माथृशः 51 आचक्षेदाः सर्वम इथं मां च मुक्तं महाहवात अस्मिंस तॊयह्रथे सुप्तं जीवन्तं भृशविक्षतम 52 एवम उक्त्वा महाराज पराविशत तं हरथं नृपः अस्तम्भयत तॊयं च मायया मनुजाधिपः 53 तस्मिन हरथं परविष्टे तु तरीन रदाञ शरान्तवाहनान अपश्यं सहितान एकस तं थेशं समुपेयुषः 54 कृपं शारथ्वतं वीरं थरौणिं च रदिनां वरम भॊजं च कृतवर्माणं सहिताञ शरविक्षतान 55 ते सर्वे माम अभिप्रेक्ष्य तूर्णम अश्वान अचॊथयन उपयाय च माम ऊचुर थिष्ट्या जीवसि संजय 56 अपृच्छंश चैव मां सर्वे पुत्रं तव जनाधिपम कच चिथ थुर्यॊधनॊ राजा स नॊ जीवति संजय 57 आख्यातवान अहं तेभ्यस तथा कुशलिनं नृपम तच चैव सर्वम आचक्षं यन मां थुर्यॊधनॊ ऽबरवीत हरथं चैवाहम आचष्ट यं परविष्टॊ नराधिपः 58 अश्वत्तामा तु तथ राजन निशम्य वचनं मम तं हरथं विपुलं परेक्ष्य करुणं पर्यथेवयत 59 अहॊ धिन न स जानाति जीवतॊ ऽसमान नराधिपः पर्याप्ता हि वयं तेन सह यॊधयितुं परान 60 ते तु तत्र चिरं कालं विलप्य च महारदाः पराथ्रवन रदिनां शरेष्ठा थृष्ट्वा पाण्डुसुतान रणे 61 ते तु मां रदम आरॊप्य कृपस्य सुपरिष्कृतम सेनानिवेशम आजग्मुर हतशेषास तरयॊ रदाः 62 तत्र गुल्माः परित्रस्ताः सूर्ये चास्तम इते सति सर्वे विचुक्रुशुः शरुत्वा पुत्राणां तव संक्षयम 63 ततॊ वृथ्धा महाराज यॊषितां रक्षणॊ नराः राजथारान उपाथाय परययुर नगरं परति 64 तत्र विक्रॊशतीनां च रुथतीनां च सर्वशः पराथुरासीन महाञ शब्थः शरुत्वा तथ बलसंक्षयम 65 ततस ता यॊषितॊ राजन करन्थन्त्यॊ वै मुहुर मुहुः कुरर्य इव शब्थेन नाथयन्त्यॊ महीतलम 66 आजघ्नुः करजैश चापि पाणिभिश च शिरांस्य उत लुलुवुश च तथा केशान करॊशन्त्यस तत्र तत्र ह 67 हाहाकारविनाथिन्यॊ विनिघ्नन्त्य उरांसि च करॊशन्त्यस तत्र रुरुथुः करन्थमाना विशां पते 68 ततॊ थुर्यॊधनामात्याः साश्रुकण्ठा हृशातुराः राजथारान उपाथाय परययुर नगरं परति 69 वेत्रजर्झर हस्ताश च थवाराध्यक्षा विशां पते शयनीयानि शुभ्राणि सपर्ध्यास्तरणवन्ति च समाथाय ययुस तूर्णं नगरं थाररक्षिणः 70 आस्दायाश्वतरी युक्तान सयन्थनान अपरे जनाः सवान सवान थारान उपाथाय परययुर नगरं परति 71 अथृष्टपूर्वा या नार्यॊ भास्करेणापि वेश्मसु थाथृशुस ता महाराज जना यान्तीः पुरं परति 72 ताः सत्रियॊ भरतश्रेष्ठ सौकुमार्य समन्विताः परययुर नगरं तूर्णं हतस्वजनबान्धवाः 73 आ गॊपालावि पालेभ्यॊ थरवन्तॊ नगरं परति ययुर मनुष्याः संभ्रान्ता भीमसेनभयार्थिताः 74 अपि चैषां भयं तीव्रं पार्देभ्यॊ ऽभूत सुथारुणम परेक्षमाणास तथान्यॊन्यम आधावन नगरं परति 75 तस्मिंस तथा वर्तमाने विथ्रवे भृशथारुणे युयुत्सुः शॊकसंमूढः पराप्तकालम अचिन्तयत 76 जितॊ थुर्यॊधनः संख्ये पाण्डवैर भीमविक्रमैः एकाथश चमू भर्ता भरातरश चास्य सूथिताः हताश च कुरवः सर्वे भीष्मथ्रॊणपुरः सराः 77 अहम एकॊ विमुक्तस तु भाग्ययॊगाथ यथृच्छया विथ्रुतानि च सर्वाणि शिबिराणि समन्ततः 78 थुर्यॊधनस्य सचिवा ये के चिथ अवशेषिताः राजथारान उपाथाय वयधावन नगरं परति 79 पराप्तकालम अहं मन्ये परवेशं तैः सहाभिभॊ युधिष्ठिरम अनुज्ञाप्य भीमसेनं तदैव च 80 एतम अर्दं महाबाहुर उभयॊः स नयवेथयत तस्य परीतॊ ऽभवथ राजा नित्यं करुणवेथिता परिष्वज्य महाबाहुर वैश्यापुत्रं वयसर्जयत 81 ततः स रदम आस्दाय थरुतम अश्वान अचॊथयत असंभावितवांश चापि राजथारान पुरं परति 82 तैश चैव सहितः कषिप्रम अस्तं गच्छति भास्करे परविष्टॊ हास्तिनपुरं बाष्प कण्ठॊ ऽशरुलॊचनः 83 अपश्यत महाप्राज्ञं विथुरं साश्रुलॊचनम राज्ञः समीपान निष्क्रान्तं शॊकॊपहतचेतसम 84 तम अब्रवीत सत्यधृतिः परणतं तव अग्रतः सदितम अस्मिन कुरु कषये वृत्ते थिष्ट्या तवं पुत्र जीवसि 85 विना राज्ञः परवेशाथ वै किम असि तवम इहागतः एतन मे कारणं सर्वं विस्तरेण निवेथय 86 [यु] निहते शकुनौ तात सज्ञाति सुतबान्धवे हतशेष परीवारॊ राजा थुर्यॊधनस ततः सवकं सहयम उत्सृज्य पराङ्मुखः पराथ्रवथ भयात 87 अपक्रान्ते तु नृपतौ सकन्धावारनिवेशनात भयव्याकुलितं सर्वं पराथ्रवन नगरं परति 88 ततॊ राज्ञः कलत्राणि भरातॄणां चास्य सर्वशः वाहनेषु समारॊप्य सत्र्यध्यक्षाः पराथ्रवन भयात 89 ततॊ ऽहं समनुज्ञाप्य राजानं सहकेशवम परविष्टॊ हास्तिनपुरं रक्षँल लॊकाथ धि वाच्यताम 90 एतच छरुत्वा तु वचनं वैश्यापुत्रेण भाषितम पराप्तकालम इति जञात्वा विथुरः सर्वधर्मवित अपूजयथ अमेयात्मा युयुत्सुं वाक्यकॊविथम 91 पराप्तकालम इथं सर्वं भवतॊ भरतक्षये अथ्य तवम इह विश्रान्तः शवॊ ऽभिगन्ता युधिष्ठिरम 92 एतावथ उक्त्वा वचनं विथुरः सर्वधर्मवित युयुत्सुं समनुज्ञाप्य परविवेश नृप कषयम युयुत्सुर अपि तां रात्रिं सवगृहे नयवसत तथा |
1
[s] tataḥ kruddhā mahārāja saubalasyā padānugāḥ tyaktvā jīvitam ākrande pāṇḍavān paryavārayan 2 tān arjunaḥ pratyagṛhṇāt sahadeva jaye dhṛtaḥ bhīmasenaś ca tejasvī kruddhāśīviṣadarśanaḥ 3 śaktyṛṣṭi prāsahastānāṃ sahasevaṃ jighāṃsatām saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ 4 pragṛhītāyudhān bāhūn yodhānām abhidhāvatām bhallaiś cicccheda bībhatsuḥ śirāṃsy api hayān api 5 te hatā raptyapadyanta vasudhāṃ vigatāsavaḥ tvaritā lokavīreṇa prahatāḥ savyasācinā 6 tato duryodhano rājā dṛṣṭvā svabalasaṃkṣayam hataśeṣān samānīya kroddho rathaśatān vibho 7 kuñjarāṃś ca hayāṃś caiva pādātaṃś ca paraṃtapa uvāca sahitān sarvān dhārtarāṣṭra idaṃ vacaḥ 8 samāsādya raṇe sarvān pāṇḍavān sasuhṛd gaṇān pāñcālyaṃ cāpi sabalaṃ hatvā śīghraṃ nivartata 9 tasya te śirasā gṛhya vacanaṃ yuddhadurmadāḥ pratyudyayū raṇe pārthāṃs tava putrasya śāsanāt 10 tān abhyāpatataḥ śīghraṃ hataśeṣān mahāraṇe śarair āśīviṣākāraiḥ pāṇḍavāḥ samavākiran 11 tat sainyaṃ bharataśreṣṭha muhūrtena mahātmabhiḥ avadhyata raṇaṃ prāpya trātāraṃ nābhyavindata pratiṣṭhamānaṃ tu bhayān nāvatiṣṭhata daṃśitam 12 aśvair viparidhāvadbhiḥ sainyena rajasā vṛte na prājñāyanta samare diśaś ca pradiśas tathā 13 tatas tu pāṇḍavānīkān niḥsṛtya bahavo janāḥ abhyaghnaṃs tāvakān yuddhe muhūrtād iva bhārata tato niḥśeṣam abhavat tat sainyaṃ tava bhārata 14 akṣauhiṇyaḥ sametās tu tava putrasya bhārata ekādaśa hatā yuddhe tāḥ prabho pāṇḍusṛñjayaiḥ 15 teṣu rājasahasreṣu tāvakeṣu mahātmasu eko duryodhano rājann adṛśyata bhṛśaṃ kṣataḥ 16 tato vīkṣya diśaḥ sarvā dṛṣṭvā śūnyāṃ ca medinīm vihīnaḥ sarvayodhaiś ca pāṇḍavān vīkṣya saṃyuge 17 muditān sarvasiddhārthān nardamānān samantataḥ bāṇaśabdaravāṃś caiva śrutvā teṣāṃ mahātmanām 18 duryodhano mahārāja kaśmalenābhisaṃvṛtaḥ apayāne manaś cakre vihīnabalavāhanaḥ 19 [dhṛ] nihate māmake sainye niḥśeṣe śibire kṛte pāṇḍavānāṃ balaṃ sūta kiṃ nu śeṣam abhūt tadā etan me pṛcchato brūhi kuśalo hy asi saṃjaya 20 yac ca duryodhano mandaḥ kṛtavāṃs tanayo mama balakṣayaṃ tathā dṛṣṭvā sa ekaḥ pṛthivīpatiḥ 21 [s] rathānāṃ dve sahasre tu sapta nāgaśatāni ca pañca cāśvasahasrāṇi pattīnāṃ ca śataṃ śatāḥ 22 etac cheṣam abhūd rājan pāṇḍavānāṃ mahad balam parigṛhya hi yad yuddhe dhṛṣṭadyumno vyavasthitaḥ 23 ekākī bharataśreṣṭha tato duryodhano nṛpaḥ nāpaśyat samare kaṃ cit sahāyaṃ rathināṃ varaḥ 24 nardamānān parāṃś caiva svabalasya ca saṃkṣayam hataṃ svahayam utsṛjya prāṅmukhaḥ prādravad bhayāt 25 ekādaśa camū bhartā putro duryodhanas tava gadām ādāya tejasvī padātiḥ prathito hradam 26 nātidūraṃ tato gatvā padbhyām eva narādhipaḥ sasmāra vacanaṃ kṣattur dharmaśīlasya dhīmataḥ 27 idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā mahad vaiśasam asmākaṃ kṣatriyāṇāṃ ca saṃyuge 28 evaṃ vicintayānas tu pravivikṣur hradaṃ nṛpaḥ duḥkhasaṃtapta hṛdayo dṛṣṭvā rājan balakṣayam 29 pāṇḍavāś ca mahārāja dhṛṣṭadyumnapurogamāḥ abhyadhāvanta saṃkruddhās tava rājan balaṃ prati 30 śaktyṛṣṭi prāsahastānāṃ balānām abhigarjatām saṃkalpam akaron moghaṃ gāṇḍīvena dhanaṃjayaḥ 31 tān hatva niśitair bāṇaiḥ sāmātyān saha bandhubhiḥ rathe śvetahaye tiṣṭhann arjuno bahv aśobhata 32 subalasyā hate putre savājirathakuñjare mahāvanam iva chinnam abhavat tāvakaṃ balam 33 anekaśatasāhasre bale duryodhanasya ha nānyo mahāratho rājañ jīvamāno vyadṛśyata 34 droṇaputrād ṛte vīrāt tathaiva kṛtavarmaṇaḥ kṛpāc ca gautamād rājan pārthivāc ca tavātmajāt 35 dhṛṣṭadyumnas tu māṃ dṛṣṭvā hasan sātyakim abravīt kim anena gṛhītena nānenārtho 'sti jīvatā 36 dhṛṣṭadyumna vacaḥ śrutvā śiner naptā mahārathaḥ udyamya niśitaṃ khaḍgaṃ hantuṃ māmudyatas tadā 37 tam āgamya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt mucyatāṃ saṃjayo jīvan na hantavyaḥ kathaṃ cana 38 dvaipāyana vacaḥ śrutvā śiner naptā kṛtāñjaliḥ tato mām abravīn muktvā svasti saṃjaya sādhaya 39 anujñātas tv ahaṃ tena nyastavarmā nirāyudhaḥ prātiṣṭhaṃ yena nagaraṃ sāyāhne rudhirokṣitaḥ 40 krośamātram apakrāntaṃ gadāpāṇim avasthitam ekaṃ duryodhanaṃ rājann apaśyaṃ bhṛśavikṣatam 41 sa tu mām aśrupūrṇākṣo nāśaknod abhivīkṣitum upapraikṣata māṃ dṛṣṭvā tadā dīnam avasthitam 42 taṃ cāham api śocantaṃ dṛṣṭvaikākinam āhave muhūrtaṃ nāśakaṃ vaktuṃ kiṃ cid duḥkhapariplutaḥ 43 tato 'smai tad ahaṃ sarvam uktavān grahaṇaṃ tadā dvaipāyana prasādāc ca jīvato mokṣam āhave 44 muhūrtam iva ca dhyātvā pratilabhya ca cetanām bhrātṝṃś ca sarvasainyāni paryapṛcchata māṃ tataḥ 45 tasmai tad aham ācakṣaṃ sarvaṃ pratyakṣadarśivān bhrātṝṃś ca nihatān sarvān sainyaṃ ca vinipātitam 46 trayaḥ kila rathāḥ śiṣṭās tāvakānāṃ narādhipa iti prasthāna kāle māṃ kṛṣṇadvaipāyano 'bravīt 47 sa dīrgham iva niḥśvasya viprekṣya ca punaḥ punaḥ aṃse māṃ pāṇinā spṛṣṭvā putras te paryabhāṣata 48 tvadanyo neha saṃgrāme kaś cij jīvati saṃjaya dvitīyaṃ neha paśyāmi sasahāyāś ca pāṇḍavāḥ 49 brūyāḥ saṃjaya rājānaṃ prajñā cakṣuṣam īśvaram duryodhanas tava sutaḥ praviṣṭo hradam ity uta 50 suhṛdbhis tādṛśair hīnaḥ putrair bhrātṛbhir eva ca pāṇḍavaiś ca hṛte rājye ko nu jīvati mādṛśaḥ 51 ācakṣethāḥ sarvam idaṃ māṃ ca muktaṃ mahāhavāt asmiṃs toyahrade suptaṃ jīvantaṃ bhṛśavikṣatam 52 evam uktvā mahārāja prāviśat taṃ hradaṃ nṛpaḥ astambhayata toyaṃ ca māyayā manujādhipaḥ 53 tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān apaśyaṃ sahitān ekas taṃ deśaṃ samupeyuṣaḥ 54 kṛpaṃ śāradvataṃ vīraṃ drauṇiṃ ca rathināṃ varam bhojaṃ ca kṛtavarmāṇaṃ sahitāñ śaravikṣatān 55 te sarve mām abhiprekṣya tūrṇam aśvān acodayan upayāya ca mām ūcur diṣṭyā jīvasi saṃjaya 56 apṛcchaṃś caiva māṃ sarve putraṃ tava janādhipam kac cid duryodhano rājā sa no jīvati saṃjaya 57 ākhyātavān ahaṃ tebhyas tadā kuśalinaṃ nṛpam tac caiva sarvam ācakṣaṃ yan māṃ duryodhano 'bravīt hradaṃ caivāham ācaṣṭa yaṃ praviṣṭo narādhipaḥ 58 aśvattāmā tu tad rājan niśamya vacanaṃ mama taṃ hradaṃ vipulaṃ prekṣya karuṇaṃ paryadevayat 59 aho dhin na sa jānāti jīvato 'smān narādhipaḥ paryāptā hi vayaṃ tena saha yodhayituṃ parān 60 te tu tatra ciraṃ kālaṃ vilapya ca mahārathāḥ prādravan rathināṃ śreṣṭhā dṛṣṭvā pāṇḍusutān raṇe 61 te tu māṃ ratham āropya kṛpasya supariṣkṛtam senāniveśam ājagmur hataśeṣās trayo rathāḥ 62 tatra gulmāḥ paritrastāḥ sūrye cāstam ite sati sarve vicukruśuḥ śrutvā putrāṇāṃ tava saṃkṣayam 63 tato vṛddhā mahārāja yoṣitāṃ rakṣaṇo narāḥ rājadārān upādāya prayayur nagaraṃ prati 64 tatra vikrośatīnāṃ ca rudatīnāṃ ca sarvaśaḥ prādurāsīn mahāñ śabdaḥ śrutvā tad balasaṃkṣayam 65 tatas tā yoṣito rājan krandantyo vai muhur muhuḥ kurarya iva śabdena nādayantyo mahītalam 66 ājaghnuḥ karajaiś cāpi pāṇibhiś ca śirāṃsy uta luluvuś ca tadā keśān krośantyas tatra tatra ha 67 hāhākāravinādinyo vinighnantya urāṃsi ca krośantyas tatra ruruduḥ krandamānā viśāṃ pate 68 tato duryodhanāmātyāḥ sāśrukaṇṭhā hṛśāturāḥ rājadārān upādāya prayayur nagaraṃ prati 69 vetrajarjhara hastāś ca dvārādhyakṣā viśāṃ pate śayanīyāni śubhrāṇi spardhyāstaraṇavanti ca samādāya yayus tūrṇaṃ nagaraṃ dārarakṣiṇaḥ 70 āsthāyāśvatarī yuktān syandanān apare janāḥ svān svān dārān upādāya prayayur nagaraṃ prati 71 adṛṣṭapūrvā yā nāryo bhāskareṇāpi veśmasu dādṛśus tā mahārāja janā yāntīḥ puraṃ prati 72 tāḥ striyo bharataśreṣṭha saukumārya samanvitāḥ prayayur nagaraṃ tūrṇaṃ hatasvajanabāndhavāḥ 73 ā gopālāvi pālebhyo dravanto nagaraṃ prati yayur manuṣyāḥ saṃbhrāntā bhīmasenabhayārditāḥ 74 api caiṣāṃ bhayaṃ tīvraṃ pārthebhyo 'bhūt sudāruṇam prekṣamāṇās tadānyonyam ādhāvan nagaraṃ prati 75 tasmiṃs tadā vartamāne vidrave bhṛśadāruṇe yuyutsuḥ śokasaṃmūḍhaḥ prāptakālam acintayat 76 jito duryodhanaḥ saṃkhye pāṇḍavair bhīmavikramaiḥ ekādaśa camū bhartā bhrātaraś cāsya sūditāḥ hatāś ca kuravaḥ sarve bhīṣmadroṇapuraḥ sarāḥ 77 aham eko vimuktas tu bhāgyayogād yadṛcchayā vidrutāni ca sarvāṇi śibirāṇi samantataḥ 78 duryodhanasya sacivā ye ke cid avaśeṣitāḥ rājadārān upādāya vyadhāvan nagaraṃ prati 79 prāptakālam ahaṃ manye praveśaṃ taiḥ sahābhibho yudhiṣṭhiram anujñāpya bhīmasenaṃ tathaiva ca 80 etam arthaṃ mahābāhur ubhayoḥ sa nyavedayat tasya prīto 'bhavad rājā nityaṃ karuṇaveditā pariṣvajya mahābāhur vaiśyāputraṃ vyasarjayat 81 tataḥ sa ratham āsthāya drutam aśvān acodayat asaṃbhāvitavāṃś cāpi rājadārān puraṃ prati 82 taiś caiva sahitaḥ kṣipram astaṃ gacchati bhāskare praviṣṭo hāstinapuraṃ bāṣpa kaṇṭho 'śrulocanaḥ 83 apaśyata mahāprājñaṃ viduraṃ sāśrulocanam rājñaḥ samīpān niṣkrāntaṃ śokopahatacetasam 84 tam abravīt satyadhṛtiḥ praṇataṃ tv agrataḥ sthitam asmin kuru kṣaye vṛtte diṣṭyā tvaṃ putra jīvasi 85 vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ etan me kāraṇaṃ sarvaṃ vistareṇa nivedaya 86 [yu] nihate śakunau tāta sajñāti sutabāndhave hataśeṣa parīvāro rājā duryodhanas tataḥ svakaṃ sahayam utsṛjya prāṅmukhaḥ prādravad bhayāt 87 apakrānte tu nṛpatau skandhāvāraniveśanāt bhayavyākulitaṃ sarvaṃ prādravan nagaraṃ prati 88 tato rājñaḥ kalatrāṇi bhrātṝṇāṃ cāsya sarvaśaḥ vāhaneṣu samāropya stryadhyakṣāḥ prādravan bhayāt 89 tato 'haṃ samanujñāpya rājānaṃ sahakeśavam praviṣṭo hāstinapuraṃ rakṣaṁl lokād dhi vācyatām 90 etac chrutvā tu vacanaṃ vaiśyāputreṇa bhāṣitam prāptakālam iti jñātvā viduraḥ sarvadharmavit apūjayad ameyātmā yuyutsuṃ vākyakovidam 91 prāptakālam idaṃ sarvaṃ bhavato bharatakṣaye adya tvam iha viśrāntaḥ śvo 'bhigantā yudhiṣṭhiram 92 etāvad uktvā vacanaṃ viduraḥ sarvadharmavit yuyutsuṃ samanujñāpya praviveśa nṛpa kṣayam yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā |